सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

७४४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
उपकारित्वविशेषाद् यथा—मातापित्रोरन्येषां चोपकारिणाम्; ऋक्षमृग-
जातकाद्युदाहरणात् ।
गुणविशेषाद् यथा—“शीलवते दत्त्वा शतसहस्रगुणो विपाकः”
( ) इत्येवमादि ।
सर्वेषां तु दानानाम्
अग्रं मुक्तस्य मुक्ताय,
“यद्वीतरागो वीतरागाय दत्त्वाऽतिदानम्, इदं श्रेष्ठमामिषदानेषु दानम्”
( ) इत्युक्तं भगवता ।
बोधिसत्त्वस्य च,
यद्वा दानं बोधिसत्त्वे ददाति सर्वसत्त्वहितहेतोः, तदमुक्तस्याप्यमुक्तेऽभ्या-
दानमग्रम् । तत् स्थापयित्वा यानि भगवतोऽन्यान्यष्टौ दानान्युक्तानि, तेषाम्—
अष्टमम् ॥ ११७ ॥
‘अग्रम्’ इति वर्तते । कतमान्यष्टौ ? १. आसाद्य दानम्, २. भयदानम्,
३. ‘अदान्मे दानम्, ४. दास्यति मे दानम्, ५. दत्तपूर्वं मे दानं पितृभिश्च
पितामहैश्च’ इति दानं ददाति, ६. स्वर्गार्थं दानम्, ७. कीर्त्यर्थं दानम्,
८. चित्तालङ्कारार्थं दानम्, चित्तपरिष्कारार्थम्, योगसम्भारार्थमुत्तमार्थस्य प्राप्तये
दानं ददाति ।
तत्रासाद्य दानं यत् आसन्नेभ्य उपगतेभ्यो दानं ददातीति पौराणाः ।
भयदानं यद् विनाशाभिमुखं दृष्ट्वा वरं ददामीति ददाति ।
यथा मातापित्रोरिति । उपकारित्वविशेषात् कारापकारौ महाफलौ तयो-
र्भवतः—इत्यर्थोऽवगन्तव्यः । ऋक्षमृगजातकाद्युदाहरणाद् विपाक इति । एवम्
ऋक्षमृगयोर्गुहां प्रविश्य गात्रोष्मेशीतोपनयेनोह्यमाननद्युत्तारणेन चोपकारि-
णोरपकारकरणेन सद्योऽङ्गपातात् । आदिशब्देन कपिजातकाद्युदाहार्यम् ।
शीलवते दत्त्वा शतसहस्रगुणो विपाक इत्येवमादीति । आदिशब्देन स्रोत-
आपत्तिफलप्रतिपन्नकाय दत्त्वा अप्रमेयो भवति विपाकः, ततोऽप्रमेयतरः स्रोत-
आपन्नायेत्यादि ।
तत् स्थापयित्वेति । अनन्तरोक्तं बोधिसत्त्वदानम् । तद्धि सम्यक्सम्बोध्यर्थं

निर्देशः ] चतुर्थं कोशस्थानम् ७४५
शेषं सुगमत्वान्न विभक्तम् ॥ ११७ ॥
स्रोतआपत्तिफलप्रतिपन्नाकाय दानं दत्त्वा अप्रमेयविपाकः, ततोऽप्रमेयतरः
स्रोतआपन्नायेति विस्तरेणोक्तं सूत्रे ।
अपि तु—
मातृपितृग्लानधर्मकथिकेभ्योऽन्त्यजन्मने ।
बोधिसत्त्वाय चामेया अनार्येभ्योऽपि दक्षिणा ॥ ११८ ॥
एभ्यः पञ्चभ्यः पृथग्जनभूतेभ्योऽप्यप्रमेया फलतो दक्षिणा भवति ।
तत्रान्त्यजन्मा बोधिसत्त्वश्चरमभविकः ।
धर्मकथिकश्चतुर्विधे क्षेत्रविशेषे कतमस्मिन् पक्षे निक्षेप्यः ? उपकारिपक्षे ।
स हि महाकल्याणमित्रम् अविद्यान्धायां प्रजायां प्रज्ञाचक्षुषो दाता, समविषमस्य
प्रकाशयिता, अनास्रवस्य धर्मकायस्य निर्वर्तयिता, समासतो बुद्धकृत्यस्य कर्ता
॥ ११८ ॥
कर्मणां तु गुरुलघुत्वं ज्ञातुकामेन समासतः षट् कारणानि ज्ञेयानि ।
तद्यथा—
पृष्ठं क्षेत्रमधिष्ठानं प्रयोगश्चेतनाशयः ।
एषां मृद्वधिमात्रत्वात् कर्ममृद्वधिमात्रता ॥ ११९ ॥
सर्वसत्त्वार्थञ्च । शेषं सुगमत्वान्न विभक्तमिति । यदेतददान्मे दानमित्येवमादि-
कम् । अदान्मे दानमिति । दत्तमनेन पूर्वमिति दानं तृतीयम् । दास्यति मे
दानमिति चतुर्थम् । दत्तपूर्वं मे पितृभिश्च पितामहैश्चेति दानमिति पञ्चमम् ।
स्वर्गार्थं दानं षष्ठम् । कीर्त्यर्थं सप्तमम् । चित्तालङ्कारार्थं यावदुत्तमार्थस्य प्राप्तये
दानमित्यष्टमम् । चित्तालङ्कारार्थमृद्धयर्थम् । चित्तपरिष्कारार्थम् । अष्टौ चित्त-
परिष्कारा मार्गाङ्गानि, तदर्थम् । योगसम्भारार्थम् । योगनिदानार्थम् । उत्तमा-
र्थस्य प्राप्तिः । अर्हत्त्वं निर्वाणस्य वा प्राप्तिः, तस्यै प्राप्तये दानम् । चतुर्भेदमध्येक-
मष्टमं भवति । निर्वाणप्रापकमेवैतदिति कृत्वा सुगममुक्तमाचार्येण ॥ ११७ ॥
चतुर्विधे क्षेत्रविशेष इति । गतिदुःखोपकारिगुणक्षेत्रे कतमस्मिन् पक्ष इति ।
यस्मादस्य गतिक्षेत्रता च न सम्भवति । तस्मात् पृच्छति । समविषमस्य प्रका-
शयितेति । धर्माधर्मस्य ॥ ११८ ॥

