अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
( १३ )
दशानामनुशयानां कथं मार्गविशेषगमनेन क्लेशानां
प्रवृत्तिः ? ८२८ प्रहाणविशेषो भवति ? ८५६
उत्पद्यमानोऽनुशयस्त्रिभिः द्वे परिज्ञे ८६१
कारणैरुत्पद्यते ८२६ परिज्ञा नव ८६२
दशानुशया एव त्रय आस्रवाः ८३० कस्मान्नेकैकं प्रहाणं परिज्ञा
चत्वार ओघाः ८३२ व्यवस्थाप्यते ? ८६५
चत्वार्युपादानानि ८३३ कः कतिभिः परिज्ञाभिः
अनुशयशब्दार्थः ८३३ समन्वागतः ? ८६६
आस्रवशब्दाथः ८३४ कः कति परिज्ञास्त्यजति
अनुशयाः संयोजनादिभेदेन लभते वा ? ८६६
पञ्चधा ८३६ षष्ठं कोशस्थानम्
नव संयोजनानि ८३६ (मार्गपुद्गलनिर्देशः)
त्रीणि बन्धनानि ८४२ द्विविधो भावनामार्गः ८७१
अनुशयाः पूर्वमुक्ताः ८४३ चत्वारि सत्यानि ८७२
क्लेशा एव उपक्लेशाः ८४३ एषामेवमेवाभिसमये कारणम् ८७३
दश पर्यवस्थानानि ८४४ अभिसमयशब्दार्थः ८७४
अनुशयानां कति मनोभूमिकाः ? सर्वे सास्रवाः सस्काराः दुःखम् ८७५
कति षड्विज्ञानकायिकाः ? ८४८ सत्यानां दर्शनोपायः ८८१
सुखादिपञ्चेन्द्रियाणां कतमे- प्रज्ञानां लक्षणम् ८८१
नेन्द्रियेण कतमः क्लेश चतुभिरार्यवस्त्वैः किं दर्शितं
उपक्लेशो वा सम्प्रयुक्तः ? ८४८ भगवता ? ८८४
क्लेशानामिन्द्रियसम्प्रयोगः ८४८ भावनाद्वयम् ८८४
उपक्लेशानामिन्द्रियसम्प्रयोगः ८५० अशुभाया भावनाया लक्षणम् ८८५
अनुशयानां प्रहाणप्रकार ८५४ आनापानस्मृत्यवेक्षणम् ८८८
कतिविधः प्रतिपक्षः ? = ५ सा च षड्विधा ८८६
प्रहीयमाणः क्लेशः कुतः स्वभावस्मृत्युपस्थानम् ६०३
प्रहातव्यः ? ८५६ कायादीन् सर्वानभिसमस्य
कतिविधो दूरीभावः ? ८५८ चतुर्भिराकारैः पश्यति ६०७
yoḥ? No, शैक्षाशैक्षयोः).
Line 23 left:
शैक्षा धर्माः कतमे ? ६७३ (or कनमे ?)
Line 24 left:
शैक्षः कुतो वैराग्यमाप्नोति ? ६७४
Line 25 left:
कतमया भूम्या कुतो
Right column:
Line 1: वैराग्यम् ? ६७६
Line 2: क्षयज्ञानादनन्तरं किमुत्पद्यते ? ६७६
Line 3: श्रामण्यम्, तत्फलानि च ६७६
Line 4: ब्राह्मण्यम्, धर्मचक्रम् ६८२
Line 5: कस्मिन् धातौ कति श्रामण्य-
Line 6: फलानि ? ६८७
Line 7: अर्हन्तः षट् ६८८
Line 8: शैक्षानाशैक्षाश्च षड्गोत्राः १००२
Line 9: परिहाणिस्त्रिधा १००३
Line 10: इन्द्रियभेदादर्हन्तो नव १००७
Line 11: सप्त पुद्गलाः १००७
Line 12: कियता पूर्णः शैक्षो भवति ? १०११
Line 13: समासतो मार्गः कतिविधः ? १०१२
Line
( १५ )
सप्तम कोशस्थानम् समापत्तिवर्णनम् ११२६
(ज्ञाननिर्देशः) केयमेकाग्रता ? ११२६
नामलाः क्षान्तयो ज्ञानम् १०३३ ध्यानमिति कोऽर्थः ? ११२७
क्षयानुत्पादधीर्न दृक् १०३४ आरूप्यवर्णनम् ११३०
लौकिकी प्रज्ञा ज्ञानम् १०३४ आकाशानन्त्यायतना-
दशभिर्ज्ञानैः सर्वज्ञानसंग्रहः १०३५ दीनामालम्बनम् ११३७
सप्तभिः कारणैः दश अष्टविधस्यापि समापत्ति-
ज्ञानानि व्यवस्थाप्यन्ते १०४२ द्रव्यस्य आस्वादनासम्प्र-
दशानां ज्ञानानामाकारवर्णनम् १०४५ युक्तादिभेदेन वर्णनम् ११४६
आकारो नाम क एष धर्मः ? १०६२ शुद्धकादीनां कथं लाभः ? ११५१
ज्ञानानां कुशलादिभेदः १०६३ केनाश्रयेण कति ध्याना-
स्मृत्युपस्थानसंग्रहः १०६४ रूप्याः सम्मुखीक्रियन्ते ? ११५८
कतमस्य ज्ञानस्य कति ध्यानाऽरूप्याणां किमालम्
, there is a horizontal dividing line: —————.
That horizontal line is roughly level with एषा कर्मपथानां त्रिविधफलं or कथम् ? ७१२.
Let's count the lines on the right side:
- कतमत् कर्म कतिभिः फलैः
- प्रहाणम् ? ७१४
- प्रयोगविहितादीनां कर्मणां
- लक्षणम् ७२०
- कर्मावरणम् ७२३
- किंस्वभावान्यानन्तर्याणि ७२५
- त्रीणि पुण्यक्रियावस्तूनि ७३६
- किमिदं दानं नाम ? ७४०
- कर्मणां गुरुलघुत्वयोः षट्
- कारणानि ७४५
- कथं कर्मोपचितं भवति ? ७४६
- शीलमयं कर्म ७४६
- समाहितं कर्म ७५१
- लिपिमुद्रागणनादीनां स्वभावः ७५३
Count = 14 lines on the right!
Now count the lines on the left side:
- प्राणातिपातकर्मपथलक्षणम् ६८४
- अदत्तादानम् ६८७
- अगम्यगमनम् ६८
अभिधर्मकोशम्
भाष्यस्फुटार्थासहितम्
The provided image is completely blank/white and does not contain any text to transcribe.
