अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 787, कुल 1258 में से
संदर्भ में पढ़ेंता एव द्वादश दृष्टयो भवन्ति, चतस्रो विचिकित्साः, पञ्च रागाः, पञ्च
प्रतिघाः, पञ्च मानाः, पञ्चाविद्या इत्येते कामावचराः षट्त्रिंशदनुशया भवन्ति ।
त एवाप्रतिघाः पुनः ।
रूपधातौ,
पञ्चप्रकारं प्रतिघमपहाय त एव रूपावचरा एकत्रिंशदनुशया भवन्ति ।
यथा रूपधातौ
तथारूप्ये
एकत्रिंशदनुशया भवन्ति ।
इत्यष्टानवतिर्मताः ।। ५ ।।
त एवमेते षडनुशया आकारप्रकारधातुभेदैरष्टानवतिर्मता आभि-
धर्मिकाणाम् ।। ५ ।।
य इमे दर्शनप्रहातव्यानुशया उक्ताः किमेते नियतं दर्शनेनैव प्रहीयन्ते ?
नेत्याह । किं तर्हि ?
भवाग्रजाः क्षान्तिवध्या दृग्धेया एव,
कण्टकादयोऽनाध्यात्मिकाः तापापस्मारादयः सन्ति । मैत्र्यादिकुशलमूलसम्भूत-
त्वात्, परिग्रहाभावाच्च ।
आकार-प्रकारधातुभेदैरिति । आकारभेदो दशानामनुशयानाम्—'आत्मा-
त्मीयध्रुवोच्छेदनास्तिहीनामग्रदृष्टयः" (अभि० को० ५.७) इत्येवमादिकः ।
प्रकारभेदो दुःखदर्शनप्रहातव्यो निकायो यावद् भावनाप्रहातव्य इति ।
तत्र रागानुशयः प्रकार-धातुभेदाभ्यां पञ्चदशविध इति । तस्य परस्पर-
माकारभेदो नास्ति । सर्वो हि रागः सक्त्याकारः, तस्मान्नाकारभेदेन व्यवस्था-
प्यते । प्रतिघानुशयः प्रकारभेदात् पञ्चविधः । न परस्परमाकारभेदोऽस्ति;
सर्वस्य प्रतिघाकारत्वात् । धातुभेदोऽपि नास्ति; रूपारूप्यधात्वोस्तदभावात् ।
मानानुशयः प्रकार-धातुभेदाभ्यां पञ्चदशविधः । नाकारभेदोऽस्ति; सर्वस्योन्न-
त्याकारत्वात् । तथा अविद्या पञ्चदशविधा, ताभ्यामेव । नाकारभेदोऽस्ति;
सर्वस्या असम्प्रख्यानाकारत्वात् । विचिकित्सा द्वादशविधा, ताभ्यामेव ।
नाकारभेदः; सर्वस्याः संशयाकारत्वात् । दृष्ट्यनुशय आकार-प्रकार-धातुभेदैः
षट्त्रिंशद्विधः । एवमेते षडनुशया इति विस्तरः ॥ ५ ॥