७४६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
पृष्ठं नाम यत् कृतस्य पुनरनुक्रिया । क्षेत्रं नाम यत्र कारापकाराः
क्रियन्ते । अधिष्ठानं कर्मपथः । प्रयोगस्तदर्थं कायवाक्कर्म । चेतना यया
कर्मपथं निष्ठापयति । आशयस्तदभिप्रायः—'एवं चैवं च कुर्याम्', 'एवं चैवं च
न करिष्यामि' इति ।
कस्यचित् पृष्ठपरिग्रहेणैव तत्कर्म गुरु सम्पद्यते; विपाकनैयम्यावस्थानात्१ ।
कस्यचित् क्षेत्रवशेनैव । तत्रैव क्षेत्रे पुनरधिष्ठानवशात् गुरु सम्पद्यते, नान्यथा ।
यथा—मातापित्रोः प्राणातिपातात्, न त्वेवमदत्तादानादिकात् ।
एवमन्यदपि योज्यम् ।
यस्य तु सर्वाण्यधिमात्राणि भवन्ति, तस्यात्यर्थमधिमात्रं गुरु कर्म वेदि-
तव्यम् । यस्य मृदूनि, तस्यात्यर्थं मृदु वेदितव्यम् ॥ ११९ ॥
कृतं च, उपचितं च कर्मोच्यते । कथं कर्मोपचितं भवति ? पञ्चभिः करणैः ।
सञ्चेतनसमाप्तिभ्यां निष्कौकृत्यविपक्षतः ।
परिवाराद्विपाकाच्च कर्मोपचितमुच्यते ॥ १२० ॥
कथं सञ्चेतनतः ? सञ्चिन्त्य कृतं भवति नाबुद्धिपूर्वम्, न सहसा कृतम् ।
कथं समाप्तितः२ ? कश्चिदेकेन दुश्चरितेनापायान्याति, कश्चिद् यावत्
त्रिभिः । कश्चिदेकेन कर्मपथेन, कश्चिद् यावद् दशभिः । तत्र यो यावता गच्छति
तस्मिन्नसमाप्ते कृतं तत् कर्म नोपचितम्, समाप्ते तूपचितम् ।

विपाकनैयम्यावस्थानादिति । नियतविपाकदानावस्थानादित्यर्थः । कस्यचित्
क्षेत्रवशेनैवेति । तद् यथा सामान्यपुरुषवधात् पितृवधः । तत्रैव क्षेत्रे पुनरधिष्ठान-
वशादिति । कर्मपथवशात् । कथम् ? इत्याह—मातापित्रोः प्रागातिपातनात् गुरु
कर्म, न त्वेवमदत्तादानादिकात् गुरु । न हि मातापित्रोर्द्रव्यापहरणकर्म तद्वधवद् गुरु
भवति; तद्वधस्यानन्तर्यस्वभावत्वात् । आदिशब्देन मृषावादपैशुन्यादिग्रहणम् ।
एवमन्यदपि योज्यमिति । कस्यचित् प्रयोगविशेषेण गुरु सम्पद्यते; विपाक-
नैयम्यावस्थानात् । कस्यचिच्चेतनाविशेषेण । कस्यचिदाशयविशेषेण ॥ ११९ ॥
नाबुद्धिपूर्वं न सहसा कृतमिति । अथ वा—नाबुद्धिपूर्वं कृतम् इदं कुर्यामित्य-
सञ्चिन्त्य कृतम् । तन्नोपचितम् । अव्याकृतं हि तत् कर्म । न सहसा कृतमिति ।
बुद्धिपूर्वमपि न सहसा कृतम् । यदभ्यासेन भाष्याक्षेपान्मुषावादाद्यनुष्ठानं कृतं
[तदकुशलम्, न पुनरुपचितम् । यावत् त्रिभिरिति । कायवाङ्मनोदुश्चरितैः ।
१. ०नैयम्येनाव०—का० । २. समापत्तितः—का० ।

निर्देशः ] चतुर्थं कोशस्थानम् ७४७
कथं निष्कौकृत्यविपक्षतः ? निर्विप्रतिसारं च तत् कर्म भवति, निष्प्रति-
पक्षं च ।
कथं परिवारतः ? अकुशलं चाकुशलपरिवारं च भवति ।
कथं विपाकतः ? विपाकदाने नियतं भवति ।
एवं कुशलमपि योज्यम् । अतोऽन्यथा कर्म कृतं भवति, नोपचितम्
॥ १२० ॥
चैत्ये सरागस्यात्मार्थं दानमित्युक्तम् । तत्रासत्युपभोक्तरि कथं पुण्यं भवति ?
द्विविधं हि पुण्यम् — १. त्यागान्वयम्, त्यागादेव यदुपपद्यते; २. परिभोगान्वयं
च, देयधर्मपरिभोगाद् यदुत्पद्यते ।
चैत्ये त्यागान्वयं पुण्यम्,
परिभोगान्वयं पुण्यं नास्ति । कथं तत्राप्रतिगृह्णति कस्मिंश्चित् पुण्यम् ? किं
पुनः कारणं सति प्रतिग्रहीतरि भवितव्यम्, नास्तीति ? कस्यचिदप्यनुग्रहा-
भावात् ?
इदमकारणम् । यदि हि पुण्यं परानुग्रहादेव स्यात्, मैत्र्याद्यप्रमाणसम्य-
ग्दृष्टिभावनायां न स्यात् । तस्माद्देष्टव्यं चैत्येऽपि पुण्यम् ।
निष्प्रतिपक्षं चेति । प्रतिदेशनादिप्रतिपक्षाभावतः ।
अकुशलं चाकुशलपरिवारं चेति । यः कृत्वाप्यनुमोदत इति ।
विपाकदाने नियतमिति । पुष्टाकुशललक्षणसमुत्पादात् ।
एवं कुशलमपि योज्यमिति । कथम् ? सञ्चेतनतः सञ्चिन्त्य कृतं भवति,
नाबुद्धिपूर्वं कृतं भवति । तद्यथा—अव्याकृतेन चित्तेन पाषाणं ददामीति
सुवर्णपिण्डं दद्यात् । कृतं तत्, न पुनरुपचितम् । अव्याकृतं हि तत् कर्म, न सहसा
कृतम् । यथा भाष्याक्षेपात् सत्यवचनं कृतं तत् कुशलम्, न पुनरुपचितम् ।
कश्चिदेकेन सुचरितेन सुगतिं याति, कश्चिद् यावत् त्रिभिः; कश्चिदेकेन कर्मपथेन,
कश्चिद् यावद्दशभिः । तत्र यो यावता गच्छति, तस्मिन्नसमाप्ते कृतं कर्म,
नोपचितम् । समाप्ते तूपचितम् । एवं यावद् विपाकदाने नियतमिति सम्भवतो
योज्यम् ॥ १२० ॥
चैत्ये सरागस्येति विस्तरः । "स्वपरार्थोभयार्थाय" (अभि० को० ४.११४)
इत्यत्र । पुण्यमेव त्यागान्वयमपश्यन्नाह—कस्यचिदप्यनुग्रहाभावादिति । सति
हि प्रतिग्रहीतरि युक्तं त्यागान्वयं पुण्यम् । तत्र हि प्रीत्यनुग्रहेण ग्रहीता युज्यत
अभि० को० २ : २४

