अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
१० अध्यायः ।] . नेत्ररोगविवरणम् । २०७
कृष्णञ्च रक्तजं विद्यात् पटलं शास्त्रकोविदः ।
अत ऊर्द्धं प्रवक्ष्यामि यथायोगं चिकित्सितम् ॥ ५७॥
तच्चिकित्सा ।
पटलेषु च सर्वेषु शिरावेधः प्रशस्यते ।
अश्रुपाते प्रपाणे च ललाटे चैव शंखयोः ॥ ५८ ॥
श्लेष्मजस्य हितं दृष्टमञ्जनं मधुसैन्धवम् ।
पटलस्य गवां मूत्रं क्षौद्रयुक्तञ्च सैन्धवम् ॥ ५९ ॥
तुत्थकं¹ सैन्धवं चैव हरितालं मनःशिलाम् ।
गवां मूत्रेण संपिष्य मरिचञ्च विचक्षणः ॥ ६० ॥
अञ्जयेत् कफजां प्राज्ञो मधुना पटलं भिषक् ।
पटले मांसकीले च चूर्णमेतत् प्रदापयेत् ॥ ६१ ॥
एष एव प्रदातव्यो वातिके घृतसंयुतः ।
पैत्तिके रक्तजे चैव² अत ऊर्द्धं क्रियां शृणु ॥ ६२ ॥
प्रपौण्डरीकं मधुकं शंखं मुक्ता प्रवालकम् ।
एतानि समभागानि जले पिष्ट्वा विचक्षणः ॥ ६३ ॥
६२ । एष योगः इत्यर्थः ।
६३ । शंखादीनां भस्म ग्राह्यम् ।
१ । गोदन्तं । खः ।
२ । चञ्जयेच्चैव तदूर्द्धं । गः ।
२०८ अश्ववैद्यके [३० अध्यायः ॥
वर्त्तिं कृत्वा ततश्चैव शोधयेत्तां विनातपम्¹ ।
ततस्तां सलिलैः पिष्ट्वा अञ्जयेत् पटलं भिषक् ॥६४॥
चिफलां सघताञ्चैव रक्तपित्तसमुद्भवे ।
पटले पाययेदश्वं² विकाले चैव बुद्धिमान् ॥ ६५ ॥
वर्त्मजं मांसकीलञ्च पिडकञ्चैव शस्त्रकैः³ ।
उत्कृत्य⁴ खोभ्रचूर्णेन अञ्जयेत् सैन्धवेन च ॥ ६६ ॥
मुञ्जजालचिकित्सा ।
एकेन मुञ्जमाख्यातं⁵ बहुभिर्मुञ्जजालकम्⁶ ।
क्रिमिभिः पटलान्तःस्थैर्विन्द्या°न्नेत्ररुजादयम् ॥ ६७ ॥
प्रथमं तैलवर्णाभं द्वितीयं स्फटिकप्रभम् ।
रक्ताभञ्च तृतीयञ्च चतुर्थं तैलमुच्यते ॥ ६८ ॥
प्रथमं पटलं साध्यं द्वितीयञ्च तथा भवेत् ।
तृतीयं कृच्छ्रसाध्यं स्याच्चतुर्थं नैव सिध्यति ॥ ६९ ॥
६५। अत्र त्रिफलायाः पलं घृतस्य च तथा एकच पायये-
दित्यर्थः ।
१ । दिनात्यये । खः ।
२ । दापयेत् । ग० । ५ । मुञ्जिकाख्या तु । खः ।
३ । शास्त्रतः । खः । ६ । मुञ्जकाजकम् । खः ।
४ । प्रोञ्छयेत् । खः । ७ । विद्यात् । ग० ।
· १० अध्यायः ।] नेत्ररोगविवरणम् । २०६
तच्चिकित्सा ।
पातयित्वा हयं १ भूमौ कृत्वा चैव सुयन्त्रितम् ।
वर्त्मनी वेधयेत् सूच्या सूत्रे नेत्रं प्रसारयेत् ॥ ७० ॥
कर्पटेनाश्रुवेगन्तु शुष्केनैवापकर्षयेत् ।
स्थापयेद्वाजिनं तन्तु प्रत्यादित्यं विचक्षणः ॥ ७१ ॥
शस्त्रं सूत्रेण संवेष्ट्य तीक्ष्णमाचन्तु २ कारयेत् ।
कृष्णशुक्लाम्बर ३धरे। वेधयेद्वाजिनेाचने ॥ ७२ ॥
अङ्गुष्ठेन ततेा नेत्रं पीडयित्वा समाहितः ।
मुञ्जकं कर्षयित्वा तु जले क्षिप्रं प्रकाशयेत् ॥ ७३ ॥
मुञ्जमुद्धृत्य नेत्रन्तु गोमूत्रेणाऽवसेचयेत् ।
क्षौद्राज्यं पूरितं कृत्वा श्लथवस्त्रेण वेष्टयेत् ४ ॥ ७४ ॥