* ॐ नमो बुद्धाय *
अभिधर्मकोशम्
[ भाष्यसहितम् ]
प्रथमं कोशस्थानम्
( धातुनिर्देशः )
शास्त्रं प्रणेतुकामः स्वस्य शास्तृमाहात्म्यज्ञापनार्थं गुणाख्यानपूर्वकं तस्मै
नमस्कारमारभते—
* नमो मारबलप्रमथनाय १ *
.टार्था व्याख्या
महाबलो ज्ञानसमाधिदन्तो यः पञ्जरं जन्ममयं विदार्य ।
विवेश निर्वृत्यटवीं प्रशान्तां तं शास्तृनागं शिरसा नमामि ॥
परमार्थशास्त्रकृत्या कुर्वाणं शास्तृकृत्यमिव लोके ।
यं बुद्धिमतामग्र्यं द्वितीयमिव बुद्धमित्याहुः ॥
तेन वसुबन्धुनाम्ना भविष्य-परमार्थबन्धुना जगतः ।
अभिधर्मप्रत्यासः कृतोऽयमभिधर्मकोशाख्यः ॥
अभिधर्मभाष्यसागरसमुद्धृतस्यास्य शास्त्ररत्नस्य ।
व्याख्या मया कृतेयं यथार्थनामा स्फुटार्थेति ॥
गुणमति-वसुमित्राद्यैर्व्याख्याकारैः पदार्थविवृतिर्या ।
सुकृता साभिमता मे लिखिता च तथायमर्थ इति ॥
सिद्धान्तार्थापसृता क्वचित् क्वचिद् या तु तैः कृता व्याख्या ।
तामुद्धृत्य यथावद् विहितेह मयान्यथा व्याख्या ॥
अभिधर्मविभाषायां कृतश्रमा येऽभिधर्मकोशे च ।
प्रविचार्येतामियं तैर्व्याख्या युक्ता न वा युक्ता ॥
१. नमो रत्नत्रयाय—पाठ० ।
४ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ धातु-
यः सर्वथा सर्वहतान्धकारः
संसारपङ्काज् जगदुज्जहार ।
तस्मै नमस्कृत्य यथार्थशास्त्रे
शास्त्रं प्रवक्ष्याम्यभिधर्मकोशम् ॥ १ ॥
युक्ता चेद् ग्राह्येयम्, न चेदपोह्यान्यथा विधातव्या ।
न हि विषमेऽर्थे स्खलितुं न सम्भवेन्मादृशां बुद्धिः ॥
“यः सर्वथासर्वहतान्धकारः संसारपङ्काज्जगदुज्जहार ।
तस्मै नमस्कृत्य यथार्थशास्त्रे शास्त्रं प्रवक्ष्याम्यभिधर्मकोशम् ॥”
इत्यस्य श्लोकस्यार्थं विवृण्वान आचार्य आह—शास्त्रं प्रणेतुकामः स्वस्य
शास्तुर्माहात्म्यज्ञापनार्थं गुणाख्यानपूर्वकं तस्मै नमस्कारमारभत इति । शास्त्रम् =
अभिधर्मकोशम् । प्रणेतुकामः = कर्तुकामः । स्वस्य शास्तुः = आत्मीयस्य
शास्तुः । स हि भगवानाचार्यस्यात्मीयः शास्ता; तच्छासनप्रतिपन्नत्वात् ।
तेन वा शास्त्रा महाकरुणापरतन्त्रेण सकलो लोकः स्वत्वेन परिगृहीतः,
तस्मादाचार्यस्यापि स्वत्वेन गृहीतस्य स भगवान् स्वः शास्ता भवति ।
माहात्म्यज्ञापनार्थमिति । महात्मत्वं माहात्म्यम्=स्वपरार्थप्रतिपत्तिसम्पत्,
तज्ज्ञापनार्थम् = तदवबोधार्थम् । गुणाख्यानपूर्वकम्=गुणकथनपूर्वकम् । तस्मै
नमस्कारमारभते=तस्मै प्रणामं करोतीत्यर्थः ।
अतीतकालत्वाद् ‘आरब्धवान्’ इति वक्तव्ये वर्तमानकाले पदप्रयोगः,
अद्यापि नमस्कारारम्भाभिप्रायत्, शिष्यपरम्परया वा नमस्कारारम्भाविरा-
मात् । शब्दशास्त्रेऽपीदृश एव शब्दप्रयोगो दृश्यते—“अथ शब्दानुशासनम् ।
‘अथ’ इत्ययं शब्दोऽधिकारायर्थः प्रयुज्यते” ( पा० म० भा० १.१.१. ) इति ।
गुणाख्यानमात्रेण माहात्म्यावबोधः, न नमस्कारेणेति चेत्, न; तस्य
तत्सूचकत्वात् । नमस्कारेण हि माहात्म्यं सूच्यते । अथ वा—गुणाख्यानेनैव
माहात्म्यं ज्ञाप्यते, न नमस्कारेण; नमस्कारारम्भस्तु स्वपुण्यप्रसवार्थम्, सदा-
चारानुवृत्तिप्रदर्शनार्थं वा; ‘कृताभिमतदेवतापूजास्तुतिनमस्कारा हि सन्तः
क्रियामारभन्ते’ इति सतामाचारात् । तत्र माहात्म्यज्ञापनं किमर्थमिति ?
आचक्ष्महे—तद्गौरवोत्पादनार्थम् । गौरवोत्पादनं पुनस्तत्प्रवचनसत्कृत्यश्रव-
णार्थम् । सत्कृत्यश्रवणं क्रमेण श्रुत-चिन्ता-भावनामयप्रज्ञोत्पादनार्थम् ।
तदुत्पादनं क्लेशप्रहाणार्थम् । तत् पुनः सर्वदुःखोपशमलक्षणनिर्वाणप्रापणार्थमिति
प्रयोजननिष्ठा ।
माहात्म्यज्ञापनं त्वेकमाचार्येण प्रयोजनमुक्तम्ः साक्षात् प्रयोजनत्वात् ।
तदितराणि त्वभ्यूहितुं शक्यानीति नोक्तानि ।
निर्देशः ] प्रथमं कोशस्थानम् ५
य इति बुद्धं भगवन्तमधिकृत्याह। हतमस्यान्धकारमनेन वेति हतान्धकारः,
सर्वेण प्रकारेण सर्वस्मिन् हतान्धकारः सर्वथासर्वहतान्धकारः । अज्ञानं हि
य इति बुद्धं भगवन्तमधिकृत्याह इति। सामान्यशब्दोऽपि यच्छब्दो विहित-
विशेषणत्वाद्विशेषवृत्तिर्भवति, तद्यथा—य एषां ब्राह्मणानां गौरः शुक्लवासाः
स देवशर्मेति, तद्वदिहापि “यः सर्वथासर्वहतान्धकारः संसारपङ्काज्जगदुज्जहार,
तस्मै नमस्कृत्य” इति बुद्ध एव भगवति यच्छब्दो वर्तते। न हि बुद्धादन्य एवं-
गुणविशिष्टः संभवतीत्यतो व्याचष्टे—'य इति बुद्धं भगवन्तमधिकृत्याह' इति ।
बुद्ध इति कर्तरि क्तविधानम्। बुद्धेर्विकसनाद् बुद्धः, विबुद्ध इत्यर्थः ।
विबुद्धं पद्ममिति यथा। अथ वा-अविद्या-निद्राद्वयापगमाद् बुद्धः, प्रबुद्ध इत्यर्थः ।
प्रबुद्धपुरुष इति यथा ।
कर्मकर्तरि क्तविधानमित्यपरे। स्वयं बुध्यत इति बुद्ध इत्यर्थः ।
कर्मण्यपि क्तविधानमप्यदोषं पश्यामः । सर्वगुणसम्पत्सम्पन्नतया सर्वदोष-
विनिर्मुक्ततया च बुद्धैरन्यैर्वा बुद्धो ज्ञात इत्यर्थः ।