७४८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ कर्म-
मैत्र्यादिवदगृह्णति ।
यथा मैत्र्यादिष्वन्तरेणापि प्रतिग्राहकं परानुग्रहं वा पुण्यं भवति स्वचित्त-
प्रभवम्, तथा ह्यतीतेऽपि¹ गुणवति तद्भक्तिकृतं स्वचित्तात् पुण्यं भवति ।
दानमानक्रिया तर्हि व्यर्था प्राप्नोति ? न; तत्कर्मसमुत्थापिकाया भक्तेः
प्रकृष्टतरत्वात् । यथा हि शत्रून्हन्मीत्य तत्समुत्थितं² कायवाक्कर्म शत्रु-
संज्ञया तस्मिन् मृतेऽपि कुर्वतो बहुतरमपुण्यं जायते, नाभिप्रायमात्रेण; तथा
ह्यतीतेऽपि¹ शास्तरि तद्भक्तिसमुत्थां दानमानक्रियां कुर्वतो बहुतरं पुण्यं जायते,
न भक्तिमात्रेण ।
यदि सुक्षेत्रे दानक्रियाबीजमिष्टफलं भवति, कुक्षेत्रे³ तर्ह्यनिष्टफलं भविष्यति ?
कुक्षेत्रेऽपीष्टफलता फलबीजाविपर्ययात् ॥ १२१ ॥
इति । “मैत्र्यादिवदगृह्णति” इति । मैत्र्यादिष्वेव मैत्र्यादिवत् । अगृह्णति असति
प्रतिग्राहके पुण्यं भवति । असत्यपि परानुग्रहे; कुशलमूलादिबलाधानात् । तथा
ह्यतीतेऽपि गुणवति तथागतादौ तद्भक्तिकृतं चैत्यदानं पुण्यं भवति ।
दानमानक्रिया तर्हि व्यर्था प्राप्नोतीति । यदि स्वचित्तादेव पुण्यं भवेत्
चित्तेनैव दानमानक्रियेते; तत एव पुण्यप्राप्तेः । न; तत्कर्मसमुत्थापिकाया
भक्तेः प्रकृष्टतरत्वात् । नैतदेवम् । कस्मात् ? यस्माद् दानमानौ भगवच्चित्त-
मात्रेण चिन्तयतो या भक्तिः, तत इयं दानमानौ कुर्वतो भक्तिः प्रकृष्टतरा;
कायवाक्कर्मणोरपि प्रवर्त्तनात् । चित्तमात्रेण हि चिन्तयतो भक्तिः कायवाक्कर्मणी
न प्रवर्त्तयतः । यथा हीति विस्तरः । यथा हि 'शत्रून् हन्मि' इति कृताभिप्रायस्य
कस्यचित् तत्समुत्थितं तदभिप्रायसमुत्थितं कायवाक्कर्म शत्रुसंज्ञया 'शत्रुरयं न
तावन्म्रियते' इत्यनया संज्ञया तस्मिन् मृतेऽपि कुर्वतो बहुतरमपुण्यं जायते; चेतना-
नुबन्धात् । नाभिप्रायमात्रेण क्रियाशून्येन । तथा ह्यतीतेऽपि परिनिर्वृतेऽपि भगवति
तद्भक्तिसमुत्थां शास्तृभक्तिसमुत्थां दानमानक्रियां पृष्ठभूतानिव कुर्वतो बहुतरं
पुण्यं जायते । न भक्तिमात्रेण । क्रियाशून्येनेति ।
कुक्षेत्रे तर्ह्यनिष्टफलं भविष्यतीति । तस्करादिभ्यो दानमनिष्टफलमिति
निर्ग्रन्थाः । सुक्षेत्रे हीष्टफलम्, कुक्षेत्रे तु विपरीतमिति ? अतो ब्रवीति— “कुक्षेत्रे-
ऽपीष्टफलता फलबीजाविपर्ययात्” इति । न क्षेत्रविशेषादिष्टं फलमिति ब्रूमः । किं
तर्हि ? विशिष्टमिति । न हि सुक्षेत्रे प्राणातिपातादिबीजस्येष्टं फलं भवतीति ।
१-१. ०म्यतीते०—का० । २. तत्समुत्थापि०—का० । ३. तत्क्षेत्रे—का० ।

निर्देशः ] चतुर्थं कोशस्थानम् ७४९
कुक्षेत्रेऽपि हि फलस्य बीजादविपर्ययो दृष्टः—मृद्वीकाबीजान्मृद्वीकाफलमेवो-
त्पद्यते मधुरम्, निम्बबीजान्निम्बमेव तिक्तम् । एवं कुक्षेत्रेऽपि परहिताध्याशय-
प्रवृत्तस्य दानबीजस्येष्टमेव फलं निर्वर्तते, नानिष्टम् । क्षेत्रदोषात् तु तद्बीजमल्प-
फलं वा भवति, अफलं वा ॥ १२१ ॥
गतं दानमयपुण्यक्रियावस्तु सप्रसङ्गम् ॥
शीलमयं वक्तव्यम् ? तदुच्यते—
दौःशील्यमशुभं रूपं शीलं तद्विरतिः,
अकुशलं हि रूपं दौःशील्यमुच्यते । तस्माद् विरतिः शीलम् ।
सा पुनर्विरतिः—
द्विधा ।
यया च विरम्यते विज्ञप्त्या, यच्च तद्विरमणम् अविज्ञप्तिः ।
न च केवलं दौःशील्याद् विरतिः शीलम्, किं तर्हि ?
प्रतिक्षिप्ताच्च बुद्धेन,
यदपि न प्रकृत्या दौःशील्यम्, भगवता च बुद्धेन प्रतिक्षिप्तमकालभोज-
नादिकम्, तस्मादपि द्विधा विरतिः शीलम् ।
समात्तशिक्षस्य तु तदध्याचाराद् दौःशील्यं जायते ॥
उक्तं समासेन शीलम् ॥
विशुद्धं तु चतुर्गुणम् ॥ १२२ ॥
तत्तु शीलं चतुर्गुणं भवति । विपर्ययादविशुद्धम् ॥ १२२ ॥
कुक्षेत्रेऽपि हि फलस्य मृद्वीकाफलस्य बीजात् मृद्वीकाबीजात् अविपर्ययो
दृष्टः । मृद्वीकाफलमेव मधुरं दृष्टमित्यर्थः । न तु निम्बफलमेवम् । निम्बबीजा-
न्निम्बफलमेवेति । तिक्तमिति । मृद्वीकाबीजं कुशलस्योदाहरणम्, निम्बबीजम-
कुशलस्य ॥ १२१ ॥
“दौःशील्यमशुभं रूपम्” इति । प्राणातिपातादिलक्षणं प्रकृतिसावद्यं रूपं
दौःशील्यम् ॥
“प्रतिक्षिप्ताच्च बुद्धेन” इति । प्रज्ञप्तिसावद्यत्वात् । समात्तशिक्षस्य तु तद-
ध्याचाराद् दौःशील्यमिति । गृहीततद्विरमणस्य भगवद्वचनानादराद् दौःशील्यं
जायते । अर्थादुक्तं भवति—असमात्तशिक्षस्य न दौःशील्यमिति ।