वहिःप्रलेपं कुर्व्वीत पञ्चवल्कलकेन तु ।
कल्केन घृतयुक्तेन त्र्यहात्पट्टं विमोक्षयेत् ५ ॥ ७५ ॥
७१ । कर्पटेन वस्त्रकेन । प्रत्यादित्यमादित्याभिमुखम् ।
७२ । शस्त्रं उत्पलपत्रं व्रीहिपत्रं वा सूत्रेण संवेष्ट्य तीक्ष्णमात्रं
धारामात्रावशिष्टं कारयेदित्यर्थः ॥
७३ । मुञ्जनिष्काशनन्तरं औषधमाह क्षौद्रेत्यादि ।
१ । ततः । गः । ४ । विशोधयेत् । खः ।
२ । नित्यमात्रम् । गः । ५ । त्र्यहादूर्द्धं प्रमोचयेत् । खः ।
३ । कृष्णशुक्लान्तरे चैव । गः ।
27
२१० अश्ववैद्यके [१० अध्यायः ।
मुञ्जकोक्तविधिः सर्व्वो मुञ्जजाले विशिष्यते ।
रूढव्रणे ततः कुर्य्यात्पूर्वोक्तां पटलक्रियाम् ॥ ७६ ॥
प्रपौण्डरीकं मधुकं तथा लोहितचन्दनम् ।
एभिः कल्कीकृतैस्तैलं पाचितं त्रिफलाम्भसा ॥ ७७ ॥
नस्यं देयमशुद्धे तु तथा चैवापतर्पणम् ।
पिप्पली सैन्धवं शुण्ठी गैरिकं वरुणत्वचः ॥ ७८ ॥
गवोष्ट्रदशना श्चैव फेनश्चौदधिकस्तथा ।
क्षौद्रपिष्टैः समैरेभिरञ्जनं मुञ्जनाशनम् ॥ ७९ ॥
वर्त्मकुन्दचिकित्सा।
विभीतकास्थि सारेण¹ मधुयुक्तेन चाञ्जनम् ।
चक्षुषो यस्य वाहस्य पूयस्रावो विजायते² ॥ ८० ॥
वर्त्मकुन्देति³ यस्य स्यात्तस्य कुर्य्यात् क्रियामिमाम् ।
७७ । तैलस्य प्रस्थः। प्रपौण्डरीकादीनां कल्कः पलचतुष्टयमितः
त्रिफलाक्वाथेन पाच्यः ॥ प्रपौण्डरीकं पुण्डरियेति लोके प्रसिद्धम् ।
७८–७९ । फेनेत्यादि। औदधिकः फेन इति उदधिसम्बन्धीयः
फेनः (समुद्रफेनः) ।
८१ । वर्त्मकुन्दे आदौ शंखादिशिरावेधः, ततो नेत्रधावनं ।
अथ प्रलेपस्य प्रयोगः ।
१ । विभीतकास्थिरेणुभ्यां । खः । ३ । वर्त्मकोऽपि । खः ।
२ । ततोभवेत् । गः ।
३१ अध्यायः ।] शिरोरोगविवरणम् । २११
शंखे चैवाश्रुपाते च ललाटे वेधयेच्छिराम् ॥ ८१ ॥
त्रिफलायाः कषायेण लोध्रयुक्तेन सेवितम् ।
सेचयेत् सततं वैद्यः प्रलेपञ्चैव कारयेत् ॥ ८२ ॥
पञ्चवल्कलकल्केन क्षौद्रयुक्तेन बुद्धिमान् ॥ ८३ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे नेत्ररोगे
त्रिंशोऽध्यायः ।
अथ एकत्रिंशोऽध्यायः ।
वातिकशिरोरोगचिकित्सा ।
वातात्पित्तात् कफाच्चैव सन्निपाताच्च लोहितात् ।
अभिघाताच्च निर्दिष्टः शिरोरोगस्य सम्भवः ॥ १ ॥
अधोमुखस्य दीनस्य¹ मन्दाहारस्य वाजिनः ।
सततं प्रोथमानस्य हृष्टरोमस्य² बुद्धिमान् ॥ २ ॥
८२ । त्रिफलायाः पलदशकं । वारि चतुराढकमितं पाद-
शिष्टं कार्यम् । लोध्रचूर्णस्य पलम् ॥
१ । लोहितात् शोणितात् । वातादिषट्कारणसम्भवात् षड्-
विधः शिरोरोगः । तलक्षणादिकं क्रमेणोच्यते ।
१ । वाहस्य । गः ।
२ । दृष्टज्ञानस्य । गः ।
२१२ अश्ववैद्यके [३१ अध्यायः ।
स्पन्दमानेन शिरसा जानीयाद्वातसम्भवम् ।