'भगवन्तम्' इति द्वितीयपदोपादानमनादरसम्भावनानिवृत्त्यर्थम् । निरुप-
पदानामभिधानानां हि लोकेऽनादरो दृश्यते—देवदत्तः, दत्त इति । विनय-
विभाषाकारास्तु चतुष्कोटिकं कुर्वन्ति—१. अस्ति बुद्धो न भगवान्; प्रत्येक-
बुद्धः स्वयम्भूत्वाद् बुद्ध इति शक्यते वक्तुम्, न तु भगवान्, अपरिपूर्णदानादि-
सम्भारत्वात्; यो हि माहात्म्यवान् स भगवानुच्यते। २. अस्ति भगवान्न
बुद्धश्चरमभविको बोधिसत्त्वः; परिपूर्णदानादिपारमितत्वाद्, अनभिसम्बुद्धत्वाच्च,
३. अस्त्युभयथा बुद्धो भगवान्; ४. अस्ति नोभयथा—एतानाकारान् स्थाप-
यित्वेति । अतो बुद्धं भगवन्तमित्युभयविशेषणम् ।
हतमस्यान्धकारमनेन वेति हतान्धकारः । षष्ठीबहुव्रीहौ मार्गेण हतमिति
कर्तृभूतो मार्गोऽध्याहार्यः । तृतीयाबहुव्रीहौ तु मार्गेणेति करणमध्याहार्यम् ।
अपर आह—विग्रहद्वयप्रदर्शनम् “हन हिंसागत्योः” (द्र०-मा० धा० २.२)
इति हन्त्यर्थद्वयपरिग्रहार्थम् । यदा हतमस्यान्धकारमिति विग्रहस्तदा गत्यर्थो
हन्तिर्गृह्यते, गतमस्यान्धकारमित्यर्थः । यदा पुनस्तृतीयाबहुव्रीहिस्तदा
हिंसार्थो हन्तिर्गृह्यते, हिंसितमनेनान्धकारमित्यर्थः । एवमुत्तरयोः पदयोरेक-
पद्यं कृत्वा पश्चात् सप्तमीतत्पुरुषं करोति—सर्वस्मिन् हतान्धकारः सर्वहतान्ध-
कार इति । तथा च सति हतशब्दोऽत्र न पूर्वं निपतति ।
सप्तमीसमासस्त्विह केन लक्षणेन भवतीति चिन्त्यम् । “सप्तमी शौण्डैः”
(पा० सू० २.१.१०) इति समासः । हतान्धकारशब्दः शौण्डादिषु पठ्यते ।
६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ धातु-
भूतार्थदर्शनप्रतिबन्धादन्धकारम्, तच्च भगवतो बुद्धस्य प्रतिपक्षलाभेनात्यन्तं
सर्वथा सर्वत्र ज्ञेये पुनरनुत्पत्तिधर्मत्वादद्धतम् ; अतोऽसौ सर्वथासर्वहतान्धकारः ।
प्रत्येकबुद्धश्रावका अपि कामं सर्वत्र हतान्धकाराः, क्लिष्टसम्मोहात्यन्तविगमात्, न
शौण्डादीनामाकृतीकृतत्वात् तत्रास्यानुप्रवेशोऽवगन्तव्यः । "सप्तमी" इति
योगविभागाद् वा । उत्सर्गेण वा समासः । "सह सुपा" (पा० सू० २.१.४)
इति सुबिति वर्तमाने सुबन्तं सुबन्तेन सह समस्यते यथेष्टमिति । "अकृतलक्षणो
वा तत्पुरुषो मयूरव्यंसकादिषु द्रष्टव्यः" (पा० सू० २.१.७२) इत्यनेन वा ।
कथमुपसर्जनीभूतमन्धकारं सर्वस्मिन्नित्यनेनाभिसम्बध्यते ? सत्यम्; नान्धकार-
मनेनाभिसम्बध्यते, अन्धकारघातस्त्वेनेनाभिसम्बध्यते । येन ह्यन्धकारघातेन
योगाद् भगवान् हतान्धकारः, स तस्यान्धकारघातः सर्वाधारोऽवगन्तव्यः,
यथा—अक्षेषु धूर्त इति, येन धौर्त्यलक्षणेन गुणेन योगादसौ धूर्तः सोऽक्षाधारः;
एवमिहाप्यवगन्तव्यम् ।
अन्यथापि चेह सम्भवन्तं समासं पश्यामः । सर्वस्मिन् हतं सर्वहतुम्,
सर्वेण प्रकारेण सर्वहतं सर्वथासर्वहतम्, सर्वथासर्वहतमन्धकारमनेनेति, अनेन
वेति सर्वथासर्वहतान्धकारः । एवं हतशब्दस्यान्धकारेण सामानाधिकरण्यम्,
न च पूर्वनिपात इति । सर्वेण प्रकारेणेति । क्लिष्टाक्लिष्टान्धकारविगमतः ।
सर्वस्मिन् ज्ञेये द्वादशायतनलक्षणे । "सर्वं सर्वमिति ब्राह्मण यावदेव द्वादशा-
यतनानि" ( ) इति सूत्रे वचनात् ।
किमत्र शार्वरं तमोऽन्धकारशब्देनोच्यते ? नेत्याह—अज्ञानं हि भूतार्थ-
दर्शनप्रतिबन्धादन्धकारम् इत्यवगन्तव्यम् । अन्धकारशब्दो हि नैशे तमसि
प्रसिद्धः । अन्धमिव जनं करोतीत्यन्धकारः; सद्भूतार्थावभासनप्रति-
बन्धात् तत्साधर्म्यादज्ञानमप्यन्धकाराख्यां लभते; भूतार्थद्योत्यादिसत्यदर्शनप्रति-
बन्धात् । तच्च इति तदज्ञानम् । प्रतिपक्षलाभेनेत्यार्यमार्गालाभेन । विपक्षः=
क्लेशः, विपक्षप्रतिघाताय पक्षः प्रतिपक्ष इति कृत्वा । अथ वा—ज्ञानमना-
स्रवमज्ञानप्रतिपक्षः, तस्य लाभेन । अत्यन्तं सर्वथा । सर्वत्र ज्ञेये पुनरनुत्पत्ति-
धर्मत्वादद्धतम्, असमुदाचारप्रहाणीकृतमित्यर्थः । अतोऽसौ इति, भगवान् । प्रत्येक-
बुद्धश्रावका अपि । अभ्यर्हितत्वात् प्रत्येकबुद्धशब्दः पूर्वनिपातः । कामम् इत्यनु-
ज्ञायाम् । न तु सर्वथा इति अक्लिष्टसम्मोहानत्यन्तविगमात् ।
ननु च सर्वं सास्रववस्तु श्रावकप्रत्येकबुद्धानामपि बुद्धवत् प्रहीणम्, किमिद-
मुच्यते— तेषामत्यन्तविगम इति, तथा ह्युक्तम्—"नाहमेकधर्म-
मप्यनभिज्ञायापरिज्ञाय दुःखस्यान्तक्रियां वदामि" ( ) इति तथा
निर्देशः ] प्रथमं कोशस्थानम् ७
तु सर्वथा; तथा हि एषां बुद्धधर्मेष्वतिविप्रकृष्टदेशकालेषु चार्थेषु १ अनन्तप्रभेदेषु
च १ भवत्येवाक्लिष्टमज्ञानम् ।
“नाहमेकधर्ममप्यपरिज्ञायाप्रहाय दुःखस्यान्तक्रियां वदामि” (
इति, तस्माच्छ्रावकप्रत्येकबुद्धानामपि तदक्लिष्टमज्ञानं चक्षुरादिवच्छन्दराग-
प्रहाणात् प्रहीणमेव, अन्यथा हि श्रावकप्रत्येकबुद्धानां दुःखान्तक्रिया न भवेत् ?