७५० भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ कर्म-
अथ कथं चतुर्गुणम् ? इत्याह—
दौःशील्यतद्धेत्वहतं तद्विपक्षसमाश्रितम्¹।
दौःशील्येन तावदनुपहतं भवति यथोक्तेन दौःशील्येन। हेतुनाप्यनुपहतं
भवति। लोभादिभिः क्लेशोपक्लेशैः दौःशील्यविपक्षाश्रितं च भवति। स्मृत्युप-
स्थानसन्निहितत्वात् समाश्रितं च भवति। नोपपत्तिविशेषाश्रितम्; निर्वाण-
परिणामित्वात्।
पञ्चभिः कारणैः इत्यपरे। १. मौलैः कर्मपथैर्विशुद्धं भवति, २.
सामन्तकैर्विशुद्धम्, ३. वितर्कैरनुपहतम्, ४. स्मृत्यानुपरिगृहीतम्, ५. निर्वाण-
परिणामितं चेति।
चतुर्विधं शीलमित्यपरे। १. भयशीलम्—यदाजीविकाश्लोकदण्डदुर्गति-
भयात् पाल्यते। २. आशास्तिशीलम्—यद्भवभोगसत्कारतृष्णाकृतम्। ३.
बोध्यङ्गानुलोमं शीलम्—यन्मोक्षार्थं सम्यग्दृष्टिकानाम्। ४. परिशुद्धं शीलम्—
अनास्रवशीलम्; निर्मलत्वादिति॥
गतं शीलम्॥
समाहितं तु कुशलं भावना,
“विशुद्धं तु चतुर्गुणम्” इति। चत्वारो गुणा अस्येति चतुर्गुणम् ॥ १२२ ॥
दौःशील्येन यथोक्तेनेति। “दौःशील्यमशुभं रूपम्” इत्यनेन। लोभादिभि-
रिति। न तैर्दौःशील्यहेतुभिः समुदाचरद्भिरुपहतं भवति। दौःशील्यविपक्षाश्रित-
मित्यर्थः।
मौलैः कर्मपथैर्विशुद्धमिति। प्राणातिपातादिभिर्मौलेरखण्डितमित्यर्थः।
सामन्तकैर्विशुद्धमिति। प्राणातिपादिप्रयोगैरदूषितमित्यर्थः। वितर्कैरिति।
कामवितर्कादिभिः। स्मृत्यानुपरिगृहीतमिति। कायादिस्मृत्युपस्थानेर्दृढीकतम्।
शीलस्मृत्या वानुपरिगृहीतम्।
आशास्तिशीलमिति। आशास्तिः=प्रार्थना। यद्भवभोगसत्कारतृष्णाकृतमिति।
भवे भोगे च सत्कारे च या तृष्णा, तया यत् समात्तमित्यर्थः। सम्यग्दृष्टि-
कानामिति। बुद्धशासनप्रतिपन्नानाम्। अन्यतीर्थिकानां हि न बोध्यङ्गानुकूलम्;
असद्दृष्टित्वात्।
“समाहितं तु कुशलम्” इति। समाहित-ग्रहणमसमाहितनिवृत्त्यर्थम्।
१. ॰क्षमाश्रितम्—का०।

निर्देशः ] चतुर्थं कोशस्थानम् ७५१
किमिदं समाहितं नाम ? समाधिस्वभावं सहभू यत् । किमर्थमेतत्
भावनेत्युच्यते ?
चित्तवासनात् ॥ १२३ ॥
तद्धि समाहितं कुशलमत्यर्थं चित्तं वासयति; गुणैस्तन्मयीकरणात् सन्ततेः ।
पुष्पैस्तिलवासनावत् । दानं तावन्महाभोगतायैः संवर्तत इत्युक्तम् ॥ .१२३ ॥
अथ शीलं भावना च ?
स्वर्गाय शीलं प्राधान्याद् विसंयोगाय भावना ।
दानमपि स्वर्गाय शीलं प्राधान्यात् । शीलमपि विसंयोगाय ।
भावना तु प्राधान्यात् ।
सूत्र उक्तम्—"चत्वारः पुद्गला ब्राह्मं पुण्यं प्रसवन्ति" ( )
कुशल-ग्रहणं समाहितास्वादनासम्प्रयुक्तक्लिष्टध्याननिवृत्त्यर्थम् । तत् समाहितं
कुशलसदृशमुत्पद्यते ।
समाधिस्वभाव-सहभू यदि ति । समाधिस्वभावं तेन च सह भवति यदित्यर्थः ।
तद्धि समाहितमिति विस्तरः । तत् समाहितं कुशलमत्यर्थं चित्तं संवासयति ।
भावयति । असमाहितमपि वासयति । न त्वेवमत्यर्थमिति दर्शयति । कथम् ?
इत्याह—गुणैस्तन्मयीकरणात् सन्ततेः । यस्मात् समाधिगुणैस्तन्मयीक्रियते
चित्तसन्ततिः । अत्र दृष्टान्तमाह—पुष्पैस्तिलवासनावदिति । यथा पुष्पैस्तिला
भाव्यन्ते पुष्पगन्धमयीकरणात्, तद्वत् । तदिदमुक्तं भवति—भावना=वासना,
तत्स्वभावं पुण्यं भावनामियमिति ॥ १२३ ॥
अथ शीलं भावना च । 'कस्मै संवर्तते' इति वाक्यशेषतोऽर्थं पृच्छति ।
स्वर्गाय शीलं प्राधान्यादिति । शीलं प्राधान्येन स्वर्गाय भवति । अन्यत्तु न प्राधा-
न्येन स्वर्गाय भवति । किमन्यत् ? दानम् । दानमपि हि स्वर्गाय सम्भवति ।
शीलमपि विसंयोगाय सम्भवति; शमथविपश्यनयोः शीलप्रतिष्ठानत्वात् ।
भावना प्राधान्येन विसंयोगाय । साक्षाद् विसंयोगप्रापकत्वात्, प्रहाणमार्ग-
संगृहीतत्वाद् वा ।
पुण्यक्रियावस्तुप्रसङ्गेनेदमुपन्यस्यते—
सूत्र उक्तम्—चत्वारः पुद्गलाः ब्राह्मं पुण्यं प्रसवन्ति । अप्रतिष्ठिते पृथिवी-
प्रदेशे तथागतस्य शारीरं स्तूपं प्रतिष्ठापयति—अयं प्रथमः पुद्गलः ब्राह्मं पुण्यं
प्रसवति । चातुर्दिशे भिक्षुसंघे आरामं निर्यातयति, तत्रैव चारामे विहारं
प्रतिष्ठापयति—अयं द्वितीयः पुद्गलो ब्राह्मं पुण्यं प्रसवति । भिन्नं तथागत-

७५२ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ कर्म-
इति। कतमत् तद् ब्राह्मपुण्यम् ? यल्लक्षणविपाकस्य कर्मणः परिमाणज्ञापनायोक्त-
मिति वैभाषिकाः।
पूर्वाचार्यास्तु व्याचक्षते—
चतुर्णां ब्राह्मपुण्यत्वं कल्पं स्वर्गेषु मोदनात् ॥ १२४ ॥
यावता पुण्येन कल्पं स्वर्गेषु मोदते, इदं ब्राह्मं पुण्यम्; ब्रह्मपुरोहितानां
कल्पायुक्तत्वात्। निकायान्तरे गाथां पठन्ति—
“ब्राह्मं पुण्यं प्रसवति कल्पं स्वर्गेषु मोदते” ( ) इति ॥१२४॥
आमिषदानमुक्तम् ॥
धर्मदानं वक्तव्यम्। तदिदमुच्यते—
धर्मदानं यथाभूतं सूत्राद्यक्लिष्टदेशना।
सूत्रादीनां यथाभूतमक्लिष्टदेशना धर्मदानम्। अतो महतीं त आत्मनः
थावकसंघं प्रतिसन्दधाति—अयं तृतीयः पुद्गलः ब्राह्मं पुण्यं प्रसवति। मैत्रीसह-
गतेन चित्तेनावैरेणासपतेनाव्याबाधेन विपुलेन महद्गतेनाप्रमाणेन सुभाविते-
नैकां दिशमधिमुच्य स्फुरित्वोपसम्पद्य विहरति, तथा द्वितीयाम्, तथा
तृतीयाम्, तथा चतुर्थीम्, इत्यूर्ध्वमधस्तिर्यक् सर्वतः सर्वमिमं लोकं स्फुरि-
त्वोपसम्पद्य विहरति—अयं चतुर्थः पुद्गलो ब्राह्मं पुण्यं प्रसवति” ( )
इति। यल्लक्षणविपाकस्य कर्मणः परिमाणज्ञापनायोक्तमिति। यदुक्तम्—सन्निकृष्टं
बोधिसत्त्वं स्थापयित्वा यावत् सर्वसत्त्वानां भोगफलमित्येवमादि;
इदं ब्राह्मं पुण्यमिति। ब्रह्मणामिदं ब्राह्मम्। ब्रह्मपुरोहिताश्चात्र ब्रह्मशब्दे-
नोच्यन्ते। कस्मात् ? ब्रह्मपुरोहितानां कल्पायुक्तत्वात्। ब्रह्मपुरोहितानां हि
कल्पमायुरुक्तम्। अनेन च कर्मणा कल्पं स्वर्गेषु मोदते। ब्राह्मं पुण्यं प्रसवति कल्पं
स्वर्गेषु मोदत इति निकायान्तरपाठवचनात्। तत्साधर्म्यादेतद् ब्राह्मं पुण्य-
मुच्यते। ननु च कामधातौ नास्ति कुशलस्य कर्मणः कल्पं विपाक इति ?
सत्यमेकस्य नास्ति; एकाविष्ठानास्तु बह्वघश्चातना भवन्ति। यासां क्रमेण
कल्पप्रमाणं स्वागिकं फलमभिनिर्वर्तते; च्युतस्य पुनस्तत्रैव जन्मसन्धानात्।
बृहद् पुण्यं ब्राह्ममित्यपरे ॥ १२४ ॥
सूत्रादीनामिति। आदिशब्देन द्वादशानामङ्गानां ग्रहणम्। सूत्र-गेय-
व्याकरण-गाथा-उदान-निदानावदान-इतिवृत्तक-जातक-वैपुल्याद्भुतधर्मोपदेशा