स्पन्दमानं शिरस्तच्च हस्तस्पर्शेन¹ लक्षयेत् ॥ ३ ॥
शंखतालुकयोश्चैव शिरामन्यागतां तथा ।
वेधयित्वा ततः कुर्यात् पाचे तैलावसेचनम् ॥ ४ ॥
अतिविषया पिप्पल्या वचया लवणेन च ।
सुरसायाश्च² पत्तेण प्रतिपानं सुरान्वितम् ॥ ५ ॥
हितं तस्मै प्रदातव्यं भोजनञ्च रसोदकम् ।
तिलतैलेन संयुक्तं स्वल्पं त्रिकटुकान्वितम्³ ॥ ६ ॥
पैत्तिकशिरोरोगचिकित्सा ।
श्वासस्तृष्णा तथा स्वेदः शूनभावोऽपि⁴ वर्त्मनोः ।
अत्युष्णता गुरुत्वञ्च शिरसो यस्य जायते ॥ ७ ॥
अधोमुखस्य वाहस्य निद्रालस्यं तथा नृणाम् ।
पित्तोद्भवं शिरोरोगं जानीयान् मतिमान् भिषक् ॥८॥
४ । तैलावसेचनं वातरोगोक्ततैलसेकं कुर्यादित्यर्थः ॥
५ । सुरसा श्वेता चिवृत् । तस्याः पत्रेण । अतिविषादीनां चूर्णं
पलमितम् ।
६ । तिलतैलस्य कुड़वत्रयं । त्रिकटुकस्य च षट्तोलकं देयम् ।
७ । शूनभावः स्फीतिः ।
८ । अधोमुखत्वं पित्तजन्यस्य विशेषलक्षणं शिरोगुरुत्वात् ॥
१ । सम्यक् हस्तस्पर्शं न लक्षयेत् । खः। ३ । कटुकसंस्कृतम् । खः ।
२ । सुरसस्य च । गः । ४ । सूनताचापि । खः ।
३१ अध्यायः ।] शिरोरोगविवरणम् । २१३
शंखादिकं शिरावेधं पूर्व्वोक्तञ्चैव कारयेत् ।
शिरोऽभ्यङ्गो हितस्तस्मै¹ शतधौतेन सर्पिषा ॥ ९ ॥
प्रपौण्डरीकं मधुकं चन्दनाशीरपद्मकैः ।
एभिः कल्कीकृतैस्तस्य शस्तं मूर्ध्नि प्रलेपनम् ॥ १० ॥
क्षीरेण साधितं सर्पिर्मधुकोशीरपद्मकैः ।
एभिः कल्कीकृतैर्देयं तस्य नासावसेचनम् ॥ ११ ॥
तिक्तमुद्गान् घृतान् भक्तान् भोजनं तस्य दापयेत् ।
घासे दूर्व्वाऽर्जुना वापि तथा शाखेषु पल्लवान् ॥ १२ ॥
श्लैष्मिकशिरोरोगचिकित्सा ।
मुखेन नासयोर्वापि² यः श्लेष्माणं प्रमुञ्चति ।
दीनोऽतीव गुरुशिरा मेदसा शूनतालुकः ॥ १३ ॥
९ । शंखादिकमित्यत्र आदिपदेन तालुमन्यागते शिरे ज्ञेये ।
वेधश्चोत्पलपत्रव्रीहिमुखयोरन्यतरेण शस्त्रेण कार्य्यः । शतधौतं घृतं
प्रसिद्धम् ।
१० । अत्र प्रपौण्डरीकादीनां समभागं पलं वारिणा पिष्ट्वा
शिरसि लेपो देयः ।
११ । घृतस्य प्रस्थः । मधुकादीनां कल्कः कुडवमितः । क्षीरञ्च
स्नेहाच्चतुर्गुणं ग्राह्यम् ।
१ । शिरोरोगे ततस्तस्मै । गः ।
२ । नासया चैव । गः ।
२१४ अश्ववैद्यके [३१ अध्यायः ।
तस्य विद्यात् कफोत्यन्तु शिरोरोगं विचक्षणः ।
तालुकं वेधयेत्तस्य शिरां शंखादिकान्तथा ॥ १४ ॥
विड़ङ्गं कटुचूर्णञ्च तिक्तवार्त्ताकुमेव च ।
पिष्ट्वा १ क्षीरेण छागेन नस्यं तेनैव दापयेत् ॥ १५ ॥
नागरं शतपुष्पञ्च तगरञ्च हरेणुकम् ।
कल्कं कृत्वा गवां मूत्रे पचेत्तैलं विचक्षणः ॥ १६ ॥
तेन नस्यं प्रदातव्यं निम्बमुद्गस्य२ भोजनम् ।
सुखोष्णं तस्य कर्त्तव्यं क्षौद्रं त्रिकटुकान्वितम् ॥ १७ ॥
सान्निपातिकशिरोरोगचिकित्सा ।