सत्यम्; अस्त्येतदेवम्, प्रहीणमेव तेषां क्लिष्टवदक्लिष्टमप्यज्ञानम् । तत्तु तेषां
चक्षुरादिवत् प्रहीणमपि समुदाचरति । बुद्धस्य तु प्रहीणं सन्न समुदाचरति ।
अत एव च विशेषितम्—‘पुनरनुत्पत्तिधर्मत्वादुद्धतम्’ इति । अन्यथा ‘तत् सर्वथा
सर्वत्र ज्ञेये प्रहीणम्’ इत्येवावक्ष्यत् ।
ये तु व्याचक्षते—‘श्रावकप्रत्येकबुद्धानां क्लिष्टसम्मोहमात्रविगमात् संक्लेश-
विनिवृत्तिः’ इति, तदपव्याख्यानमेषां यथोक्तमिति प्रत्याचक्ष्यते ।
तथा ह्येषामिति २ विस्तरः—तथा हीति, यस्मादित्यर्थः । अथ वा—तथेति
यथा न सर्वथा तथेति । हिशब्दो हेतौ । एषामिति श्रावकप्रत्येकबुद्धानाम् ।
बुद्धधर्मेषु आवेणिकादिषु । अतिविप्रकृष्टदेशकालेषु चार्थेषु । अतिविप्रकृष्टदेशेषु,
अतिविप्रकृष्टकालेषु च । अनन्तप्रभेदेषु च अबुद्धधर्मस्वभावेष्वपि रूपादिष्वर्थेषु ।
भवत्येवाक्लिष्टमज्ञानम् । समुदाचरत्येव तदित्यर्थः । तत्र ये बुद्धधर्मा आवेणि-
कादयस्तेषु स्वभावपरमसूक्ष्मगम्भीरत्वाद् बुद्धादन्येषामज्ञानम् । यथोक्तम्—
“जानीषे त्वं शारिपुत्र, तथागतस्य शीलस्कन्धं समाधिस्कन्धं प्रज्ञास्कन्धं विमुक्ति-
ज्ञानदर्शनस्कन्धम् ?” इति भगवता पृष्टेन स्थविरशारद्वतीपुत्रेणोक्तम्—“नो हीदं
भगवन्” ( •) इति । ये त्वन्येऽर्था रूपिणः परमाणुसञ्चितास्तेऽतिविप्र-
कृष्टदेशा यदि भवन्ति, येऽप्यविज्ञप्तिरूपिणस्तेऽपि यद्यतिविप्रकृष्टदेशाधारत्वादति-
विप्रकृष्टदेशा भवन्ति, तेष्वपि तेषामज्ञानम्; अनेकलोकधात्वन्तरितदेशत्वात् ।
श्रूयते हि स्थविरमौद्गल्यायनस्यातिविप्रकृष्टदेशमरीचिलोकधातुजातस्वमातृदेशा-
परिज्ञानम् । अतिविप्रकृष्टकालेष्वप्यतीतेष्वनागतेषु वा तेष्वर्थेष्वतिबहुकल्पान्त-
रान्तरितविनाशप्रादुर्भावत्वात् तेषां भवत्येवाज्ञानम् । श्रूयते हि स्थविरशारिपुत्रेण
मोक्षभागीयकुशलमूलादर्शनात् प्रव्रज्यापेक्ष्यपुरुषप्रत्याख्यानम् । भगवता तु
तस्य मोक्षभागीयं दृष्टम् । उक्तं च—
“मोक्षबीजमहं ह्यस्य सुसूक्ष्ममुपलक्षये ।
धातुपाषाणविवरे निलीनमिव काञ्चनम्” ॥ ( ) इति ।
१-१. अर्थेषु चानन्तप्रभेदेषु—का० ।
२. इतिशब्दोऽत्र ‘इत्यस्य प्रकरणस्य’ इत्यर्थे ज्ञेयः ; एवमुपर्यपि एतादृक्षु स्थलेषु ।
· ८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ धातु-
इत्यात्महितप्रतिपत्तिसम्पदा संस्तुत्य पुनस्तमेव भगवन्तं परहितप्रतिपत्ति-
सम्पदा संस्तौति—संसारपङ्काज्जगदुज्जहारेति । संसारो हि जगदासङ्ग-
स्थानत्वाद् दुरुत्तरत्वाच्च पङ्कभूतः, तत्रावमग्नं जगदत्राणमनुकम्पमानो भगवान्
सद्धर्मदेशनाहस्तप्रदानैर्यथाभव्यमभ्युद्धृतवान् इति य एवमात्मपरहितप्रतिपत्तिसम्पदा
स च पुरुषः प्रत्राजित इति ! 'अनन्तप्रभेदेषु' इति, धातुगतियोन्युपपत्त्यादि-
प्रभेदेन दुर्बोधेष्वर्थेषु, तेषामज्ञानं भवत्येव ! तथा ह्याह—
'सर्वकारं कारणमेकस्य मयूरचन्द्रकस्यापि ।
नासर्वज्ञेयं ज्ञेयं सर्वज्ञज्ञानबलं हि तज्ज्ञानम्' ॥ ( ) इति ।
तान्येतानि चत्वार्यज्ञानकारणानि भवन्ति । तेषां क्वचिदेकम्, क्वचिद् द्वे,
क्वचित् त्रीणि, क्वांचेच्चत्वारीति सम्भवतो योज्यानि ।
इत्यात्महितप्रतिपत्तिसम्पद् इति विस्तरः—आत्महिताय प्रतिपत्तिरात्म-
प्रतिपत्तिः, आत्महितप्रतिपत्तेः सम्पदामहितप्रतिपत्तिसम्पत्, फलनिष्पत्ति-
रित्यर्थः । सा चेयं सम्पद् ज्ञानप्रहाणसम्पत्स्वभावा वेदितव्या । परहितप्रति-
पत्तिसम्पद् अपि तयैव वचनीया ।
अपरे व्याचक्षते—आत्महितप्रतिपत्तिः=आत्महितप्रतिपादनम्, आत्माहंतो-
पग्रह इत्यर्थः, तस्याः सम्पद् आत्महितप्रतिपत्तिसम्पत् । एवं परहितप्रतिपत्ति-
सम्पपि व्याख्येया ।
सा पुनः सर्वदुःखोपशमनिर्वाणपरिप्रापणस्वभावा; “संसारपङ्काज्जगदुज्ज-
हार” इति वचनात् । संसरणं संसारः = आजवञ्जीवीभावः, जन्ममरणपरम्परे-
त्यर्थः । अथ वा—संसरन्त्यस्मिन् सत्त्वा इति संसारः=त्रैधातुकम् । संसारः पङ्क
इव संसारपङ्कः, पङ्कसाधर्म्यात् । अत आह—संसारो हि जगदासङ्गस्थान-
त्वाद् दुरुत्तरत्वाच्च पङ्कभूत इति । पङ्को हि लोकेऽवसादात्मकत्वादासङ्गस्य
स्थानम्, अत एव च दुरुत्तरः । चञ्चलत्वाद् वा पराश्रयोत्तरणीयत्वाद् वा
दुस्तरः । संसारोऽपि हि तृष्णाभिष्यन्दितत्वादासङ्गस्थानम्, दुरुत्तरश्च दृष्टिवि-
चिकित्साविष्यन्दितेन । बुद्धापाश्रयोत्तरणीयत्वेन वा दुरुत्तरः । तत्रावमग्नं तादा-
त्म्यानुप्रवेशतः, समुदायावयवरूपतो वा । जगत् सत्त्वलोकः । अत्राणम् अना-
क्रन्दम् । अनुकम्पमानः करुणायमानो भगवान् । सद्धर्मदेशनाहस्तप्रदानैः । सद्धर्म
देशनेव हस्ताः, तेषां प्रदानानि, उत्तारणीयबहुत्वाद् बहुवचनम्, तैः । यथा-
भव्यमभ्युद्धृतवान् । यथाभव्यमित्यनुच्यमानमपि गम्यते; लोके तथा दृष्टत्वात् ।
तद्यथा—'ब्राह्मणानानीय भोजयामास' इत्युक्ते, ये तत्र भोजयितुं शक्ता ग्रामे
