सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 18, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 18

श्रमोपचारं १ वाहानां तथारिष्टत्रयं २ पुनः ।
वेधारिष्टं पुनश्चैव कटिवेधं तथैव च ॥ १० ॥
मृगरोगचिकित्साञ्च ३ चिह्नपूर्वं समासतः ।
वातादीनाञ्च ४ दोषाणां कोपहेतुं तथैव च ॥ ११ ॥
व्याधिनिर्द्देशमुखरुङ्नेत्ररोगविधिं क्रमात् ।
काचं प्रचारं विख्यातं रक्तं विख्यातपाटलम् ५ ॥ १२ ॥
१० । श्रमोपचारमिति । अतिवाहनादेः श्वासा दिरोगजनको
यः परिश्रमः खेदापनयनानन्तरं मदिरादिदानेन तत्प्रतीकाररूपोवा
द्य उपचारः । अरिष्टत्रयं खखारिष्टं वेधारिष्टं कीटारिष्टञ्चेति ।
इदञ्चारिष्टाध्याये एषणीयम् ॥
११ । मृगरोगेति भूरि उपद्रवजनकः सांघातिको रोगविशेषः ।
अस्य लक्षणादिकं मृगरोगचिकित्सायां द्रष्टव्यम् । चिह्नपूर्वं लक्षण-
ज्ञानपूर्वकमित्यर्थः । वातादीनामिति वातपित्तकफसंज्ञकदोषत्रयाणां
कोपे वृद्धौ हेतुः कारणम् । हेतुश्च तिक्तादि-कट्वादि-मधुरादि-
द्रव्योपयोगजः । एतानि च प्रकोपकारणानि दोषप्रकोपोपशमनाध्याये
वक्ष्यन्ते ॥
१२ । व्याधिनिर्द्देशेति । व्याधीनां वक्ष्यमाणमुखरोगादि-
१ । श्रान्तोपचारम् । कः । २ । तथारिष्टस्य लक्षणम् । कः ।
३ । मृगरोगविधिश्चैव । कः । ४ । वातादीनां प्रकोपनम् । कः ।
५ । विख्यातं । कः ।