सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 771, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 771

७५२ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ कर्म-
इति। कतमत् तद् ब्राह्मपुण्यम् ? यल्लक्षणविपाकस्य कर्मणः परिमाणज्ञापनायोक्त-
मिति वैभाषिकाः।
पूर्वाचार्यास्तु व्याचक्षते—
चतुर्णां ब्राह्मपुण्यत्वं कल्पं स्वर्गेषु मोदनात् ॥ १२४ ॥
यावता पुण्येन कल्पं स्वर्गेषु मोदते, इदं ब्राह्मं पुण्यम्; ब्रह्मपुरोहितानां
कल्पायुक्तत्वात्। निकायान्तरे गाथां पठन्ति—
“ब्राह्मं पुण्यं प्रसवति कल्पं स्वर्गेषु मोदते” ( ) इति ॥१२४॥
आमिषदानमुक्तम् ॥
धर्मदानं वक्तव्यम्। तदिदमुच्यते—
धर्मदानं यथाभूतं सूत्राद्यक्लिष्टदेशना।
सूत्रादीनां यथाभूतमक्लिष्टदेशना धर्मदानम्। अतो महतीं त आत्मनः
थावकसंघं प्रतिसन्दधाति—अयं तृतीयः पुद्गलः ब्राह्मं पुण्यं प्रसवति। मैत्रीसह-
गतेन चित्तेनावैरेणासपतेनाव्याबाधेन विपुलेन महद्गतेनाप्रमाणेन सुभाविते-
नैकां दिशमधिमुच्य स्फुरित्वोपसम्पद्य विहरति, तथा द्वितीयाम्, तथा
तृतीयाम्, तथा चतुर्थीम्, इत्यूर्ध्वमधस्तिर्यक् सर्वतः सर्वमिमं लोकं स्फुरि-
त्वोपसम्पद्य विहरति—अयं चतुर्थः पुद्गलो ब्राह्मं पुण्यं प्रसवति” ( )
इति। यल्लक्षणविपाकस्य कर्मणः परिमाणज्ञापनायोक्तमिति। यदुक्तम्—सन्निकृष्टं
बोधिसत्त्वं स्थापयित्वा यावत् सर्वसत्त्वानां भोगफलमित्येवमादि;
इदं ब्राह्मं पुण्यमिति। ब्रह्मणामिदं ब्राह्मम्। ब्रह्मपुरोहिताश्चात्र ब्रह्मशब्दे-
नोच्यन्ते। कस्मात् ? ब्रह्मपुरोहितानां कल्पायुक्तत्वात्। ब्रह्मपुरोहितानां हि
कल्पमायुरुक्तम्। अनेन च कर्मणा कल्पं स्वर्गेषु मोदते। ब्राह्मं पुण्यं प्रसवति कल्पं
स्वर्गेषु मोदत इति निकायान्तरपाठवचनात्। तत्साधर्म्यादेतद् ब्राह्मं पुण्य-
मुच्यते। ननु च कामधातौ नास्ति कुशलस्य कर्मणः कल्पं विपाक इति ?
सत्यमेकस्य नास्ति; एकाविष्ठानास्तु बह्वघश्चातना भवन्ति। यासां क्रमेण
कल्पप्रमाणं स्वागिकं फलमभिनिर्वर्तते; च्युतस्य पुनस्तत्रैव जन्मसन्धानात्।
बृहद् पुण्यं ब्राह्ममित्यपरे ॥ १२४ ॥
सूत्रादीनामिति। आदिशब्देन द्वादशानामङ्गानां ग्रहणम्। सूत्र-गेय-
व्याकरण-गाथा-उदान-निदानावदान-इतिवृत्तक-जातक-वैपुल्याद्भुतधर्मोपदेशा