सङ्कीर्णलक्षणं विद्यात् सन्निपातसमुद्भवम् ।
असाध्यं तं विजानीयात् कृच्छ्रसाध्यमथापिवा ॥ १८ ॥
१५ । कटुचूर्णं त्रिकटुचूर्णं । एषां मिलितं कर्षद्वयं नस्यार्थे
देयम् ।
१६ । नागरं शुण्ठी । शतपुष्पं (शुलुफा) । तगरं (तगर-
पादुका) । हरेणुकं (रेणुक) । एषां कल्केन कुडवमितेन । गोमूत्रेण
स्नेहचतुर्गुणेन तैलप्रस्थं पाचयेत् । तस्य कुडवार्द्धं नस्यार्थे ग्राह्यम् ।
१८–१६ । सङ्कीर्णलक्षणं वातादिसाधारणलक्षणं । पूर्वोक्तं
शिरावेधमिति तालुमन्यादिशिरावेधमित्यर्थः ।
१ । मध्वा । गः । तस्य नेत्रं प्रदापयेत् । गः ।
२ । निम्बमुद्गैश्च । गः ।
(a ligature)?
Wait, look at:
र (ra)
then:
त्तै (ttai) or त्स्नै (tsnai)?
Wait, look at the word:
"कटुकैरम्ललवणैरत्यन्तसेवितैः"
Wait, why did I think there were extra letters?
Look at:
कटुकैरम्ललवणै
Then:
रत्यन्तसेवितैः
Wait! Is there an extra letter between णै and रत्यन्तसेवितैः??
Wait, let's look at the letters:
क - टु - कै - र - म्ल - ल - व - णै -
Then:
There is a letter with 'ai' matra!
Wait, why does it have an 'ai' matra?
Look above the line:
Above 'कै': two slants (ai).
Above 'णै': two slants (ai).
Above the next letter: TWO SLANTS (ai)!!
And above the letter after that: TWO SLANTS (ai)!!
Yes! There ARE two letters with 'ai' matra!
Look at them:
They both have 'ai' matra (two slants each)!
What are those two letters?
First one: has a top repha? No, two slants. The base looks like:
Wait! Could it be:
"क्षारैश्च"?
"क्षारैश्चात्यन्तसेवितैः"?
Wait!
"कटुक
२१६ अश्ववैद्यके [२१ अध्यायः।
स्तब्धकर्णो गुरुशिरा भवेद्वाजी सुदुर्मनाः ॥ २६ ॥
पित्तजे या क्रिया प्रोक्ता शिरावेधादिका मया ।
रक्तजे सा प्रयोक्तव्या तथा चैवाभिघातजे ॥ २७ ॥
प्रोथतेऽन्तःशिरो यस्य यस्य नासासमुद्भवाः ।
दृश्यन्ते क्रमयश्चापि क्रमिजं तस्य निर्द्दिशेत् ॥ २८ ॥
त्रिकटुञ्च विड़ङ्गञ्च वार्त्ताकीनां फलानि च ।
सुरया मईयित्वा तु नस्यं तैलेन दापयेत् ॥ २९ ॥
फलानि वृहतीनाञ्च तिक्तवार्त्ताकुमेव च ।
पिष्ट्वा च छागक्षीरेण नस्यं तेनैव दापयेत् ॥ ३० ॥
नागरं शतपुष्पञ्च तगरञ्च हरेणुकम् ।
कल्कं कृत्वा गवां मूत्रे तैलं तेनैव पाचयेत् ॥ ३१ ॥
२८ । क्रमिजशिरोरोगमाह प्रोथत इति । यस्यान्तःशिरः
प्रोथते क्रमिपूर्णं भवतीत्यर्थः । प्रोथ च ञ पर्यापणे । पर्यापणं
परिपूर्णता ।
२९ । क्रमिजशिरोरोगचिकित्सामाह षड्भिः श्लोकैः त्रिकद्वि-
त्यादिभिः । त्रिकद्वादीनां मिलितः कर्षः सुरातैलयोश्च कुड़वार्द्धम् ।