नगरे वा सन्निहितास्तानेव भोजयामासेति गम्यते; सर्वलोकब्राह्मणानां भोज-
निर्देशः ] प्रथमं कोशस्थानम् ९
युक्तस्तस्मै नमस्कृत्येति शिरसा प्रणिपत्य । यथार्थम् = अविपरीतं शास्तीति
यितुमशक्यत्वात् । एवमिहापि यो जनो भव्योऽभ्युद्धर्तुम्, तमेवाभ्युदधृतवा-
निति । अतो यथाभव्यमिति व्याचष्टे ।
“तस्मै नमस्कृत्य” इति शिरसा प्रणिपत्य । क्रियास्पदीभूतत्वान्नमहशब्दस्य
प्रणिपत्यार्थो नमस्कृत्यशब्दो भवति । प्रणिपातश्च लोके शिरसा प्रतीत इति
‘शिरसा’ इत्याह । वाङ्मनोनमस्कारोऽप्यत्रानुक्तसिद्धो गुणव्याख्यानपूर्वकत्वान्मन्-
स्कर्मपूर्वकत्वाच्च कायकर्मणः ।
‘तस्मै’ इति किल्लक्षणेयं चतुर्थी ? अत्र बहवो व्याख्यानकारा मुह्यन्ति ।
आचार्यगुणमतिः, तच्छिष्यश्चाचार्यवसुमित्र आहतुः—“नमःशब्दयोगे
चतुर्थी—‘नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च’” ( पा० सू० २.३.१६ ) इति,
तदेतदयुक्तम्; स्वतन्त्रस्य नमःशब्दस्य योगे सा चतुर्थी भवति, अस्वतन्त्रश्चायं
नमःशब्दः; क्रियास्पदीभूतत्वात् । अत एव चानेनैवाचार्येण व्याख्यायुक्तौ
“नमस्कृत्य मुनिं मूर्ध्ना” इति कर्मलक्षणा द्वितीया प्रयुक्ता । तस्मान्न नमः-
शब्दयोगे चतुर्थीति ।
द्वितीयायाः स्थाने चतुर्थी प्रयुक्तेत्यपरे; तदिदमेषामिच्छामात्रम्, न हि
लक्षणमस्यास्तीति ।
केन तर्हीयं चतुर्थी ? सम्प्रदानलक्षणेयं चतुर्थीति व्याचक्ष्महे । कथं
सम्प्रदानसंज्ञा ? “कर्मणा यमभिप्रैति स सम्प्रदानम्” ( पा० सू० १.४.३२ )
इति चूर्णिकारेण कर्मशब्द उभयथा वर्ण्यते—पारिभाषिकं कर्म, लौकिकं
चेति । तत्र यदा “कर्तुरीप्सिततमं कर्म” ( पा० सू० १.४.४९ ) इति
पारिभाषिकं कर्माश्रीयते, तदा कर्तुरीप्सिततमेन यमभिप्रैति स सम्प्रदानसंज्ञो
भवति—ब्राह्मणाय गां प्रयच्छतीत्येतत् सिद्धं भवति । यदा तु कर्म क्रियेति
लौकिकं कर्माश्रीयते, तदा क्रियया यमभिप्रैति स सम्प्रदानसंज्ञो भवतीति,
तदेतत् सिद्धं भवति—युद्धाय संनह्यति, पत्ये शेत इति । संनहनक्रियया
युद्धमभिप्रैति कर्ता, शयनक्रियया पतिमिति युद्धादीनां सम्प्रदानसंज्ञा सिद्धा
भवति । तथेहापि नमस्कारक्रियया शास्तारमभिप्रैत्याचार्यः, तस्माच्छास्तारि
सम्प्रदानसंज्ञा । सम्प्रदानसंज्ञायां सत्यां “सम्प्रदाने चतुर्थी” (पा० सू० २.३.१३)
इति चतुर्थी भवति । एवं च कृत्वा—
“पूर्वं प्रणम्य वदतां प्रवराय शास्त्रे” ( )
“प्रमाणभूताय जगद्धितैषिणे
प्रणम्य शास्त्रे सुगताय तायिने” ( प्र० समु० १.१. )
· ८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ धातु-
इत्यात्महितप्रतिपत्तिसम्पदा संस्तुत्य पुनस्तमेव भगवन्तं परहितप्रतिपत्ति-
सम्पदा संस्तौति—संसारपङ्काज्जगदुज्जहारेति । संसारो हि जगदासङ्ग-
स्थानत्वाद् दुरुत्तरत्वाच्च पङ्कभूतः, तत्रावमग्नं जगदत्राणमनुकम्पमानो भगवान्
सद्धर्मदेशनाहस्तप्रदानैर्यथाभव्यमभ्युद्धृतवान् इति य एवमात्मपरहितप्रतिपत्तिसम्पदा
स च पुरुषः प्रत्राजित इति ! ‘अनन्तभेदेषु’ इति, ऋतुगतियोन्युपपत्त्यादि-
प्रभेदेन दुर्बोधेष्वर्थेषु, तेषामज्ञानं भवत्येव ! तथा ह्याह—
“सर्वकारं कारणमेकस्य मयूरचन्द्रकस्यापि ।
नासर्वज्ञैर्ज्ञेयं सर्वज्ञानबलं हि तज्ज्ञानम्” ॥ ( ) इति ।
तान्येतानि चत्वार्यज्ञानकारणानि भवन्ति । तेषां क्वचिदेकम्, क्वचिद् द्वे,
क्वचित् त्रीणि, क्वाचेच्चत्वारीति सम्भवतो योज्यानि ।
इत्यात्महितप्रतिपत्तिसम्पद् इति विस्तरः—आत्महिताय प्रतिपत्तिरात्म-
प्रतिपत्तिः, आत्महितप्रतिपत्तेः सम्पदामहितप्रतिपत्तिसम्पत्, फलनिष्पत्ति-
रित्यर्थः । सा चेयं सम्पद् ज्ञानप्रहाणसम्पत्स्वभावा वेदितव्या । परहितप्रति-
पत्तिसम्पद् अपि तथैव वचनीया ।
अपरे व्याचक्षते—आत्महितप्रतिपत्तिः=आत्महितप्रतिपादनम्, आत्महितो-
पग्रह इत्यर्थः, तस्याः सम्पद् आत्महितप्रतिपत्तिसम्पत् । एवं परहितप्रतिपत्ति-
सम्पदपि व्याख्येया ।
सा पुनः सर्वदुःखोपशमनिर्वाणपरिप्रापणस्वभावा; “संसारपङ्काज्जगदुज्ज-
हार” इति वचनात् । संसरणं संसारः = आजवञ्जीभावः, जन्ममरणपरम्परे-
त्यर्थः । अथ वा—संसरन्त्यस्मिन् सत्त्वा इति संसारः=त्रैधातुकम् । संसारः पङ्क
इव संसारपङ्कः; पङ्कसाधर्म्यात् । अत आह—संसारो हि जगदासङ्गस्थान-
त्वाद् दुरुत्तरत्वाच्च पङ्कभूत इति । पङ्को हि लोकेऽवसादात्मकत्वादासङ्गस्य
स्थानम्, अत एव च दुरुत्तरः । चञ्चलत्वाद् वा पराश्रयोत्तरणीयत्वाद् वा
दुरुत्तरः । संसारोऽपि हि तृष्णाभिष्यन्दितत्वादासङ्गस्थानम्, दुरुत्तरश्च दृष्टिवि-
चिकित्साविषन्दितेन । बुद्धापाश्रयोत्तरणीयत्वेन वा दुरुत्तरः । तत्रावमग्नं तादा-
त्म्यानुप्रवेशतः, समुदायावयवरूपतो वा । जगत् सत्त्वलोकः । अत्राणम् अना-
क्रन्दम् । अनुकम्पमानः करुणायमानो भगवान् । सद्धर्मदेशनाहस्तप्रदानैः । सद्धर्म
देशनेव हस्ताः, तेषां प्रदानानि, उत्तारणीयबहुत्वाद् बहुवचनम्, तैः । यथा-
