सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 244, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 244

२२२ • अश्ववैद्यके [३२ अध्यायः ।
त्रिपाच्च यः स्थितो भूमिं खुराग्रेण स्पृशेद्यदि ।
ध्यायते निश्चलो यश्च तं हयं शुद्धमादिशेत् ॥ २३ ॥
अग्रकायेन यो याति स शुद्धः परिकीर्त्तितः ।
पश्चात्कायोत्थितश्चाग्रे दृढः प्रोक्तो मनीषिभिः ॥ २४ ॥
निद्रायमाणो यो वाजी निम्नोरस्को भवेद् यदि ।
अङ्गुलं द्यङ्गुलं वापि स तु ग्राह्यो विचक्षणैः ॥ २५ ॥
अत ऊर्द्धं न गृह्णीयाद् वायोर्बलसमन्वितम् ।
अथवाप्यंसकूटेन द्वाभ्यामेकेन वा पुनः ॥ २६ ॥
वेगेन गतिभिश्चैव तुल्यो भवति यो हयः ।
स वै वातकटिर्ज्ञेयो न ग्राह्यो बलवानपि ॥ २७ ॥
पुलिनञ्चैव यो वाजी गच्छन्नुद्वहते कटिम् ।
सोऽपि वाताभिभूतोऽश्वो न योज्यो वाजिकर्म्मणि ॥२८॥
उरो रक्षति वाहस्य वर्ज्यी दृष्टाभिकुञ्चनम् ।
कर्णयोर्व्यस्तसंन्यस्तो वाजी वातहतः स्मृतः ॥ २९ ॥
२५ । लिङ्गिते शुद्धलक्षणमाह ।
२७। वातकटिलक्षणमाह । न ग्राह्य इति न चालनीय
इत्यर्थः ।
२९। वातहताश्वमाह । कर्णयोर्व्यस्तसंन्यस्त इति व्यस्तसंन्यस्त-
कर्ण इत्यर्थः ।