[निर्देशः ] | चतुर्थं कोशस्थानम् | ७५३

पुण्यज्यानिं कुर्वन्ति, ये विपरीतधर्मं देशयन्ति । क्लिष्टचित्ता वा लाभसत्कारयशांसि
वाञ्छन्तः ।
उक्तं पुण्यक्रियावस्तुभेदेन त्रिविधं कुशलम् ॥
पुनः—
पुण्यनिर्वाणनिर्वेधभागीयं कुशलं त्रिधा ॥ १२५ ॥
पुण्यभागीयं यदिष्टविपाकं मोक्षभागीयम्, यस्मिन्नुत्पन्ने नियतं परिनिर्वाण-
धर्मा भवति । यस्य संसारादीनवन्नैरात्म्यनिर्वाणगुणद्योतिकां कथां श्रुत्वा रोमहर्षाश्रु-
पातौ भवतः, तस्यास्ति मोक्षभागीयं कुशलमूलमित्यवसेयम् । प्रावृषीवाङ्कुरप्ररोहात्
खलेविलेषु बीजास्तित्वम् ।
निर्वेधभागीयमूष्मादि चतुर्विधं पश्चाद् व्याख्यास्यामः ॥ १२५ ॥
यदिदं लोक उच्यते लिपिमुद्रागणना काव्यं संख्येति, क एषां स्वभावः ?
योगप्रवर्तितं कर्म ससमुत्थापकं त्रिधा ।
लिपिमुद्रे सगणनं काव्यं संख्या यथाक्रमम् ॥ १२६ ॥
योगप्रवर्तितमिति उपायविशेषप्रवर्तितम् । त्रिधा कर्मेति कायवाङ्मनस्कर्म ।
तत्र-लिपिमुद्रे तावद् योगप्रवर्तितं कायकर्म ससमुत्थानम्¹ । गणना काव्यं च
इति द्वादशानामङ्गानाम् । अक्लिष्टदेशनेति । अक्लिष्टचित्तसमुत्थापितेत्यर्थः ।
पुण्यभागीयमिति । पुण्यस्य भागः प्राप्तिरिति पुण्यभागः । इष्टफलप्राप्ति-
रित्यर्थः । तस्मै हितं पुण्यभागीयम् । अतएवोक्तम्-यदिष्टविपाकमिति । तत्प्राप्त्य-
नुकूलमिति । अथवा त्रयो भागाः—पुण्यो भागः, अपुण्यो भागः, अनिञ्ज्यो
भागः; तस्मै हितं पुण्यभागीयम् । अथवा—पुण्यं भजत इति पुण्यभाक्,
पुण्यभागैव पुण्यभागीयम् । स्वार्थे क-प्रत्ययः । एवं मोक्षभागीयम् । अथ वा
संसारभागः, मोक्षभागश्चेति द्वौ भागौ । तत्र यन्मोक्षभागाय हितं तन्मोक्ष-
भागीयम् । मोक्षप्राप्तिर्वा मोक्षभागः, तस्मै हितम् तत्प्राप्त्यनुकूलमिति
मोक्षभागीयम् । तस्य लक्षणं पश्चाद् वक्ष्यते । एवं निर्वेधभागीयमपि योज्यम् ।
पश्चाद् व्याख्यास्याम इति । "तत ऊष्मगतोत्पत्तिः" ( अभि० को० ६.१७ )
इत्यत्र । कर्माधिकारेणैषां कर्मस्वभावानां लक्षणमुच्यते ॥ १२५ ॥
यदिदं लोक इत्यादि । ससमुत्थानमिति । सचित्तचैतसिककलापम् । येन
तत् कायकर्मोत्थाप्यते । तत् कायकर्मससमुत्थानं योगप्रवर्तितम् । लिपिर्मुद्रा
१. समुत्थापनम्—का० ।

७५४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-

वाक्कर्म । इत्येतानि पञ्चस्कन्धस्वभावानि । संख्या मनस्कर्म, यन्मनसा
सङ्कलनं धर्माणां ॥ १२६ ॥
धर्माणांमिदानीं केचित् पर्याया उच्यन्ते—
सावद्या निवृता हीनाः क्लिष्टा धर्माः,
क्लिष्टानां धर्माणां सावद्या निवृता हीना इति पर्यायाः ।
शुभामलाः ।
प्रणीताः,
कुशलानास्रवाणां प्रणीता इति पर्यायः ।
हीनप्रणीतेभ्योऽन्ये मध्या इति सिद्धं भवति ।
संस्कृतशुभाः सेव्याः,


