सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 931, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 931

६१२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
यथैवाधिमात्रा क्षान्तिः। तेऽपि हि कामावचरदुःखालम्बनाः क्षणिकाश्च
लौकिकाश्चैतेऽप्याश्च धर्माः सर्वलौकिकश्रेष्ठत्वादिति लौकिकाग्रधर्माः। विना
सभागहेतुना मार्गस्य तत्पुरुषकारेण¹ मार्गाकर्षणात्। त एत ऊष्मगतादय स्मृत्युप-
स्थानस्वभावत्वात् प्रज्ञात्मका उच्यन्ते।
सर्वे तु पञ्चस्कन्धाः,
सपरिवारग्रहणात्।
विनाप्तिभिः ।। १९ ।।
प्राप्तयो नोष्मगतादिभिः संगृह्यन्ते। मा भूदार्यस्य तत्सम्मुखीभावादूष्म-
गतादीनां सम्मुखीभाव इति।
तत्र त्रिसत्यालम्बनोष्मगताकरणे धर्मस्मृत्युपस्थानं प्रत्युत्पन्नमनागतानि
चत्वारि भाव्यन्ते। निरोधसत्यालम्बने तदेवोभयथा। सर्वत्राकाराः सभागाः।
अथ किमर्थमेकैकसत्याकारालम्बनह्रासः क्रियते ? पूर्वं हि तेन त्रैधातुकं
विदूषयता समस्तः प्रतिपक्ष आलम्बितः। पश्चात् कामधातोः पूर्वं प्रहेयपरिज्ञेय-
त्वात् कामावचर एव दुःखेऽवतिष्ठत इति। तत्पुरुषकारेण मार्गाकर्षणादिति।
विना सभागहेतुना। पूर्वस्यानास्रवस्थाभावात्। लौकिकाग्रधर्मपुरुषकारेण
मार्गसत्यस्याकर्षणात्। सर्वलौकिकश्रेष्ठत्वमग्रधर्माणां गम्यते।
सर्वे तु पञ्चस्कन्धाः सपरिवारग्रहणादिति। समाहितभूमिकत्वादूष्मगता-
दीनामविज्ञप्तिलक्षणो रूपस्कन्धोऽस्तीति पञ्च स्कन्धा ऊष्मगतादयः सपरिवार-
ग्रहणात् सपरिवारा गृह्यन्ते इति।
मा भूदार्यस्येति। प्राप्तिसम्मुखीभावादार्यपुद्गलस्योष्मगतादीनां फलप्राप्ति-
प्रयोगभूतानां सम्मुखीभावो मा भूदिति प्राप्तयो नोष्मगतादिषु गृह्यन्ते। न हि
प्राप्तप्रयोगफलस्यार्यस्य प्रयोगसम्मुखीकरणं न्याय्यमिति।
त्रिसत्यालम्बनोष्मगताकरण इति। दुःखसमुदयमार्गालम्बनोष्मगताकरणे।
धर्मस्मृत्युपस्थानं प्रत्युत्पन्नम्। यत्नजन्यस्य कार्यस्याकरणे समस्तालम्बत्वेन
धर्मस्मृत्युपस्थानस्यैव समर्थत्वात्। प्रतिनियतालम्बनत्वेन हि कायस्मृत्यु-
१-१. ०कारेणाकर्षणात्—का०।

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश) · पृष्ठ 931, कुल 1258 में से · SarvaKosh