सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 14, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 14

२ अश्ववैद्यकम् । [१ अध्यायः ।
चिकित्सा १ च समासेन सिद्धौषधसमन्विता ।
मुनिप्रोक्तानि शास्त्राणि सम्यगालोच्य वाजिनाम् ॥३॥
श्रीमद्विजयदत्तस्य पुत्रेण क्रियतेऽधुना ।
श्रीमता जयदत्तेन वाहनां हितकाम्यया २ ॥४॥
अध्यायानां यथायोगं षष्ट्याष्टाधिकसंख्यया ३ ।
श्लोकानाञ्च सहस्रेण शताष्टसंयुतेन च ४ ॥ ५ ॥
ग्रन्थविस्तरवर्जितं ग्रन्थबाहुल्यरहितं संक्षिप्तमित्यर्थः। ग्रन्थविस्तारव-
र्जितमिति यः पुस्तकान्तरे दृश्यते पाठः स न सम्यक् तथाविधप्र-
योगादर्शनात् ॥ यथाक्रममिति मुनिप्रदिष्टक्रमानुसारेणेत्यर्थः ॥
३ । सिद्धौषधसमन्वितेति । सिद्धानि निश्चितानि प्रयोगेण
भूरिशो दृष्टफलानीत्यर्थः । यानि औषधानि तैः समन्विता युक्ता ।
मुनिप्रोक्तानि शालिहोत्राश्ववैद्यप्रणीतानीत्यर्थः । अत्र शास्त्रशब्दस्य
बहुवचनेन नकुलादिकृतशास्त्राणि विवक्षितानि ॥ वाजः पक्षो वेगो
वा अस्ति यस्य स वाजी । इन्प्रत्ययः । वाजति गच्छति वा वाजीति ॥
५ । अष्टाधिकसङ्ख्यया षष्ट्या अष्टषष्ट्येत्यर्थः । श्लोकानामित्यादि-
र्द्विविध एव पाठो न सङ्गच्छते अस्य ग्रन्थस्य साकल्येन सार्द्धसहस्र-
श्लोकात्मकत्वात् ॥
१ । चिकित्साञ्च । कः । २ । हितमिच्छता । गः ।
३ । द्विसङ्ख्यया । गः । ४ । शताष्टकयुतेन । खः ।