भव्यमभ्युद्धृतवान् । यथाभव्यमित्यनुच्यमानमपि गम्यते; लोके तथा दृष्टत्वात् ।
तद्यथा—‘ब्राह्मणानानीय भोजयामास’ इत्युक्ते, ये तत्र भोजयितुं शक्ता ग्रामे
नगरे वा सन्निहितास्तानेव भोजयामासेति गम्यते; सर्वलोकब्राह्मणानां भोज-
निर्देशः ] प्रथमं कोशस्थानम् ९
युक्तस्तस्मै नमस्कृत्येति शिरसा प्रणिपत्य । यथार्थम् = अविपरीतं शास्तीति
यितुमशक्यत्वात् । एवमिहापि यो जनो भव्योऽभ्युद्धर्तुम्, तमेवाभ्युद्धृतवा-
निति । अतो यथाभव्यमिति व्याचष्टे ।
“तस्मै नमस्कृत्य” इति शिरसा प्रणिपत्य । क्रियास्पदीभूतत्वान्न नमःशब्दस्य
प्रणिपत्यार्थो नमस्कृत्यशब्दो भवति । प्रणिपातश्च लोके शिरसा प्रतीत इति
'शिरसा' इत्याह । वाङ्मनोनमस्कारोऽप्यत्रानुक्तसिद्धो गुणाख्यानपूर्वकत्वान्मन-
स्कर्मपूर्वकत्वाच्च कायकर्मणः ।
'तस्मै' इति किंलक्षणेयं चतुर्थी ? अत्र बहवो व्याख्यानकारा मुह्यन्ति ।
आचार्यगुणमति , तच्छिष्यश्चाचार्यवसुमित्र आहतुः—“नमःशब्दयोगे
चतुर्थी—'नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च" ( पा० सू० २.३.१६ ) इति,
तदेतदयुक्तम्; स्वतन्त्रस्य नमःशब्दस्य योगे सा चतुर्थी भवति, अस्वतन्त्रश्चायं
नमःशब्दः; क्रियास्पदीभूतत्वात् । अत एव चानेनैवाचार्येण व्याख्यायुक्तौ
“नमस्कृत्य मुनिं मूर्ध्ना" इति कर्मलक्षणा द्वितीया प्रयुक्ता । तस्मान्न नमः-
शब्दयोगे चतुर्थीति ।
द्वितीयायाः स्थाने चतुर्थी प्रयुक्तेत्यपरे; तदिदमेषामिच्छामात्रम्, न हि
लक्षणमस्यास्तीति ।
केन तहींयं चतुर्थी ? सम्प्रदानलक्षणेयं चतुर्थीति व्याचक्ष्महे । कथं
सम्प्रदानसंज्ञा ? “कर्मणा यमभिप्रैति स सम्प्रदानम्" ( पा० सू० १.४.३२ )
इति चूर्णिकारेण कर्मशब्द उभयथा वर्ण्यते—पारिभाषिकं कर्म, लौकिकं
चेति । तत्र यदा “कर्त्तुरीप्सिततमं कर्म" ( पा० सू० १.४.४९ ) इति
पारिभाषिकं कर्माश्रीयते, तदा कर्तुरीप्सिततमेन यमभिप्रैति स सम्प्रदानसंज्ञो
भवति—ब्राह्मणाय गां प्रयच्छतीत्येतत् सिद्धं भवति । यदा तु कर्म क्रियेति
लौकिकं कर्माश्रीयते, तदा क्रियया यमभिप्रैति स सम्प्रदानसंज्ञो भवतीति,
तदेतत् सिद्धं भवति—युद्धाय संनह्यति, पत्ये शेत इति । संनहनक्रियया
युद्धमभिप्रैति कर्ता, शयनक्रियया पतिमिति युद्धादीनां सम्प्रदानसंज्ञा सिद्धा
भवति । तथेहापि नमस्कारक्रियया शास्तारमभिप्रैत्याचार्यः, तस्माच्छास्तरि
सम्प्रदानसंज्ञा । सम्प्रदानसंज्ञायां सत्यां “सम्प्रदाने चतुर्थी" (पा० सू० २.३.१३)
इति चतुर्थी भवति । एवं च कृत्वा—
“पूर्वं प्रणम्य वदतां प्रवराय शास्त्रे" ( )
“प्रमाणभूताय जगद्धितैषिणे
प्रणम्य शास्त्वे सुगताय तायिने" ( प्र० समु० १.१. )
१० भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ धातु-
यथार्थशास्ता । अनेन परहितप्रतिपत्त्युपायमस्याविष्करोति । यथाभूतशासना-
च्छास्ता भवन्सौ संसारपङ्काज्जगदुज्जहार, न त्वृद्धिवरप्रदानप्रभावेनेति ।
तस्मै नमस्कृत्य किं करिष्यति १ ? इत्याह—शास्त्रं प्रवक्ष्यामि । शिष्य-
शासनाच्छास्त्रम् ।
इत्येवमादीनि काव्यशास्त्रान्तरोक्तानि शब्दरूपाणि सुनीतानि भवन्ति ।
यदि र्तार्ह सम्प्रदानसंज्ञेवेष्यते, 'नमस्कृत्य मुनिं मूर्ध्ना' इत्यत्र द्वितीया न
प्राप्नोति ? नैष दोषः; विवक्षातः कारकाणि भवन्ति । यदा कर्मविवक्षा तदा
द्वितीया, यदा सम्प्रदानविवक्षा तदा चतुर्थी—इत्युभयमपि सिद्धं भवति ।
“यथार्थशास्ते” इति शास्त्यौणादिकः शब्दः “तृन्तृचौ शंसिक्षदादिभ्यः
संज्ञायां चानिटौ” (उ० २.९३) इति तृन्प्रत्ययान्तोऽनिट् शास्तेति भवति ।
ननु च संज्ञायां शास्तेति भवति, न चेयं संज्ञा ? संज्ञैवेयम् । द्विविधा हि
संज्ञा—विशेषसंज्ञा, सामान्यसंज्ञा च । विशेषसंज्ञा—देवदत्तः, यज्ञदत्त इति ।
सामान्यसंज्ञा—माता, पितेत्येवमादिका । मात्रादयोऽपि हि तत्र संज्ञायामेव
निपात्यन्ते—"नप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृभ्रातृजामातृमातृपितृदुहितृ” (उ० २.९४)
इति । तेन यथा सर्वासां मातृणामियं संज्ञा मातेति, सर्वेषां च पितॄणां पितेति,
एवं सर्वेषां च शास्तॄणामियं संज्ञा—शास्तेति । स तु शास्ता द्विविधो भवति—
अयथार्थः, यथार्थश्च । अयथार्थश्च पूरणादिः, यथार्थश्च तथागत इति । अतो
विशिनष्टि—यथार्थमविपरीतं शास्तीति यथार्थशास्ता । एतच्च विशेषणं परहित-
प्रतिपत्त्युपायसूचनार्थम् । अत एवाह-
वमादि । न त्वृद्धिवरप्रदानप्रभावेण इति । प्रभावशब्दः प्रत्येकमभिसम्बध्यते—
ऋद्धिप्रभावेण, वरप्रदानप्रभावेनेति । ऋद्धिप्रभावस्तद्यथा—विष्णोर्विश्वरूप-
सन्दर्शनम् । वरप्रदानप्रभावस्तद्यथा—महेश्वरो वरं प्रयच्छतीति प्रवादः ।
अथ वा त्रिपदो द्वन्द्वः—ऋद्धिश्च वरप्रदानं च प्रभावश्चेति । प्रभावः=शक्ति-
विशेषः । ननु च बुद्धा अपि कदाचिद् ऋद्धिप्रातिहार्यं विनेयानामुपदर्शयन्ति ?
