अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 774, कुल 1258 में से
संदर्भ में पढ़ेंचतुर्थं कोशस्थानम्
कुशलसंस्कृतानां सेवितव्या इति पर्यायः । शेषा असेवितव्या इति सिद्धं
भवति ।
कस्मादसंस्कृतं न सेव्यम् ? अनभ्यसनीयत्वाद्, अफलत्वाच्च । फलार्थं हि
सेवा भवति ॥
सोत्तरा अन्ये सर्वधर्माः ।
मोक्षस्त्वनुत्तरः ॥ १२७ ॥
नहि निर्वाणाद् विशिष्टतरमस्ति । तच्च सर्वेभ्यो विशिष्टम्; कुशल-
नित्यत्वात् ॥ १२७ ॥
अभिधर्मकोशभाष्ये कर्मनिर्देशो नाम
चतुर्थं कोशस्थानमिति ॥
पर्युपासितव्याः । सन्तानाध्यारोपणतः । शेषा असेवितव्या इति । के शेषाः ?
असंस्कृताश्च, ये च न कुशलाः । क्लिष्टा निवृताव्याकृता इत्यर्थः ।
अनभ्यसनीयत्वादिति । पौनःपुन्येन कर्तुमशक्यत्वादित्यर्थः । अनुत्पाद्यत्वा-
दित्यपरे । अफलत्वाच्चेति । संस्कृतस्य हि हेतुफले । नासंस्कृतस्य ते इति ।
सोत्तरा इति सातिशयाः । अकुशला निवृताव्याकृतानामनिष्टविपाकाभावात् ।
निवृताव्याकृता अनिवृताव्याकृतैः संस्कृताः सोत्तरा; तेषामक्लिष्टत्वात् । तेऽपि
कुशलसास्रवैः सोत्तराः; कुशलसास्रवाणामिष्टफलत्वात् । तेऽप्यनास्रवैः सोत्तराः;
निष्क्लेशत्वात् । अनास्रवा अपि संस्कृता असंस्कृतैः सोत्तरा; असंस्कृतानां
नित्यत्वात् । संस्कृतावप्याकाशाप्रतिसंख्यानिरोधौ प्रतिसंख्यानिरोधेन सोत्तरौ;
प्रतिसंख्यानिरोधस्य कुशलनित्यत्वात् ।
मोक्षस्त्वनुत्तरः । न हि निर्वाणाद् विशिष्टतममस्ति । तथा ह्युक्तम्—“ये
केचिद् भिक्षवो धर्माः संस्कृता वा असंस्कृता वा विरागस्तेषामग्र आख्यायते”
( ) इति । प्रतिसंख्यानिरोधो हि नित्यत्वात् सर्वसंस्कृतेभ्य उत्कृष्टः ।
कुशलत्वाच्चासंस्कृताभ्यामाकाशाप्रतिसंख्यानिरोधाभ्यामुत्कृष्टतर इति ॥ १२७ ॥
आचार्ययशोमित्रकृतायां स्फुटार्थायामभिधर्मकोशव्याख्यायां
चतुर्थकोशस्थानं समाप्तम् ॥