३० । बृहतीतिक्तवार्त्ताकुफलं कर्षमितं छागदुग्धेन पिष्ट्वा कुड़-
वार्द्धेन छागदुग्धेन नस्यं देयम् ।
३१ । नागरादीनां कुड़वः । तैलस्य च प्रस्थः तैलचतुर्गुणे
गोमूत्रे मृदुपाकेन साध्यः । नस्यपरिमाणं कुड़वार्द्धं ग्राह्यम् ॥ भोज-
नञ्च सुखोष्णविड़ङ्गघृतयुक्तं भाव्यम् ॥
३१ अध्यायः ।] लङ्गितविवरणम् । २१०
तेन नस्यं प्रदातव्यं तिक्तमुद्गैश्च भोजनम् ।
सुखोष्णं तस्य कर्त्तव्यं विडङ्गं घृतयोजितम् ॥ ३२ ॥
विडङ्गं लसुनं लोध्रं बृहतीनां फलानि च ।
कल्कीकृत्य गवां मूत्रैस्तैलं तेनैव पाचयेत्¹ ॥ ३३ ॥
नस्यं दद्यात् सुखोष्णेन तेन तैलेन² बुद्धिमान् ।
भोजयेत्तिक्तमुद्गैश्च विडङ्गघृतयोजितैः ॥ ३४ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे शिरोरोग
एकत्रिंशोऽध्यायः ।
अथ द्वात्रिंशोऽध्यायः ।
लङ्गितलक्षणम् ।
लङ्गितं द्विविधं प्रोक्तं मुनिभिः शास्त्रशालिभिः ।
एकं वातादिभिर्दोषैर्द्वितीयञ्चाभिघातजम् ॥ १ ॥
३३ । तैलस्य प्रस्थं विडङ्गादीनां कुड़वमितकल्केन सह स्नेह-
चतुर्गुणेन गोमूत्रेण पाययेत् ।
१ । धीरो विपाचयेत् । गः ।
२ । तिक्ततैलेन । खः ।
28
२१८ अश्ववैद्यके [३२ अध्यायः ।
चिकित्साञ्चैव¹ वक्ष्यामि संक्षेपेण यथाक्रमम् ।
पारम्पर्येण शास्त्राणां यथा दृष्टं तपोधनैः ॥ २ ॥
उरसा वाहुना² चाश्वो जानुजंघाचिकेण च ।
कूर्चेन च खुराग्रेण मण्डूक्या चापि लङ्गति³ ॥ ३ ॥
चिकित्सा ॥
अभिघातं विना वाजी⁴ यदा दोषेण लङ्गति⁵ ।
उपवासैस्तु संशोध्य घृतं वै सुरयान्वितम् ॥ ४ ॥
१ । लङ्गितं लङ्गितनामकपादरोगः। (लेङ्ड़ा) इति प्रसिद्धः ।
पुस्तकद्वये लङ्गितं लिङ्गितमिति च यो दृश्यते पाठः स उभयविध एव
साधुः । लगि खञ्जे इति लगि-धातोः क्तप्रत्ययेन निष्पन्नं लङ्गितम् ।
लिङ्गितमिति च लिङ्गधातोः क्तप्रत्ययेन निष्पन्नम् ।
४ । दोषेण वातादिना । उपवासैः संशोध्य वलाद्यविरोधि-
लङ्घनेन दोषसंशोधनं कृत्वेत्यर्थः । अतिलङ्घितस्य बहुदोषक्षारणात् ।
तदुक्तं चक्रदत्तेन । “प्राणाविरोधिना चैनं लङ्घनेनोपपादयेत् ।
वातमूत्रपुरीषाणां विसर्गे गात्रलाघवे ॥ हृदयोद्गारकण्ठास्यशुद्धौ
तन्द्राक्लमे गते । कृतं लङ्घनमादेयं निर्व्यथे चान्तरात्मनि” ॥
इत्यादि । शीतकाले सुरान्वितं घृतं संभोज्य सुराप्रस्थेन हरिद्रा-
१ । चापि । गः । ४ । वापि । खः ।
२ । वाहुकेनाश्वः । खः । ५ । लिङ्गितः । खः ।
३ । लिङ्गितम् । खः ।
१२ अध्यायः।] लङ्गितविवरणम् । २१६
शीतकाले प्रदातव्यं प्रतिपानं प्रदापयेत्¹ ।
हरिद्रातिविषाव्योषपिप्पल्या च महौषधैः ॥ ५ ॥
त्रायमाणावचाकुष्ठमुस्ताकट्फलसैन्धवैः ।
प्रतिपानं हितं² दृष्टं सुरया सीधुनापि च ॥ ६ ॥
तीक्ष्णशीतं समालोक्य कालं शास्त्रविशारदः ।