अस्त्येतदेवम्, अपि त्वावर्जनमात्रं तु तेषाम् । अनुशासनीप्रातिहार्येण तु रागादि-
प्रतिपक्षभावनाक्रमेण संसारोत्तरणं भवति ।
किं करिष्यतीति प्रश्नः । नमस्कृत्येति क्त्वाविधेः क्रियान्तरापेक्षत्वात् ।
समानकर्तृकयोर्हि पूर्वकाले क्त्वाविधिर्भवति २ ।
“शास्त्रं प्रवक्ष्यामि” इति । अर्थविशेषाभिद्योतको नामसमूहः=शास्त्रम् ।
१. करिष्यामि—का० । २. द्र०—पा० सू० ७.१.३७ ।
निर्देशः ] प्रथमं कोशस्थानम् ११
किं१ शास्त्रम् ? इत्याह—अभिधर्मकोशम् ॥ १ ॥
कोऽयमभिधर्मो नाम ?
प्रज्ञाऽमला सानुचराऽभिधर्मः
तत्र प्रज्ञा धर्मप्रविचयः । अमलेति अनास्रवा । सानुचरेति सपरिवारा ।
एवमनास्रवः पञ्चस्कन्धकोऽभिधर्म इत्युक्तं भवति । एष तावत् पारमार्थिको-
ऽभिधर्मः ।
साङ्केतिकस्तु—
क्षणिकत्वात् समूहानुपपत्तिरिति चेत्, न; तद्ग्राहकबुद्धिरूपसमूहकल्पनात् ।
शिष्यशासनाच्छास्त्रम् इति । किं शास्त्रम् इति । किं नामधेयमित्यभिप्रायः ।
अभिधर्मकोशम् इति । अस्य निर्वचनं वक्ष्यते । आस्तां तावदेतत् ॥ १ ॥
अवयवार्थविबोधपूर्वकः समुदायार्थावबोध इत्यवयवार्थं तावत् पृच्छति—
कोऽयमभिधर्मो नाम इति ?
“प्रज्ञामला सानुचराभिधर्मः” इति । धर्मप्रविचयकाले प्रज्ञा प्रधानमिति
मुख्यवृत्त्या प्रज्ञाग्रहणम् । अमलेत्यनास्रवा; मलानामास्रवपर्यायत्वात् ।
सानुचरेति सपरिवारा । राज्ञा समं चरन्नपि भृत्यो राजानुचर इत्युच्यते,
तदनुवृत्तिकारित्वात्; तथेहापि समकालं चरन्तोऽपि तत्सहभुवो धर्मा अनुचरा
एवोच्यन्ते । के पुनस्ते ? चित्तचैत्ता अनास्रवसंवरा जात्यादयश्च चित्तविप्रयुक्ता
इति । ननु च चित्तं चैत्तेभ्यः प्रधानम्, तथा हि—चित्तस्येमे चित्ते वा
भवाश्चैत्ता इति, तेन प्रज्ञैव चित्तस्य परिवारोऽर्हति, न तु चित्तं प्रज्ञायाः,
चैतसिकत्वात् ? अस्त्येतत्; अपि तु धर्मप्रविचयकाले प्रज्ञा चैत्तस्यापि सर्वस्य
कलापस्य राजायते । क्वचित् कश्चिद् धर्मः प्राधान्यमास्कन्दति, तद्यथा—अभि-
सम्प्रत्ययकाले श्रद्धेत्येवमादि ।
अनास्रवः पञ्चस्कन्धक इति । अनास्रवसंवरस्तस्मिन् कलापे रूपस्कन्धः,
या वेदना स वेदनास्कन्धः, या संज्ञा स संज्ञास्कन्धः, चेतनादिजात्यादयः
संस्कारस्कन्धः, विज्ञानं चात्र विज्ञानस्कन्धः ।
एष तावत् इति । तावच्छब्दः क्रमार्थः । पारमार्थिक इति । परमार्थ एव
पारमार्थिकः । परमार्थे वा भवः पारमार्थिकः । परमार्थेन वा दीव्यति चरतीति
वा पारमार्थिकः । साङ्केतिकस्तु सांव्यवहारिकः ।
१. कतमत्—का० ।
१२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ धातु-
तत्प्राप्तये यापि च यच्च शास्त्रम् ।
यापि च श्रुत-चिन्ता-भावनामयी सास्रवा प्रज्ञा, उपपत्तिप्रतिलम्भिका
च सानुचरा। यच्च शास्त्रम् अस्याः प्राप्त्यर्थमनास्रवायाः प्रज्ञायाः, तदपि
तत्सम्भारभावाद् 'अभिधर्मः' इत्युच्यते । निर्वचनं तु—स्वलक्षणधारणाद् धर्मः ।
तदयं परमार्थधर्मं वा निर्वाणं धर्मलक्षणं वा प्रत्यभिमुखो धर्म इत्यभिधर्मः ।
उक्तो' ह्यभिधर्मः' ॥
“तत्प्राप्तये यापि च” इति। प्रज्ञा सानुचरा सोऽभिधर्म इति चात्राधिकृतम् ।
तस्या अनास्रवायाः प्रज्ञायाः प्राप्त्यर्थं साक्षात् पारम्पर्येण वा या श्रुतमयी
चिन्तामयी च भावनामयी च प्रज्ञा सास्रवा, या चोपपत्तिप्रतिलम्भिका सानुचरा
सापि सांकेतिकोऽभिधर्मः । तत्र श्रुतप्रयोगजा
निर्देशः ] प्रथमं कोशस्थानम् १३
इदं तु शास्त्रं कथमभिधर्मकोशम् ?
