सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 29, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 29

१० भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ धातु-
यथार्थशास्ता । अनेन परहितप्रतिपत्त्युपायमस्याविष्करोति । यथाभूतशासना-
च्छास्ता भवन्सौ संसारपङ्काज्जगदुज्जहार, न त्वृद्धिवरप्रदानप्रभावेनेति ।
तस्मै नमस्कृत्य किं करिष्यति १ ? इत्याह—शास्त्रं प्रवक्ष्यामि । शिष्य-
शासनाच्छास्त्रम् ।
इत्येवमादीनि काव्यशास्त्रान्तरोक्तानि शब्दरूपाणि सुनीतानि भवन्ति ।
यदि र्तार्ह सम्प्रदानसंज्ञेवेष्यते, 'नमस्कृत्य मुनिं मूर्ध्ना' इत्यत्र द्वितीया न
प्राप्नोति ? नैष दोषः; विवक्षातः कारकाणि भवन्ति । यदा कर्मविवक्षा तदा
द्वितीया, यदा सम्प्रदानविवक्षा तदा चतुर्थी—इत्युभयमपि सिद्धं भवति ।
“यथार्थशास्ते” इति शास्त्यौणादिकः शब्दः “तृन्तृचौ शंसिक्षदादिभ्यः
संज्ञायां चानिटौ” (उ० २.९३) इति तृन्प्रत्ययान्तोऽनिट् शास्तेति भवति ।
ननु च संज्ञायां शास्तेति भवति, न चेयं संज्ञा ? संज्ञैवेयम् । द्विविधा हि
संज्ञा—विशेषसंज्ञा, सामान्यसंज्ञा च । विशेषसंज्ञा—देवदत्तः, यज्ञदत्त इति ।
सामान्यसंज्ञा—माता, पितेत्येवमादिका । मात्रादयोऽपि हि तत्र संज्ञायामेव
निपात्यन्ते—"नप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृभ्रातृजामातृमातृपितृदुहितृ” (उ० २.९४)
इति । तेन यथा सर्वासां मातृणामियं संज्ञा मातेति, सर्वेषां च पितॄणां पितेति,
एवं सर्वेषां च शास्तॄणामियं संज्ञा—शास्तेति । स तु शास्ता द्विविधो भवति—
अयथार्थः, यथार्थश्च । अयथार्थश्च पूरणादिः, यथार्थश्च तथागत इति । अतो
विशिनष्टि—यथार्थमविपरीतं शास्तीति यथार्थशास्ता । एतच्च विशेषणं परहित-
प्रतिपत्त्युपायसूचनार्थम् । अत एवाह-
वमादि । न त्वृद्धिवरप्रदानप्रभावेण इति । प्रभावशब्दः प्रत्येकमभिसम्बध्यते—
ऋद्धिप्रभावेण, वरप्रदानप्रभावेनेति । ऋद्धिप्रभावस्तद्यथा—विष्णोर्विश्वरूप-
सन्दर्शनम् । वरप्रदानप्रभावस्तद्यथा—महेश्वरो वरं प्रयच्छतीति प्रवादः ।
अथ वा त्रिपदो द्वन्द्वः—ऋद्धिश्च वरप्रदानं च प्रभावश्चेति । प्रभावः=शक्ति-
विशेषः । ननु च बुद्धा अपि कदाचिद् ऋद्धिप्रातिहार्यं विनेयानामुपदर्शयन्ति ?
अस्त्येतदेवम्, अपि त्वावर्जनमात्रं तु तेषाम् । अनुशासनीप्रातिहार्येण तु रागादि-
प्रतिपक्षभावनाक्रमेण संसारोत्तरणं भवति ।
किं करिष्यतीति प्रश्नः । नमस्कृत्येति क्त्वाविधेः क्रियान्तरापेक्षत्वात् ।
समानकर्तृकयोर्हि पूर्वकाले क्त्वाविधिर्भवति २ ।
“शास्त्रं प्रवक्ष्यामि” इति । अर्थविशेषाभिद्योतको नामसमूहः=शास्त्रम् ।
१. करिष्यामि—का० । २. द्र०—पा० सू० ७.१.३७ ।