अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 33, कुल 1258 में से
संदर्भ में पढ़ें१४ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ धातु-
किमर्थं पुनरभिधर्मोपदेशः, केन चायं प्रथमत उपदिष्टो यत आचार्यों-
ऽभिधर्मकोशं वक्तुमाद्रियत इति ? आह—
धर्माणां प्रविचयमन्तरेण नास्ति
क्लेशानां यत उपशान्तयेऽभ्युपायः ।
क्लेशैश्च भ्रमति भवार्णवेऽत्र लोक-
स्तद्धेतोरत उदितः किलैष शास्त्रा ॥ ३ ॥
किमर्थं पुनरभिधर्मोपदेशः । किं प्रयोजनमित्यर्थः । सप्रयोजनस्य हि
शास्त्रस्य प्रयासः साधुर्भवति, न निष्प्रयोजनस्य । केन चायं प्रथमत उपदिष्टः ।
केन चायमभिधर्म आदितो देशितः । आप्तोपदिष्टस्य हि शास्त्रस्य प्रयासोऽनु-
रूपः स्यादित्यभिप्रायः । ‘प्रथमतः’ इति विशेषणम् । भदन्तकात्यायनीपुत्रादीनां
पिण्डीकरणेन पश्चादुपदेशस्य सिद्धत्वात् । प्रथमत उपदेशे हि विवादः । यत इति
विस्तरः—यतः कारणात्, आचार्यः शास्त्रकारः, अभिधर्मकोशं प्रयासशास्त्रम्,
वक्तुं प्रणेतुम्, आद्रियते आदरं करोतीत्यर्थः ।
एवं कृते प्रश्नद्वयेऽभिधर्मशास्त्रस्य सप्रयोजनताम्, आप्तोपदेशतां च प्रदर्श-
यन्नाह—
“धर्माणां प्रविचयम्” इति । विस्तरः—यतो विना धर्मप्रविचयेन । ‘रूपं
वेदनानित्यं दुःखम्’ इत्येवमाकारेण । नास्ति क्लेशोपशमाभ्युपायः । अन्य इति
वाक्यशेषः । स एव तु क्लेशोपशमाभ्युपाय इत्यर्थादापन्नं भवति । तद्यथा—
‘नाहारेण विना प्राणसन्धारणोपायः’ इत्युक्ते ‘स एवाहारः प्राणसन्धारणोपायः’
इत्यर्थादापन्नं भवति, तद्वदेतत् ।
यदि क्लेशोपशमो न स्यात्, किं स्याद् ? इत्यत आह—“क्लेशैश्च भ्रमति
भवार्णवेऽत्र लोकः”इति । अनेन क्लेशोपशमस्यावश्यकर्तव्यतां दर्शयति । भवः =
संसार इत्येकोऽर्थः । भव एवार्णवो भवार्णवः, मज्जनस्थानसाधर्म्यात् समुद्र-
कल्पो भवः, एतस्मिन् भवार्णवे । अत्र प्रत्यक्षीकृतपञ्चोपादानस्कन्धलक्षणव्य-
तिरिक्तभवप्रतिषेधार्थम् अत्र-ग्रहणम् । अत्र लोको भ्रमति; तादात्म्यावस्थानात् ।
तादात्म्यावस्थानतोऽपि ह्यधिकरणनिर्देशो दृश्यते, तद्यथा—अन्यपादपानुष-
योगेन पलाशेष्वारामः स्थित इति । वृत्तौ तु हेत्वर्थतां तृतीयायाः सूचयता
हेतुमण्णिचा हेत्वर्थ उक्तः । क्लेशाश्च लोकं भ्रमयन्तीति । अत इति । उद्दिष्टहेतु-
प्रत्याम्नायः । यत एवम्, अत उद्दिष्टोऽभिधर्म इत्यर्थः । धर्मप्रविचयः क्लेशोपशमो-
पायो नान्यो धर्म इत्यभिधर्मोपदेशकः सम्बन्ध इति । अत उक्तम्—“तद्धेतोः”
इति । स एव हेतुस्तद्धेतुः, तस्य तस्माद्वा तद्धेतोरिति । तस्य धर्मप्रविचयस्यार्थे ।