सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 933, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 933

६१४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
अग्रधर्मेष्वन्त्यमनागतानि चत्वारि, आकाराश्चत्वार एव; अन्याभावाद्
दर्शनमार्गसादृश्याच्च ॥ १९ ॥
इति निर्वेधभागीयं चतुर्धा,
इत्येतानि चत्वारि निर्वेधभागीयानि कुशलमूलानि यदुतोष्मगतं मूर्धानः
क्षान्तयोऽग्रधर्माश्च । एषां द्वे मृदुनी चलत्वात् परिहाणितः क्षान्तयो मध्यमग्रधर्मा
अधिमात्रम् ।
निर्वेधभागीयानीति कोऽर्थः ? "विध विभागे" । निश्चितो वेधो
निर्वेधः आर्यमार्गः, तेन विचिकित्साप्रहाणात्, सत्यानां च विभजनादिदं
दुःखमयं यावत् मार्ग इति । तस्य भागो दर्शनमार्गैकदेशः । तस्यावाहकत्वेन
हितत्वान्निर्वेधभागीयानि ।
अग्रधर्मेष्वन्त्यमिति । अग्रधर्मेषु सम्मुखीक्रियमाणेष्वन्त्यं धर्मस्मृत्युपस्थानं
प्रत्युत्पन्नम् । अनागतानि चत्वारि अनुत्पत्तिधर्माण्येव प्राप्यन्ते । आकाराश्चत्वार
एवेति । अनित्यदुःखशून्यानात्माकाराः । अन्याभावादिति । यस्मादन्यसमुदया-
द्याकारा अग्रधर्मा न सन्ति; दुःखमात्रालम्बनत्वात् । यथा तर्ह्यग्रधर्मस्वभाव-
कायस्मृत्युपस्थानाद्यसम्मुखीभावेऽप्यग्रधर्मसमुदाचारावस्थायामनागतानि काय-
स्मृत्युपस्थानादीनि भाव्यन्ते; एवमग्रधर्मस्वभावसमुदयाद्याकारा अनागता
भाव्यन्त इति किं नेष्यते ? इत्यतः पुनराह-दर्शनमार्गसादृश्याच्चेति ।
दुःखाकारा एव चत्वारो भाव्यन्ते । कस्मात् ? दर्शनमार्गसादृश्यात् । दर्शनमार्गे
हि यस्य सत्यस्य दर्शनं भवति, तदाकारा एव भाव्यन्ते । दर्शनमार्गसदृश्या
ह्यग्रधर्माः, किं पुनरेषां दर्शनमार्गेण सादृश्यमनुश्लेषात् । तथैव प्रथमतः कामा-
वचरदुःखालम्बनत्वं तुल्यभूमिकत्वं वा । तथा हि दर्शनमार्गमधिकृत्य वक्ष्यति-
“सोऽग्रधर्मैकभूमिकः” (अभि० को० ६.२७) इति । यद्वा—पृथग्ज...
घाताया दुःखधर्मज्ञानक्षान्तेरानन्तर्यमार्गभूता अग्रधर्मा भवन्ति, तदेषां दर्शन-
मार्गेण सादृश्यम् । सदृशा ह्यानन्तर्यमार्गा विमुक्तिमार्गैरिति ॥ १९ ॥
विध विभाग इति विस्तरः । तस्य धातोरेतद् यनि (घञि?) रूपम् । निश्चित
इति । निःशब्दस्यार्थं दर्शयति । कथं पुनर्निंश्चितो वेधः ? इत्याह—तेन
विचिकित्साप्रहाणान्निश्चितः । सत्यानां च विभजनात् । इदं दुःखमयं यावन्मार्ग
इति । निर्वेध आर्यमार्गः । तस्य भागो दर्शनमार्गैकदेशः । तस्यावाहकत्वेनाक-