सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 784, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 784

निर्देशः ] पञ्चमं कोशस्थानम् ७६५
रूपारूप्यधातुजो रागो भवरागः कृतः । किं कारणमेवं कृतः ?
अन्तर्मुखत्वात्तन्मोक्षसंज्ञाव्यावृत्तये कृतः ॥ २ ॥
समापत्तिरागो हि तेषां प्रायेण । स चान्तर्मुखप्रवृत्तः, तस्माद् भवरागः
उक्तस्तयोः किल धात्वोर्मोक्षसंज्ञाविच्छेदनार्थमेकेषामिति¹ । आत्मभाव एव तु
भवः । ते च सत्त्वाः समापत्तिं साश्रयामास्वादयन्त आत्मभावमेवास्वादयन्ति;
कामवीतरागत्वात् । अतः स रागो भवराग इत्युक्तः ॥ २ ॥
पुनरेते षडनुशया अभिधर्मे दश क्रियन्ते । कथं कृत्वा ?
दृष्टयः पञ्च सत्कायमिथ्यान्तग्राहदृष्टयः ।
दृष्टिशीलव्रतपरामर्शाविति पुनर्द्दश ॥ ३ ॥
षण्णामनुशयानां दृष्टिं पञ्चधा कृत्वा दश भवन्ति । पञ्च दृष्टिस्वभावाः—
सत्कायदृष्टिः, अन्तग्राहदृष्टिः, मिथ्यादृष्टिः, दृष्टिपरामर्शः, शीलव्रतपरामर्शश्च ।
यथा दृष्टिस्वभावाः—रागः, प्रतिघः, मानः, अविद्या, विचिकित्सा ॥ ३ ॥
एते पुनरेते दशानुशया अभिधर्मेऽष्टानवतिः क्रियन्ते—कामावचराः
षट्त्रिंशद्, रूपावचरा एकत्रिंशत्, आरूप्यावचरा एकत्रिंशत् । कथं कृत्वा ?
समासतो ह्येतेऽनुशयास्त्रैघातुका दर्शनप्रहातव्या भावनाप्रहातव्याश्च । तत्र तावत्
कामावचरा दर्शनप्रहातव्या द्वात्रिंशत् । कतमे ते ? इत्याह—
दशैते सप्तसप्ताष्टौ त्रिद्विदृष्टिविवर्जिताः ।
यथाक्रमं प्रहीयन्ते कामे दुःखादिदर्शनैः ॥ ४ ॥

समापत्तिरागो हि तेषा प्रायेणेति । आस्वादनासम्प्रयुक्ते ध्याने प्रायेण तेषां
रागः । विमानादिष्वपि तेषां रागोऽस्तीत्यतः प्रायेणेतिग्रहणम् । स चान्तर्मुख-
प्रवृत्तः, समाहितरूपत्वाद् । तथा च सति मोक्षसंज्ञोपतिष्ठते । तद्विच्छेदनार्थं
भगवान् देशयामास—'कामरागो भवरागः' इत्येवमादि । भवे रागः, नैव
मोक्षे । मोक्षे कुशलो धर्मच्छन्द इति । आत्मभाव एव तु भव इत्याचार्यमतम् ।
समापत्ति साश्रयामिति । समापत्तिम् = सात्मभावम् । आस्वादयन्त आत्मभाव-
मेवास्वादयन्ति; न कामगुणान् । कामवीतरागतात् । अतः स रागो भवराग
इत्युक्तो न कामराग इति दर्शयति ॥ २ ॥
अभिधर्म इति । न सूत्र इत्यभिप्रायः ॥ ३ ॥

१. ॰संज्ञाव्यावर्त्तनार्थं०-का० ।