सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 770, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 770

निर्देशः ] चतुर्थं कोशस्थानम् ७५१
किमिदं समाहितं नाम ? समाधिस्वभावं सहभू यत् । किमर्थमेतत्
भावनेत्युच्यते ?
चित्तवासनात् ॥ १२३ ॥
तद्धि समाहितं कुशलमत्यर्थं चित्तं वासयति; गुणैस्तन्मयीकरणात् सन्ततेः ।
पुष्पैस्तिलवासनावत् । दानं तावन्महाभोगतायैः संवर्तत इत्युक्तम् ॥ .१२३ ॥
अथ शीलं भावना च ?
स्वर्गाय शीलं प्राधान्याद् विसंयोगाय भावना ।
दानमपि स्वर्गाय शीलं प्राधान्यात् । शीलमपि विसंयोगाय ।
भावना तु प्राधान्यात् ।
सूत्र उक्तम्—"चत्वारः पुद्गला ब्राह्मं पुण्यं प्रसवन्ति" ( )
कुशल-ग्रहणं समाहितास्वादनासम्प्रयुक्तक्लिष्टध्याननिवृत्त्यर्थम् । तत् समाहितं
कुशलसदृशमुत्पद्यते ।
समाधिस्वभाव-सहभू यदि ति । समाधिस्वभावं तेन च सह भवति यदित्यर्थः ।
तद्धि समाहितमिति विस्तरः । तत् समाहितं कुशलमत्यर्थं चित्तं संवासयति ।
भावयति । असमाहितमपि वासयति । न त्वेवमत्यर्थमिति दर्शयति । कथम् ?
इत्याह—गुणैस्तन्मयीकरणात् सन्ततेः । यस्मात् समाधिगुणैस्तन्मयीक्रियते
चित्तसन्ततिः । अत्र दृष्टान्तमाह—पुष्पैस्तिलवासनावदिति । यथा पुष्पैस्तिला
भाव्यन्ते पुष्पगन्धमयीकरणात्, तद्वत् । तदिदमुक्तं भवति—भावना=वासना,
तत्स्वभावं पुण्यं भावनामियमिति ॥ १२३ ॥
अथ शीलं भावना च । 'कस्मै संवर्तते' इति वाक्यशेषतोऽर्थं पृच्छति ।
स्वर्गाय शीलं प्राधान्यादिति । शीलं प्राधान्येन स्वर्गाय भवति । अन्यत्तु न प्राधा-
न्येन स्वर्गाय भवति । किमन्यत् ? दानम् । दानमपि हि स्वर्गाय सम्भवति ।
शीलमपि विसंयोगाय सम्भवति; शमथविपश्यनयोः शीलप्रतिष्ठानत्वात् ।
भावना प्राधान्येन विसंयोगाय । साक्षाद् विसंयोगप्रापकत्वात्, प्रहाणमार्ग-
संगृहीतत्वाद् वा ।
पुण्यक्रियावस्तुप्रसङ्गेनेदमुपन्यस्यते—
सूत्र उक्तम्—चत्वारः पुद्गलाः ब्राह्मं पुण्यं प्रसवन्ति । अप्रतिष्ठिते पृथिवी-
प्रदेशे तथागतस्य शारीरं स्तूपं प्रतिष्ठापयति—अयं प्रथमः पुद्गलः ब्राह्मं पुण्यं
प्रसवति । चातुर्दिशे भिक्षुसंघे आरामं निर्यातयति, तत्रैव चारामे विहारं
प्रतिष्ठापयति—अयं द्वितीयः पुद्गलो ब्राह्मं पुण्यं प्रसवति । भिन्नं तथागत-