च । कारणे कार्योपचारात् । येन हि कायकर्मणा लिपिर्लिख्यते, मुद्रा वा
खन्यते, सा लिपिर्मुद्रा च शास्त्रेऽभिप्रेते; न यथा लोके ह्यक्षरचिह्नं पुस्तकादौ
लिपिरिष्यते । अक्षरानक्षरचिह्नं च मुद्रेति । गणना काव्यञ्च वाक्कर्म । योग-
प्रवर्तितं ससमुत्थानमिति वर्तते । पञ्चस्कन्धस्वभावानीति । लिपिमुद्रयोः काय-
कर्म रूपस्कन्धः । गणनाकाव्ययोर्वाक्कर्म रूपस्कन्धः । वेदनादयस्तृभयत्रापि-
समुत्थानभूताश्चत्वारः स्कन्धा इति । पञ्चस्कन्धस्वभावान्येतानि भवन्ति ।
यन्मनसा संकलनं धर्माणामिति । एकं द्वे त्रीणीत्येवमादि सा संख्या । यत्तु वाचा
न मनसा सा गणनेत्याभिधार्मिकाः । इयं च संख्या सपरिवारग्रहणाच्चतुःस्कन्ध-
स्वभावा ॥ १२६ ॥
लिप्यादिलक्षणनिर्देशानुषङ्गेण सावद्यादीनामपि धर्माणां लक्षणनिर्देशो-
पन्यासः । धर्मस्कन्धकविभाषायामेते पर्याया निर्दिष्टाः । तत्प्रत्यासन्नेयमिति ।
इमे पर्याया उपन्यस्यन्त इत्यपरः सम्बन्धः । सहावद्येन क्लेशलक्षणेन वर्तन्त
इति सावद्याः । क्लेशाच्छादितत्वान्निवृताः । क्लेशा अपि हि सम्प्रयोगिणा
क्लेशान्तरेण निवृताः । निष्कृष्टत्वादार्यैस्त्यक्तत्वाद् वा हीनाः । क्लिष्टास्तु क्लेश-
योगतोऽवगन्तव्याः ।
शुभामलाः । कुशलानास्रवाः । ते प्रणीताः । शुद्धिप्रकर्षगतत्वात् । हीन-
प्रणीतेभ्योऽन्ये मध्या इति सिद्धमिति । क्लिष्टा एव हीनाः । शुभामला एव च
प्रणीता इत्यवधारणादतोऽन्ये न हीनाः । न प्रणीता इति मध्याः सिद्धाः ।
संस्कृतशुभाः सेव्या इति । अविशेषेण सास्रवा अनास्रवा वा सेवितव्याः ।

चतुर्थं कोशस्थानम्
कुशलसंस्कृतानां सेवितव्या इति पर्यायः । शेषा असेवितव्या इति सिद्धं
भवति ।
कस्मादसंस्कृतं न सेव्यम् ? अनभ्यसनीयत्वाद्, अफलत्वाच्च । फलार्थं हि
सेवा भवति ॥
सोत्तरा अन्ये सर्वधर्माः ।
मोक्षस्त्वनुत्तरः ॥ १२७ ॥
नहि निर्वाणाद् विशिष्टतरमस्ति । तच्च सर्वेभ्यो विशिष्टम्; कुशल-
नित्यत्वात् ॥ १२७ ॥
अभिधर्मकोशभाष्ये कर्मनिर्देशो नाम
चतुर्थं कोशस्थानमिति ॥
पर्युपासितव्याः । सन्तानाध्यारोपणतः । शेषा असेवितव्या इति । के शेषाः ?
असंस्कृताश्च, ये च न कुशलाः । क्लिष्टा निवृताव्याकृता इत्यर्थः ।
अनभ्यसनीयत्वादिति । पौनःपुन्येन कर्तुमशक्यत्वादित्यर्थः । अनुत्पाद्यत्वा-
दित्यपरे । अफलत्वाच्चेति । संस्कृतस्य हि हेतुफले । नासंस्कृतस्य ते इति ।
सोत्तरा इति सातिशयाः । अकुशला निवृताव्याकृतानामनिष्टविपाकाभावात् ।
निवृताव्याकृता अनिवृताव्याकृतैः संस्कृताः सोत्तरा; तेषामक्लिष्टत्वात् । तेऽपि
कुशलसास्रवैः सोत्तराः; कुशलसास्रवाणामिष्टफलत्वात् । तेऽप्यनास्रवैः सोत्तराः;
निष्क्लेशत्वात् । अनास्रवा अपि संस्कृता असंस्कृतैः सोत्तरा; असंस्कृतानां
नित्यत्वात् । संस्कृतावप्याकाशाप्रतिसंख्यानिरोधौ प्रतिसंख्यानिरोधेन सोत्तरौ;
प्रतिसंख्यानिरोधस्य कुशलनित्यत्वात् ।
मोक्षस्त्वनुत्तरः । न हि निर्वाणाद् विशिष्टतममस्ति । तथा ह्युक्तम्—“ये
केचिद् भिक्षवो धर्माः संस्कृता वा असंस्कृता वा विरागस्तेषामग्र आख्यायते”
( ) इति । प्रतिसंख्यानिरोधो हि नित्यत्वात् सर्वसंस्कृतेभ्य उत्कृष्टः ।
कुशलत्वाच्चासंस्कृताभ्यामाकाशाप्रतिसंख्यानिरोधाभ्यामुत्कृष्टतर इति ॥ १२७ ॥
आचार्ययशोमित्रकृतायां स्फुटार्थायामभिधर्मकोशव्याख्यायां
चतुर्थकोशस्थानं समाप्तम् ॥

ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत् ।
तेषां च यो निरोध एवंवादी महाश्रमणः ॥

अभिधर्मकोशम्
भाष्यस्फुटार्थसहितम्

The provided image is completely blank and contains no readable text or manuscript content to transcribe.

❀ ॐ नमो बुद्धाय ❀
पञ्चमं कोशस्थानम्
(अनुशयनिर्देशः)
“कर्मजं लोकवैचित्र्यम्” (अभि. ४.१) इत्युक्तम्। तानि¹ च² कर्माण्यनु-
शयवशादुपचयं गच्छन्ति, अन्तरेण चानुशयान् भवाभिनिर्वर्त्तने न समर्थानि
भवन्ति। अतो वेदितव्याः—
स्फुटार्थाव्याख्यायां
पञ्चमं कोशस्थानम्
'कर्मजं लोकवैचित्र्यम्' इत्युक्तमिति। चतुर्थस्यादावुक्तम्। अतोऽनेन
सम्बन्धेनानुशयोपन्यास इति सम्बन्धं दर्शयति। तानि च कर्माणि यथोक्त-
लक्षणप्रभेदानि अनुशयवशादुपचयं गच्छन्ति। विपाकनैयत्येनात्र उत्तिष्ठन्ते।
विपाकदानाय नियतीभवन्तीत्यर्थः। अन्तरेण चानुशयान् विनानुशयैर्भवस्य
जन्मनोऽभिनिर्वर्त्तने उत्पादने न समर्थानि भवन्ति कुशलान्यकुशलानि वा
कर्माणि। न ह्यर्हतः पौनर्भविकानि कर्माण्यनित्यानि न सन्ति, अनुशयाभावात्तु
पुनर्भवाभिनिर्वर्त्तने न समर्थानि भवन्ति। अत एवैषामनित्यत्वं सिद्धयति।
ह्यर्थे चायं चः पठितव्यः; यस्मादन्तरेणानुशयान् भवाभिनिर्वर्त्तने न
समर्थानि भवन्ति, तस्मादनुशयवशादुपचयं गच्छन्तीत्यभिप्रायः।
अपरे पुनरेतद् व्याख्याद्वयमेवं व्याचक्षते—तानि च कर्माण्यनुशयवशादु-
पचयं गच्छन्ति। यान्यकृतानि कर्माणि, तान्यनुशयवशात् पुनर्भवाभिनिर्वर्तने
उपचीयन्त इत्यर्थः। न ह्यर्हतां कर्माणि पुनर्भवाभिनिर्वर्तने उपचीयन्ते, अन्तरेण
चानुशयान् भवाभिनिर्वर्तने न समर्थानि भवन्तीति। यानि च कृतानि,
तान्यप्यन्तरेणानुशयान् भवाभिनिर्वर्तने न शक्तानि भवन्ति। न ह्यर्हतां पृथग्ज-
नावस्थायां कृतानि कुशलाकुशलानि पौनर्भविकान्यनित्यानि कर्माणि न सन्ति,
अनुशयावैकल्यात्तु तानि भवाभिनिर्वर्तने न समर्थानि—इत्येवं पृथगर्थाभिधानात्
समुच्चयेऽयं चकार इति !
१-१. तानि-का०