एवं प्रतिदिनं कुर्यात् त्र्यहं सप्ताहमेव³ च ॥ ७ ॥
अनन्तां⁴ वेधयेद्वैद्यः शिरां शस्त्रेण चौरसीम् ।
शिरास्रावे⁵ कृते चापि यदि नो जायते सुखम् ॥ ८ ॥
तदा वह्निः प्रदातव्यो यथाशास्त्रं विचक्षणैः ।
शिंशपापाठमूलैश्च वल्कलैः कथितैर्जले ॥ ६ ॥
सर्पिस्तैलसमायुक्तो गुग्गुलुर्लङ्गिने हितः ।
दीनां पलेन प्रतिपानं दद्यादित्यर्थः । एतत्सर्वं चिकित्सितं दोष-
सम्भूत एव लङ्गिते ज्ञातव्यम् ।
६ । सुरया गौड्याद्यन्यतमया, सीधुना सुराभिन्नया मदिरया वा ।
८ । शिंशपा शाकतरुः, पाठा अविद्धकर्णी (आकनादि) ।
एतयोर्मूलानि वल्कलानि च जलाढके पक्त्वा पादशिष्टः क्वाथो
ग्राह्यः । गुग्गुलोश्च पलं ग्राह्यम् ।
१ । तदा तं प्रतिपाययेत् । खः । ४ । असिद्धो वेधयेत् । खः ।
२ । भिषक् दद्यात् । खः । ५ । शिरावेधे । गः ।
३ । पञ्चाहम् । गः ।
२२० अश्ववैद्यके [३२ अध्यायः ।
अभिघातसमुद्भूते क्रियां वक्ष्यामि साम्प्रतम् ॥१०॥
लङ्गिते मुनिभिः प्रोक्तं वाजिनां हितकाम्यया ।
उरसोऽभ्यञ्जनं कार्य्यं शतधौतेन सर्पिषा ॥ ११ ॥
पञ्चवल्कलकल्केन लेपं दद्यान्मुहुर्मुहुः ।
एवं प्रतिदिनं कुर्य्यात् सप्ताहञ्चापि¹ सप्तकम् ॥ १२ ॥
निश्चलस्य तुरङ्गस्य पञ्चाहं वा चतुर्गुणम् ।
भ्रामयित्वा समं वैद्यस्ततः² सम्यक् निरूपयेत् ॥ १३ ॥
तृतीये सप्तके पूर्णे तुरङ्गं शास्त्रकोविदः ।
अशुद्धौ पूर्व्वमुद्दिष्टं शिरावेधादिकक्रमम् ॥ १४ ॥
कुर्य्यादृष्टतले वाहे वह्निदाहावसानिकम्³ ।
अभिघातलङ्गिते वै न हितं क्रमणं भवेत् ॥ १५ ॥
११ । अभिघातोत्थचिकित्सितमाह । अभिघातेत्यादि ।
१२ । लेपं दद्यात् लङ्गितावयवे इति शेषः ।
१३ । चतुर्गुणं पञ्चाहं विंशतिदिनमित्यर्थः ।
१४ । शिरावेधादिकं क्रमं शिरावेधप्रभृति अनुष्ठानं तदध्या-
योक्तमित्यर्थः ।
१५ । घृष्टतले वाहे सुयन्त्रिते अश्वे इत्यर्थः । वह्निदाहावसा-
निकं अग्निदाहपर्यन्तम् ।
१ । सप्तकञ्चाङ्घ्रि सप्तकम् । गः ।
२ । महावैद्यः । गः ।
३ । वह्निदाहोवसानिकम् । खः ।
१२ अध्यायः।] लङ्गितविवरणम्। २९१
कपिकच्छुवलावालपारिभद्रकसैन्धवैः।
कपिकच्छुकवाथ्यालं पादशेषव्यवस्थितम् ॥ १६ ॥
आर्द्रिसिन्धुहरिद्राणां चूर्णं दत्वा तु बुद्धिमान्।
तैलन्तु व्योषचूर्णेन रसवर्जन्तु दापयेत् ॥ १७ ॥
तस्मिन् दिने भोज्यपानं दापयेत्तु मनागपि।
पश्चात्काये१ लिङ्गितेतु अनुवासस्तु केवलः ॥ १८ ॥
सर्व्वाः प्राक्कायिकाश्चापि२ चिकित्साः परिकीर्त्तिताः।
सर्व्वेषु चैव लङ्गेषु अनुवासस्तु केवलः ॥ १९ ॥
सर्व्वेषु चैव लङ्गेषु समीपे वेधयेत् शिराम् ।
उरोलङ्गे३चिताश्चैव क्रियाः सर्व्वाः प्रकीर्त्तिताः ॥ २० ॥
चिकलिङ्गेति यः प्रोक्तो हरिर्वातकटिस्तु सः।
