सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 30, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 30

निर्देशः ] प्रथमं कोशस्थानम् ११
किं१ शास्त्रम् ? इत्याह—अभिधर्मकोशम् ॥ १ ॥
कोऽयमभिधर्मो नाम ?
प्रज्ञाऽमला सानुचराऽभिधर्मः
तत्र प्रज्ञा धर्मप्रविचयः । अमलेति अनास्रवा । सानुचरेति सपरिवारा ।
एवमनास्रवः पञ्चस्कन्धकोऽभिधर्म इत्युक्तं भवति । एष तावत् पारमार्थिको-
ऽभिधर्मः ।
साङ्केतिकस्तु—
क्षणिकत्वात् समूहानुपपत्तिरिति चेत्, न; तद्ग्राहकबुद्धिरूपसमूहकल्पनात् ।
शिष्यशासनाच्छास्त्रम् इति । किं शास्त्रम् इति । किं नामधेयमित्यभिप्रायः ।
अभिधर्मकोशम् इति । अस्य निर्वचनं वक्ष्यते । आस्तां तावदेतत् ॥ १ ॥
अवयवार्थविबोधपूर्वकः समुदायार्थावबोध इत्यवयवार्थं तावत् पृच्छति—
कोऽयमभिधर्मो नाम इति ?
“प्रज्ञामला सानुचराभिधर्मः” इति । धर्मप्रविचयकाले प्रज्ञा प्रधानमिति
मुख्यवृत्त्या प्रज्ञाग्रहणम् । अमलेत्यनास्रवा; मलानामास्रवपर्यायत्वात् ।
सानुचरेति सपरिवारा । राज्ञा समं चरन्नपि भृत्यो राजानुचर इत्युच्यते,
तदनुवृत्तिकारित्वात्; तथेहापि समकालं चरन्तोऽपि तत्सहभुवो धर्मा अनुचरा
एवोच्यन्ते । के पुनस्ते ? चित्तचैत्ता अनास्रवसंवरा जात्यादयश्च चित्तविप्रयुक्ता
इति । ननु च चित्तं चैत्तेभ्यः प्रधानम्, तथा हि—चित्तस्येमे चित्ते वा
भवाश्चैत्ता इति, तेन प्रज्ञैव चित्तस्य परिवारोऽर्हति, न तु चित्तं प्रज्ञायाः,
चैतसिकत्वात् ? अस्त्येतत्; अपि तु धर्मप्रविचयकाले प्रज्ञा चैत्तस्यापि सर्वस्य
कलापस्य राजायते । क्वचित् कश्चिद् धर्मः प्राधान्यमास्कन्दति, तद्यथा—अभि-
सम्प्रत्ययकाले श्रद्धेत्येवमादि ।
अनास्रवः पञ्चस्कन्धक इति । अनास्रवसंवरस्तस्मिन् कलापे रूपस्कन्धः,
या वेदना स वेदनास्कन्धः, या संज्ञा स संज्ञास्कन्धः, चेतनादिजात्यादयः
संस्कारस्कन्धः, विज्ञानं चात्र विज्ञानस्कन्धः ।
एष तावत् इति । तावच्छब्दः क्रमार्थः । पारमार्थिक इति । परमार्थ एव
पारमार्थिकः । परमार्थे वा भवः पारमार्थिकः । परमार्थेन वा दीव्यति चरतीति
वा पारमार्थिकः । साङ्केतिकस्तु सांव्यवहारिकः ।
१. कतमत्—का० ।