मूलं भवस्यानुशयाः,
क्लेशो हि प्रवर्तमानो दश कृत्यानि करोति—मूलं¹ दृढीकरोति, सन्ततिमव-
स्थापयति, क्षेत्रमापादयति, निःष्यन्दं निर्वर्तयति, कर्मभवमभिनिर्हरति, स्वसम्भारं
परिगृह्णाति, आलम्बने संमोहयति, विज्ञानस्रोतो नमयति, कुशलपक्षाद्व्युत्क्रामयति²,
बन्धनार्थं च स्फरति धात्वनतिक्रमणयोगेनेति³ ।
कति चेमेऽनुशयाः ? समासेन षट् ।
कतमे ?
मूलं भवस्यानुशया इति । पुनर्भवस्य कर्मभवस्य वा मूलम् अनुशया
इत्यभिप्रायः । मूलं दृढीकरोतीति । प्राप्तहिं मूलम् । तामनुच्छेदधार्थेन
दृढीकरोतीत्यर्थः । सन्ततिमवस्थापयतीति । परम्परया क्लेशप्रबन्धं स्थापय-
तीत्यर्थः । क्षेत्रमापादयतीति । आश्रयमात्मोत्पत्त्यनुकूलं करोतीत्यर्थः । निःष्यन्दं
निर्वर्तयतीति । स्वनिष्यन्दमुपक्लेशं जनयति । तद्यथा—राग आहीक्योद्धत्य-
मत्सरांन् जनयति, द्वेषः क्रोघेर्ष्या इत्यादि । कर्मभवमभिनिर्हरतीति । कर्म एव
भवः = कर्मभवः, तं पुनर्भवाभिनिर्वृत्तये जनयतीत्यर्थः । इदमस्य 'मूलं
भवस्यानुशयाः' इत्यर्थसन्दर्शनार्थम् । स्वसम्भारं परिगृह्णातीति । स्वसम्भारः =
क्लेशस्यायोनिशो मनस्कारः, तं परिगृह्णाति । तस्यानागतस्य हेतुभावेनावतिष्ठत
इत्यर्थः । आलम्बने संमोहयतीति । यथाभूतग्रहणात्, बुद्धद्युपघाताद् वा
संमोहयतीति । विज्ञानस्रोतो नमयतीति । विज्ञानसन्ततिमालम्बने पुनर्भवे
वा नमयति ।
यदि 'मूलं भवस्य' इति पुनर्भवग्रहणम्, इदमस्योदाहरणम् । कुशलपक्षाद्
व्युत्क्रामयतीति । कुशलपक्षात् परिहापयति । बन्धनार्थं च स्फरति ; बन्धनकार्ये
व्याप्नोति, तनोतीत्यर्थः । कथम् ? इत्याह—धात्वनतिक्रमणयोगेन । धात्वनति-
क्रमणप्रकारेणेत्यर्थः । तादिदमुक्तं भवति—यः क्लेशो यद्धातुक स तं धातुं
नातिक्रामयतीति ।
षोडशोत्यन्येः । एषु षट् प्रक्षिप्य । आश्रयदौष्ठुल्यं जनयति, अकर्मण्यता-
पादनात् । गुणान् द्वेष्टि, तद्विरोधित्वात् । अपवादानास्पदीकरोति, विद्वद्विगर्हित-
कायकर्मोत्थापनात् । सत्पथादुद्वर्तयति, विपरीतदैशिकसंसेवाभिमुखीकरणात् ।
विविधानर्थबीजं रोपयति सर्वसंसारव्यसनानां तत्प्रभवत्वात् । आधिपत्यफलेन
च लोकस्यानिष्टमुपसंहरति, तद्द्वेगेन बाह्यभावविकारापत्तेः ।
१. मूलं च-का० । २. व्युत्क्रामति-का० । ३. ०नतिक्रमयो०-का० ।

पञ्चमं कोशस्थानम् ७६१
षड्रागः प्रतिघस्तथा ।
मनोऽविद्या च दृष्टिश्च विचिकित्सा च,
तथाग्रहणं रागवशेनान्येषामप्यालम्वनानुशयितज्ञापनार्थम्¹ । एतच्च पश्चात्
प्रवेदयिष्यामः ।
ते पुनः ॥ १ ॥
षड्रागभेदा सप्तोक्ताः,
त एते षडनुशयाः सूत्रे रागस्य द्विधा भेदं कृत्वा सप्तोक्ताः—
कामरागानुशयः, प्रतिघानुशयः, भवरागानुशयः, मानानुशयः, दृष्ट्यनुशयः,
विचिकित्सानुशय इति ।
कथमिदं ज्ञातव्यम्--कामराग एवानुशयः कामरागानुशयः, अहोस्वित्
कामरागस्यानुशयः कामरागानुशयः ? किं चातः ? कामराग एवानुशयश्चेत्
सूत्रविरोधः--"इहैकत्यो न कामरागपर्यवस्थितेन चेतसा बहुलं विहरति ।
उत्पन्नस्य कामरागपर्यवस्थानेस्योत्तरनिःसरणं² यथाभूतं प्रजानाति । तस्य
तत्कामरागपर्यवस्थानं स्थामशः सम्यक्त्वसुसमवहतं³ सानुशयं प्रहीयते" इति ।
रागवशेनान्येषामपीति । यत्र रागः तत्रालम्बनेऽन्ये प्रतिघादयोऽप्यनु-
शेरते । "प्रेमाद् द्वेषो जायते, मानादयोऽपि" ( ) इति सूत्रम् । अत
एव च रागानुशयनाभावाद् अनास्रवविसभागधात्वोः क्लेशा नानुशेरत इति ।
एतच्च पश्चात् प्रवेदयिष्याम इति । "यद्धि वस्तु आत्मदृष्टितृष्णाभ्यां स्वीकृतम्,
तत्रान्येऽप्यनुशया अनुशयितुमुत्सहन्ते, आर्द्र इव पटे रजांसि संस्थातुम्"
( ) इत्येतत् ज्ञापयिष्यामः ॥ १ ॥
आहोस्वित् कामराग एवानुशय इति । वैभाषिकनयेन पर्यवस्थानमेवानुशयः ।
वात्सीपुत्रनयेन प्राप्तिरनुशयः । सौत्रान्तिकनयेन बीजम् । उत्तरनिःसरणमिति ।
पश्चान्निःसरणमित्यर्थः । स्थामशः सुसमवहतम् । बलशः सुष्ठु सम्यग्
अवहतमित्यर्थः । सानुशयं प्रहीयत इति । इदमत्रोदाहरणम् । इदमत्र
विरुद्धयते । सहयोगसमासे हि अन्यत्वं दृष्टम्, तद्यथा--सपुत्रो देवदत्त इति ।
१. ०षामलम्बना०-का० । २. ०स्योत्तरि-का० ।
३. ०वस्वसम०-का० ।