औपाण्डौ४ वैधयित्वा तु शिरास्तस्य विचक्षणः ॥ २१ ॥
भोजनञ्च निरुहञ्च सम्यगेव प्रदापयेत् ।
तैलै५र्वातहरैर्वैद्यस्तथा चाभ्यङ्गमेव च ॥ २२ ॥
१६। निरुहमाह कपिकच्छित्यादि ।
१ । पश्चात्कायेन लम्भेतु । खः ।
२ । अभिघातलङ्गे नस्यं हि हितं प्रोक्तायसम्भवम् । खः।
३ । उरोलङ्गादिका चैव क्रियाः प्रोक्ताः । गः ।
४ । व्यपाण्डौः । खः ।
५ । तिक्तैः । गः ।
२२२ • अश्ववैद्यके [३२ अध्यायः ।
त्रिपाच्च यः स्थितो भूमिं खुराग्रेण स्पृशेद्यदि ।
ध्यायते निश्चलो यश्च तं हयं शुद्धमादिशेत् ॥ २३ ॥
अग्रकायेन यो याति स शुद्धः परिकीर्त्तितः ।
पश्चात्कायोत्थितश्चाग्रे दृढः प्रोक्तो मनीषिभिः ॥ २४ ॥
निद्रायमाणो यो वाजी निम्नोरस्को भवेद् यदि ।
अङ्गुलं द्यङ्गुलं वापि स तु ग्राह्यो विचक्षणैः ॥ २५ ॥
अत ऊर्द्धं न गृह्णीयाद् वायोर्बलसमन्वितम् ।
अथवाप्यंसकूटेन द्वाभ्यामेकेन वा पुनः ॥ २६ ॥
वेगेन गतिभिश्चैव तुल्यो भवति यो हयः ।
स वै वातकटिर्ज्ञेयो न ग्राह्यो बलवानपि ॥ २७ ॥
पुलिनञ्चैव यो वाजी गच्छन्नुद्वहते कटिम् ।
सोऽपि वाताभिभूतोऽश्वो न योज्यो वाजिकर्म्मणि ॥२८॥
उरो रक्षति वाहस्य वर्ज्यी दृष्टाभिकुञ्चनम् ।
कर्णयोर्व्यस्तसंन्यस्तो वाजी वातहतः स्मृतः ॥ २९ ॥
२५ । लिङ्गिते शुद्धलक्षणमाह ।
२७। वातकटिलक्षणमाह । न ग्राह्य इति न चालनीय
इत्यर्थः ।
२९। वातहताश्वमाह । कर्णयोर्व्यस्तसंन्यस्त इति व्यस्तसंन्यस्त-
कर्ण इत्यर्थः ।
३२ अध्यायः ।] लङ्गितविवरणम् । २२३
पश्चात्पादं खुराग्रेण भूमौ यस्य तु गच्छति ।
तदाकिञ्चन-वाहो वा न योज्यो वाजिकर्म्मणि ॥ ३० ॥
प्रध्यायमानो यः पश्चाद्रज्जुमारुष्य सर्व्वदा ।
वातभुग्नकटिर्वाजी स विज्ञेयो ह्यकिञ्चनः ॥ ३१ ॥
उत्तिष्ठत्यग्रकायेन यो लुठित्वायतो¹ हयः ।
पश्चात् पश्चिमकायेन सोऽपि वातहतः स्मृतः ॥ ३२ ॥
वाहितं सुदृढं वाहं स्नातं पीतोदकं तथा ।
वारितञ्च सुखासीनं ध्यायन्तञ्च निरुहयेत् ॥ ३३ ॥
त्रिरात्रं पञ्चरात्रं वा सप्तरात्रमथापिवा ।
निरुहयेत्तुरङ्गतु विकलिङ्गिकशङ्कया ॥ ३४ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे लङ्घिते
द्वात्रिंशोऽध्यायः ।
३१ । वातभुग्नकटिमाह ।
१ । लुठित्वात्वयतो हयः । गः ।
[ २२४ ]
अथ त्रयस्त्रिंशोऽध्यायः ।
कर्णरोगनिदानचिकित्सिते ।
दोषैः संदूषिते रक्ते अथवाप्यभिघाततः ।
वाजिनां कर्णरोगस्तु क्लेदशोथान्वितो भवेत् ॥ १ ॥
पूयस्रावेण जानीयात् शोथमभ्यन्तरोद्भवम् ।
पिचुना वेष्टयित्वा तु शलाकाग्रं समाहितः ॥ २ ॥
तेन कर्णान्तरे पूयं कर्षयित्वा विचक्षणः ।
पातितस्य सुबद्धस्य° पूरयेन्मधुसर्पिषा ॥ ३ ॥
कुष्ठं° मागधिका क्षौद्रं मधुकं चन्दनं तथा ।
