सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 240, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 240

२१८ अश्ववैद्यके [३२ अध्यायः ।
चिकित्साञ्चैव¹ वक्ष्यामि संक्षेपेण यथाक्रमम् ।
पारम्पर्येण शास्त्राणां यथा दृष्टं तपोधनैः ॥ २ ॥
उरसा वाहुना² चाश्वो जानुजंघाचिकेण च ।
कूर्चेन च खुराग्रेण मण्डूक्या चापि लङ्गति³ ॥ ३ ॥
चिकित्सा ॥
अभिघातं विना वाजी⁴ यदा दोषेण लङ्गति⁵ ।
उपवासैस्तु संशोध्य घृतं वै सुरयान्वितम् ॥ ४ ॥
१ । लङ्गितं लङ्गितनामकपादरोगः। (लेङ्‌ड़ा) इति प्रसिद्धः ।
पुस्तकद्वये लङ्गितं लिङ्गितमिति च यो दृश्यते पाठः स उभयविध एव
साधुः । लगि खञ्जे इति लगि-धातोः क्तप्रत्ययेन निष्पन्नं लङ्गितम् ।
लिङ्गितमिति च लिङ्गधातोः क्तप्रत्ययेन निष्पन्नम् ।
४ । दोषेण वातादिना । उपवासैः संशोध्य वलाद्यविरोधि-
लङ्घनेन दोषसंशोधनं कृत्वेत्यर्थः । अतिलङ्घितस्य बहुदोषक्षारणात् ।
तदुक्तं चक्रदत्तेन । “प्राणाविरोधिना चैनं लङ्घनेनोपपादयेत् ।
वातमूत्रपुरीषाणां विसर्गे गात्रलाघवे ॥ हृदयोद्गारकण्ठास्यशुद्धौ
तन्द्राक्लमे गते । कृतं लङ्घनमादेयं निर्व्यथे चान्तरात्मनि” ॥
इत्यादि । शीतकाले सुरान्वितं घृतं संभोज्य सुराप्रस्थेन हरिद्रा-
१ । चापि । गः । ४ । वापि । खः ।
२ । वाहुकेनाश्वः । खः । ५ । लिङ्गितः । खः ।
३ । लिङ्गितम् । खः ।