अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 768, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] चतुर्थं कोशस्थानम् ७४९
कुक्षेत्रेऽपि हि फलस्य बीजादविपर्ययो दृष्टः—मृद्वीकाबीजान्मृद्वीकाफलमेवो-
त्पद्यते मधुरम्, निम्बबीजान्निम्बमेव तिक्तम् । एवं कुक्षेत्रेऽपि परहिताध्याशय-
प्रवृत्तस्य दानबीजस्येष्टमेव फलं निर्वर्तते, नानिष्टम् । क्षेत्रदोषात् तु तद्बीजमल्प-
फलं वा भवति, अफलं वा ॥ १२१ ॥
गतं दानमयपुण्यक्रियावस्तु सप्रसङ्गम् ॥
शीलमयं वक्तव्यम् ? तदुच्यते—
दौःशील्यमशुभं रूपं शीलं तद्विरतिः,
अकुशलं हि रूपं दौःशील्यमुच्यते । तस्माद् विरतिः शीलम् ।
सा पुनर्विरतिः—
द्विधा ।
यया च विरम्यते विज्ञप्त्या, यच्च तद्विरमणम् अविज्ञप्तिः ।
न च केवलं दौःशील्याद् विरतिः शीलम्, किं तर्हि ?
प्रतिक्षिप्ताच्च बुद्धेन,
यदपि न प्रकृत्या दौःशील्यम्, भगवता च बुद्धेन प्रतिक्षिप्तमकालभोज-
नादिकम्, तस्मादपि द्विधा विरतिः शीलम् ।
समात्तशिक्षस्य तु तदध्याचाराद् दौःशील्यं जायते ॥
उक्तं समासेन शीलम् ॥
विशुद्धं तु चतुर्गुणम् ॥ १२२ ॥
तत्तु शीलं चतुर्गुणं भवति । विपर्ययादविशुद्धम् ॥ १२२ ॥
कुक्षेत्रेऽपि हि फलस्य मृद्वीकाफलस्य बीजात् मृद्वीकाबीजात् अविपर्ययो
दृष्टः । मृद्वीकाफलमेव मधुरं दृष्टमित्यर्थः । न तु निम्बफलमेवम् । निम्बबीजा-
न्निम्बफलमेवेति । तिक्तमिति । मृद्वीकाबीजं कुशलस्योदाहरणम्, निम्बबीजम-
कुशलस्य ॥ १२१ ॥
“दौःशील्यमशुभं रूपम्” इति । प्राणातिपातादिलक्षणं प्रकृतिसावद्यं रूपं
दौःशील्यम् ॥
“प्रतिक्षिप्ताच्च बुद्धेन” इति । प्रज्ञप्तिसावद्यत्वात् । समात्तशिक्षस्य तु तद-
ध्याचाराद् दौःशील्यमिति । गृहीततद्विरमणस्य भगवद्वचनानादराद् दौःशील्यं
जायते । अर्थादुक्तं भवति—असमात्तशिक्षस्य न दौःशील्यमिति ।