तस्यार्थतोऽस्मिन् समनुप्रवेशात्
स चाश्रयोऽस्येत्यभिधर्मकोशम् ॥ २ ॥
स हि शास्त्रसंज्ञकोऽभिधर्म एतस्मिन्नर्थतो यथाप्रधानमन्तर्भूत इत्येत-
च्छास्त्रं तस्य कोशस्थानीयं भवति ।
अथवा—सोऽभिधर्म एतस्याश्रयभूतः शास्त्रस्य, ततो ह्येतन्निराकृष्टम्,
अतः स एवास्याभिधर्मः कोश इत्येतच्छास्त्रमभिधर्मकोशम् ॥ २ ॥
प्रादयः' ( पा० सू० २. २. १८ ) इति तत्पुरुषसमासः । ननु च “लक्षणेनाभिप्रती
आभिमुख्ये” ( पा० सू० २.१.१४ ) इत्यव्ययीभावः प्राप्नोति ? यदा ह्यभि-
लक्षणेन सह समस्यते तदाव्ययीभावः, तद्यथा—अभ्यग्नि शलभाः पतन्ति,
शलभपतनमग्निना लक्ष्यते, सोऽग्निरस्य लक्षणम् । न त्वयं धर्मोऽन्यस्य
लक्षणम्, किं तर्हि ? लक्ष्यः; स्वयमेवाभिमुख्यात् । शास्त्रार्थोऽपि सांकेतिको-
ऽभिधर्मः प्रापणाय अभिद्योतनाय वा निर्वाणं धर्मलक्षणं वा प्रत्युपनिप-
द्भावेनाभिमुखः, किमङ्ग पारमार्थिक इति ! ----------------न्तेनाभिधर्म इति
सिद्धं भवति ।
उक्तो ह्यभिधर्म इति । स्वभावप्रभेदनिर्वचनतोऽवयवार्थोऽवबुद्धः । समु-
दायार्थस्तु न तावदित्यतः समुदायार्थं पृच्छति—इदं तु शास्त्रं कथमभिधर्म-
कोशम् इति ।
“तस्यार्थतोऽस्मिन्” इति । तस्याभिधर्मसंज्ञकस्य शास्त्रस्यानन्तरोक्तत्वाद्
ग्रहणम् । अर्थत इति । न व्यञ्जनत इति । अर्थतोऽयमनुप्रवेशो न साकल्येन,
तस्माद् । यथाप्रधानमित्यव्ययीभावः । अन्तर्भूतः प्रविष्टः । इति एतच्छास्त्रं मदीयं
तस्य अर्थस्य कोशस्थानीयं भवति कोशसदृशम् । एतस्मिन्नर्थे षष्ठीतत्पुरुष-
समासः—अभिधर्मस्य कोशोऽभिधर्मकोश इति । यत्र ह्यसिः प्रविशति स
तस्य कोशः ।
अथवा—सः अभिधर्मो ज्ञानप्रस्थानादिरेतस्य मदीयस्य शास्त्रस्य आश्रय-
भूतः । ततो ह्यार्षादभिधर्मादेतन्मदीयं शास्त्रं निराकृष्टम् । अर्थत इत्यधिकृतम् ।
अतः स एवास्य अभिधर्मः कोश इत्येतस्मिन्नर्थे बहुव्रीहिसमासः—अभिधर्मः
कोशोऽस्येत्यभिधर्मकोशम् । यतो ह्यसिर्निराकृष्यते स तस्य कोश इति
एतच्छास्त्रमभिधर्मकोशमिति । समुदायार्थोऽप्यस्यावगमित इति सूचयति ॥ २ ॥
१४ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ धातु-
किमर्थं पुनरभिधर्मोपदेशः, केन चायं प्रथमत उपदिष्टो यत आचार्यों-
ऽभिधर्मकोशं वक्तुमाद्रियत इति ? आह—
धर्माणां प्रविचयमन्तरेण नास्ति
क्लेशानां यत उपशान्तयेऽभ्युपायः ।
क्लेशैश्च भ्रमति भवार्णवेऽत्र लोक-
स्तद्धेतोरत उदितः किलैष शास्त्रा ॥ ३ ॥
किमर्थं पुनरभिधर्मोपदेशः । किं प्रयोजनमित्यर्थः । सप्रयोजनस्य हि
शास्त्रस्य प्रयासः साधुर्भवति, न निष्प्रयोजनस्य । केन चायं प्रथमत उपदिष्टः ।
केन चायमभिधर्म आदितो देशितः । आप्तोपदिष्टस्य हि शास्त्रस्य प्रयासोऽनु-
रूपः स्यादित्यभिप्रायः । ‘प्रथमतः’ इति विशेषणम् । भदन्तकात्यायनीपुत्रादीनां
पिण्डीकरणेन पश्चादुपदेशस्य सिद्धत्वात् । प्रथमत उपदेशे हि विवादः । यत इति
विस्तरः—यतः कारणात्, आचार्यः शास्त्रकारः, अभिधर्मकोशं प्रयासशास्त्रम्,
वक्तुं प्रणेतुम्, आद्रियते आदरं करोतीत्यर्थः ।
एवं कृते प्रश्नद्वयेऽभिधर्मशास्त्रस्य सप्रयोजनताम्, आप्तोपदेशतां च प्रदर्श-
यन्नाह—
“धर्माणां प्रविचयम्” इति । विस्तरः—यतो विना धर्मप्रविचयेन । ‘रूपं
वेदनानित्यं दुःखम्’ इत्येवमाकारेण । नास्ति क्लेशोपशमाभ्युपायः । अन्य इति
वाक्यशेषः । स एव तु क्लेशोपशमाभ्युपाय इत्यर्थादापन्नं भवति । तद्यथा—
‘नाहारेण विना प्राणसन्धारणोपायः’ इत्युक्ते ‘स एवाहारः प्राणसन्धारणोपायः’
इत्यर्थादापन्नं भवति, तद्वदेतत् ।
यदि क्लेशोपशमो न स्यात्, किं स्याद् ? इत्यत आह—“क्लेशैश्च भ्रमति
भवार्णवेऽत्र लोकः”इति । अनेन क्लेशोपशमस्यावश्यकर्तव्यतां दर्शयति । भवः =
संसार इत्येकोऽर्थः । भव एवार्णवो भवार्णवः, मज्जनस्थानसाधर्म्यात् समुद्र-
कल्पो भवः, एतस्मिन् भवार्णवे । अत्र प्रत्यक्षीकृतपञ्चोपादानस्कन्धलक्षणव्य-
तिरिक्तभवप्रतिषेधार्थम् अत्र-ग्रहणम् । अत्र लोको भ्रमति; तादात्म्यावस्थानात् ।
तादात्म्यावस्थानतोऽपि ह्यधिकरणनिर्देशो दृश्यते, तद्यथा—अन्यपादपानुष-
योगेन पलाशेष्वारामः स्थित इति । वृत्तौ तु हेत्वर्थतां तृतीयायाः सूचयता
हेतुमण्णिचा हेत्वर्थ उक्तः । क्लेशाश्च लोकं भ्रमयन्तीति । अत इति । उद्दिष्टहेतु-
प्रत्याम्नायः । यत एवम्, अत उद्दिष्टोऽभिधर्म इत्यर्थः । धर्मप्रविचयः क्लेशोपशमो-
पायो नान्यो धर्म इत्यभिधर्मोपदेशकः सम्बन्ध इति । अत उक्तम्—“तद्धेतोः”
इति । स एव हेतुस्तद्धेतुः, तस्य तस्माद्वा तद्धेतोरिति । तस्य धर्मप्रविचयस्यार्थे ।