एभिः सिद्धं घृतं° दृष्टं कर्णपूरणमुत्तमम् ॥ ४ ॥
१ । क्लेद शोथान्वित इत्यत्र क्लेदः पूयादिकम् ।
२ । पिचुना वस्त्रेण ।
४ । कुष्ठं (कुड़) । मागधिका (पिपुल) । एषां समभागकल्कः
कुड़वमितः । घृतस्य च प्रस्थः । पाकार्थं जलं स्नेहचतुर्गुणं दत्वा
पाच्यम् । पूरणमात्रा कुड़वमिता ग्राह्या ।
१ । अभ्यन्तरे भवेत् । गः । ३ । यष्टिकाच कश्या । गः ।
२ सुवेधस्य । गः । ४ । हितं । गः ।
३४ अध्यायः ।] कासविवरणम् । २२५
पिष्ट्वा कुटजबीजन्तु यष्टीमधुसमन्वितम् ।
घृतेनालोड्य¹ मतिमान् कुर्याद्वस्त्रपरिस्रुतम् ॥ ५ ॥
पूरयेत्तेन कर्णन्तु सुखोष्णेनैव बुद्धिमान् ।
रसेन च कपित्थस्य युक्तेन मधुसर्पिषा ॥ ६ ॥
त्वक्पचे क्षीरवृक्षस्य सर्पनिर्मोकमेव च ।
गोलोम गुग्गुलुं कुष्ठं मेषोर्णां च मनःशिलाम् ॥ ७ ॥
घृतेन मर्द्दयित्वा तु धूपं कर्णे प्रदापयेत् ।
भोजयेत्² पिप्पलीयुक्तान् मुद्गांश्च क्षौद्रयोजितान् ॥ ८॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे कर्णरोगे
त्रयस्त्रिंशोऽध्यायः ।
अथ चतुस्त्रिंशोऽध्यायः ।
कासरोगनिदानलक्षणानि ।
त्रयो वातादिभिर्दोषैः सन्निपातेन चापरः ।
क्षतक्षयसमुत्थौ द्वावेवं कासस्तु षड्विधः ॥ १ ॥
५-६ । कुटजबीजस्य इन्द्रयवस्य यष्टीमधुनश्च कर्षः घृतस्य च
पलं एकत्र समालोड्य कवोष्णं कर्णे पूरयेत् ॥
१ । आलोद्यमानन्तु । गः ।
२ । भोजने पिप्पलीयुक्तमुद्गाः क्षौद्रेण योजिताः । खः ।
29
२२६ अश्ववैद्यके [३४ अध्यायः ।]
रूक्षो यस्य भवेत् कासः श्लेष्मस्राव¹विवर्जितः ।
क्षीणस्य² वर्द्धते चापि वातिकं तस्य निर्द्दिशेत् ॥ २ ॥
दाहस्वेदयुतः कासो नीलपीतकफान्वितः ।
विच्छिन्नश्च³ तुरङ्गाणां विज्ञेयः पित्तसम्भवः ॥ ३ ॥
अधिकं कासते यस्तु हृष्टरोमाः सुदुर्मनाः ।
गुरुगात्रशिरा वाजी मन्दग्रासविचेष्टितः ॥ ४ ॥
दधिकुन्देन्दुसंकाशं⁴ श्लेष्माणं यो विमुञ्चति ।
ग्रासाभावे सुखी यश्च⁵ तस्य विद्यात् कफात्मकम् ॥ ५ ॥
सर्व्वेषां लक्षणैर्युक्तं जानीयात् सान्निपातिकम् ।
कषायेण च रक्तेन श्लेष्मा⁶ क्षतजसम्भवः ॥ ६ ॥
२ । रूक्षः शुष्क इत्यर्थः ।
४ । गुरुगात्रशिरा इति गात्रस्य शिरसश्च गुरुत्ववान् । मन्द-
ग्रासविचेष्टित इति ग्रासे शष्यादिभक्षणे विचेष्टिते शरीरचेष्टायां च
मन्दता शैथिल्यं तद्वानित्यर्थः ।
५ । दधिकुन्देन्दुसंकाशं तद्वत् शुभ्रमित्यर्थः । ग्रासाभावे
सुखीति ग्रासस्य कवलग्रहणस्य अभावे सुखी भोजनग्रहणे अनि-
च्छुरित्यर्थः ।
६ । कषायेण कषायवर्णेन रक्तेन च युक्त इति शेषः ।
१ । कास । गः । ४ । कुन्देन्दुदधिसङ्काशम् । खः ।
२ । क्षीरेण वर्द्धते वापि । गः । ५ । सुखासीनः । गः ।
३ । पिच्छिलश्च । खः । ६ । श्लेष्मणा क्षतजो भवेत् । गः ।