सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 790, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 790

निर्देशः ] पञ्चमं कोशस्थानम् ७७१
वीतरागाणां च कामधात्वालम्बनानां दृष्टीनां समुदाचार उक्तः । न च रूपाव-
चराणां क्लेशानां कामधातुरालम्बनम्; वीतरागत्वात् । तस्मात् कामप्रतिसंयुक्ता
सत्त्वस्य दीर्घस्याध्वनोऽत्ययात् तृष्णोत्पन्ना, अरतिः सञ्जाता—'अहो बतान्येऽपि
सत्त्वा इहोपपद्येरन् मम सभागतायाम्' । एवं चास्य सत्त्वस्य चेतः प्रणिधिः ।
वयं चेहोपपन्ना अस्य सत्त्वस्य सभागतायाम् । अनेन वयं सत्त्वेन निर्मिताः ।
एषोऽस्माकं सत्त्व ईश्वरो यावत् पितृभूतो भावानाम्' । अथान्यतरः सत्त्व
आयुःक्षयात् पुण्यक्षयात् कर्मक्षयात् तस्मात् स्थानाच्च्युत्वा तेषामित्थन्त्वमा-
गच्छति मनुष्याणां सभागतायाम् । स वृद्धेरन्वयाद् इन्द्रियाणां परिपाकात्
केशश्मश्रूण्यवतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादना-
गारिकां प्रव्रजति । सोऽरण्यगतो वा वृक्षमूलगतो वा विस्तरेण यावत् तद्रूपं
शान्तं चेतःसमाधिं स्पृशति । यथासमाहिते चित्ते पूर्वकमात्मभावं समनुस्मरति,
तस्यैवं भवति—'योऽसौ ब्रह्मा, येन वयं निर्मिताः, स नित्यो ध्रुवः शाश्वतोऽ-
विपरिणामधर्मा । ये तु वयं तेन ब्रह्मणा निर्मिताः, ते वयमनित्या अध्रुवा
अशाश्वता विपरिणामधर्माणः” इति । तदेवं कामधातुरपि तयाऽन्तग्राहदृष्ट्या-
ऽऽलम्बितो भवति । अतः कामधात्वालम्बनानां दृष्टीनां समुदाचार उक्तः ।
तथा तत्रैव ब्रह्मजालसूत्रे अहेतुसमुत्पत्तिकानां पूर्वान्तकल्पानामिति
प्रकृतम् । वीतरागाणां कामधात्वालम्बनानां दृष्टीनां समुदाचार उक्तः । कथम् ?
“सन्ति रूपधातावसंज्ञिसत्त्वा नाम देवाः । संज्ञोत्पादात् तेषां सत्त्वानां तस्मात्
स्थानाच्च्युतिर्भवति । अतोऽन्यतमः सत्त्वस्तस्मात् स्थानाच्च्युत्वा इत्थन्त्वमा-
गच्छति मनुष्याणां सभागतायाम् । पूर्ववद् यावत् पूर्वकमात्मभावं समनु-
स्मरति । तस्यैवं भवति—'अहेतुसमुत्पन्न आत्मा लोकश्च' । तदनेनैवमेव भवति—
अहेतुसमुत्पन्न आत्मा लोकश्च । अहमस्मि पूर्वं नाभूवम्, सोऽस्यैतर्हि सम्भूत
इत्यहेतुसमुत्पन्न आत्मा लोकश्च । इत्येवमात्मानं लोकं चालम्बमानास्तया
मिथ्यादृष्ट्या कामधातुमप्यालम्वन्ते” इत्येतेषां कामधात्वालम्बनानां दृष्टीनां
समुदाचार उक्तः ।
कथं च पुनरेषामात्मा लोकश्चाहेतुसमुत्पन्न इत्येवं मिथ्यादृष्टिर्भवति ।
पूर्वकृतं कुशलसास्रवमकुशलं वा न हेतुरात्मनो लोकस्येत्येवमपवदति । इति
कामधातुवीतरागाणां तेषां रूपावचर्यंस्ता दृष्टयो भविष्यन्तीति वचनावकाशं
मत्वाऽऽह—न च रूपावचराणां क्लेशानां कामधातुरालम्बनं वीतरागत्वार्दिति ।
नैताः कामावचर्यो दृष्टयः, मिथ्याज्ञानानि पुनरेतानि इति केचिन परिहरन्ति,
तदेषामयुक्तम्; तद्दृष्टिरूपत्वात् ।