कामरागस्यानुशयश्चेद् विप्रयुक्तानुशयप्रसङ्गादभिधर्मविरोधः - "कामराग-
नुशयस्त्रिभिरिन्द्रियैः सम्प्रयुक्तः" इति ?
कामराग एवानुशय इति वैभाषिकाः । एवं यावद्विचिकित्सैवानुशय इति ।
ननु चोक्तम् — एवं सूत्रविरोध इति ? नास्ति विरोधः । सानुशय सानु-
बन्धमित्यर्थात्¹ । औपचारिको वा सूत्रेऽशयनुशब्दः प्राप्तौ । तद्यथा --
दुःखोऽग्निरिति । लाक्षणिकस्त्वभिधर्मे क्लेश एवानुशयशब्दः । तस्मात् सम्प्रयुक्ता
एवानुशयाः ।
कथमिदं गम्यते ? अनुशयानां
“चित्तक्लेशकरत्वादावरणत्वाच्छुभैर्विरुद्धत्वात्” ।
यस्मादनुशयैः क्लिष्टं चित्तं भवत्यपूर्वं कुशलं नोत्पद्यते, उत्पन्नाच्च परि-
हीयते, तस्मान्न विप्रयुक्ताः । अथ विप्रयुक्तैरेवैवं स्यात्, कुशलं न कदा-
चिदप्युपलभ्येत², तेषां नित्यं सन्निहितत्वात् । उपलभ्यते च, अतः
“कुशलस्य चोपलम्भादविप्रयुक्ता इहानुशयाः³” ॥ ( ) इति ।
तथा च सति सूत्रविरोधः । अभिधर्मविरोध इति । कामरागानुशयस्त्रिभिरिन्द्रियैः
सम्प्रयुक्तः, कतमैस्त्रिभिः ? सुख-सौमनस्य उपेक्षेन्द्रियैः सम्प्रयुक्त इति ।
न हि विप्रयुक्तस्य प्राप्तिलक्षणस्य एभिरिन्द्रियैः सम्प्रयोगो युज्यत इति शास्त्र-
विरोधः ।
सानुशयं सानुबन्धमित्यर्थादिति । कामरागस्यानुबन्धोऽनुशयशब्देनोक्त
अनुबन्धः पुनः क्लेशान्तरोत्पादानुकूल्येनावस्थानम् । अनिवृर्त्तानुशयः
सानुशयं प्रहीयते, न पुनरनुवर्तते संक्लेश इत्यर्थः । औपचारिको वा सूत्रेऽनु-
शयशब्दः । उपचारे भव औपचारिकः । कुत्रौपचारिकः ? इत्याह — प्राप्तौ ।
मुख्यवृत्त्या पर्यवस्थानेऽनुशयशब्दो वर्तते, उपचारेण तु प्राप्तौ; तस्यानुशय-
हेतुभावात् । तद्यथा दुःखवेदनाहेतुत्वाद् अग्निर्दूःख इत्युच्यते, तद्वत् ।
लाक्षणिकस्त्वभिधर्मेऽनुशयशब्दः । लक्षणे भवः, लक्षणेन वा दीप्यंत
लाक्षणिक इत्याह — क्लेश एवेति । आलम्बनसम्प्रयोगात्त्वनुशेरत इत्यनुशया
इति । तस्मात् सम्प्रयुक्ता एवानुशयाः । अत्र चार्थे श्लोकमुदाहरन्ति —
चित्तक्लेशकरत्वादावरणत्वाच्छुभैर्विरुद्धत्वात् ।
कुशलस्य चोपलम्भादविप्रयुक्ता इहानुशयाः ॥ इति ॥
१. ०मित्यर्थः-का० । २. कदाचिदुपल०-का० ।
३. अथ इहा०-का० ।

तदिदमज्ञापकम् ; यस्माद्यो हि¹ विप्रयुक्तमनुशयमिच्छति स एतत् सर्वमनु-
शयकृतं नेच्छति, क्लेशकृतमेवेच्छति। एवं तु साधु यथा सौत्रान्तिकानाम्।
कथं च सौत्रान्तिकानाम् ? कामरागस्यानुशयः कामरागानुशय इति। न
चानुशयः सम्प्रयुक्तो न विप्रयुक्तः, तस्याद्रव्यान्तरत्वात् । प्रसुप्तो हि क्लेशोऽनु-
शय उच्यते, प्रबुद्धः पर्यवस्थानम् । का च तस्य प्रसुप्तिः ? असम्मुखीभूतस्य
बीजभावानुबन्धः । कः प्रबोधः ? सम्मुखीभावः ।
कोऽयं बीजभावो नाम ? आत्मभावस्य क्लेशजा क्लेशोत्पादनशक्तिः ।
चित्तक्लेशकरत्वादिति । अस्य विवरणम्—यस्मादनुशयैः क्लिष्टं चित्तं भवति,
न विप्रयुक्तैः क्लिष्टं चित्तं भवति । आवरकत्वादिति । अस्य पदस्य विवरणम्—
अपूर्वं कुशलं नोत्पद्यत इति । सानुशये चित्ते कुशलमपूर्वं नोत्पद्यत इति ।
अनुशयाः शुभैविरुद्धः। यस्मादुत्पन्नात् कुशलात् परिहीयते, तस्मात्तु कुशलै-
र्विरुद्धा अनुशयाः । तस्मान्न विप्रयुक्ता इति । यस्माच्चेतस्यविद्यमानैस्तैर्यथोक्त-
क्लिष्टादि न सम्भवति, सम्प्रयुक्तैः पुनः सर्वमेतद् युज्यत इति ।
अथ विप्रयुक्तैरेवैवं स्यादिति । विप्रयुक्तैः क्लिष्टं चित्तं भवति । अपूर्वं
कुशलं नोत्पद्यते, उत्पन्नाच्च परिहीयत इति । यद्येवम्, कुशलं कदाचिदप्युप-
लभ्येत, तेषां विप्रयुक्तानां नित्यसन्निहितत्वात् । यस्मात् क्लिष्टावस्थायां
कुशलावस्थायामन्यस्यां वा ते विप्रयुक्ता वर्तन्त इति उपलभ्येत च कुशलम्,
अथ 'कुशलस्य चोपलम्भादविप्रयुक्ता इहानुशयाः' इति स्थितमेतद् ।
आचार्य आह—तदिदमज्ञापकम् । यदिदं वैभाषिकैरुक्तम्—'चित्तक्लेश-
करत्वाद्' इत्यादि । यो हि विप्रयुक्तमनुशयमिच्छतीति वात्सीपुत्रीयः । सर्वमेत-
दिति । चित्तक्लेशादि । क्लेशकृतमेवेच्छतीति । पर्यवस्थानकृतमेवेत्यर्थः ।
पर्यवस्थानं च न नित्यसन्निहितं भवतीति कुशलोपलम्भसिद्धिः । कामराग-
स्यानुशया इति पक्षपरिग्रहे सानुशयं परिहीयत इति नास्ति सूत्रविरोधः; किन्तु
विप्रयुक्तोऽनुशय इति प्राप्नोति । अत आह न चानुशयः सम्प्रयुक्तो न विप्रयुक्त
इति । कथम् ? इत्याह-- तस्याद्रव्यान्तरत्वादिति । शक्तिरूपस्य बीजस्य
रागादिभ्योऽनर्थान्तरत्वात् ।
आत्मभावस्य आश्रयस्य । क्लेशजा पूर्वोत्पन्नक्लेशजनिता । क्लेशोत्पादन-
शक्तिः ।
१. का० पुस्तके नास्ति ।