अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
DevanagariHindipublished522 पृष्ठ
पृष्ठ 245, कुल 522 में से
संदर्भ में पढ़ेंपृष्ठ 245
३२ अध्यायः ।] लङ्गितविवरणम् । २२३
पश्चात्पादं खुराग्रेण भूमौ यस्य तु गच्छति ।
तदाकिञ्चन-वाहो वा न योज्यो वाजिकर्म्मणि ॥ ३० ॥
प्रध्यायमानो यः पश्चाद्रज्जुमारुष्य सर्व्वदा ।
वातभुग्नकटिर्वाजी स विज्ञेयो ह्यकिञ्चनः ॥ ३१ ॥
उत्तिष्ठत्यग्रकायेन यो लुठित्वायतो¹ हयः ।
पश्चात् पश्चिमकायेन सोऽपि वातहतः स्मृतः ॥ ३२ ॥
वाहितं सुदृढं वाहं स्नातं पीतोदकं तथा ।
वारितञ्च सुखासीनं ध्यायन्तञ्च निरुहयेत् ॥ ३३ ॥
त्रिरात्रं पञ्चरात्रं वा सप्तरात्रमथापिवा ।
निरुहयेत्तुरङ्गतु विकलिङ्गिकशङ्कया ॥ ३४ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे लङ्घिते
द्वात्रिंशोऽध्यायः ।
३१ । वातभुग्नकटिमाह ।
१ । लुठित्वात्वयतो हयः । गः ।