अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 26, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] प्रथमं कोशस्थानम् ९
युक्तस्तस्मै नमस्कृत्येति शिरसा प्रणिपत्य । यथार्थम् = अविपरीतं शास्तीति
यितुमशक्यत्वात् । एवमिहापि यो जनो भव्योऽभ्युद्धर्तुम्, तमेवाभ्युदधृतवा-
निति । अतो यथाभव्यमिति व्याचष्टे ।
“तस्मै नमस्कृत्य” इति शिरसा प्रणिपत्य । क्रियास्पदीभूतत्वान्नमहशब्दस्य
प्रणिपत्यार्थो नमस्कृत्यशब्दो भवति । प्रणिपातश्च लोके शिरसा प्रतीत इति
‘शिरसा’ इत्याह । वाङ्मनोनमस्कारोऽप्यत्रानुक्तसिद्धो गुणव्याख्यानपूर्वकत्वान्मन्-
स्कर्मपूर्वकत्वाच्च कायकर्मणः ।
‘तस्मै’ इति किल्लक्षणेयं चतुर्थी ? अत्र बहवो व्याख्यानकारा मुह्यन्ति ।
आचार्यगुणमतिः, तच्छिष्यश्चाचार्यवसुमित्र आहतुः—“नमःशब्दयोगे
चतुर्थी—‘नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च’” ( पा० सू० २.३.१६ ) इति,
तदेतदयुक्तम्; स्वतन्त्रस्य नमःशब्दस्य योगे सा चतुर्थी भवति, अस्वतन्त्रश्चायं
नमःशब्दः; क्रियास्पदीभूतत्वात् । अत एव चानेनैवाचार्येण व्याख्यायुक्तौ
“नमस्कृत्य मुनिं मूर्ध्ना” इति कर्मलक्षणा द्वितीया प्रयुक्ता । तस्मान्न नमः-
शब्दयोगे चतुर्थीति ।
द्वितीयायाः स्थाने चतुर्थी प्रयुक्तेत्यपरे; तदिदमेषामिच्छामात्रम्, न हि
लक्षणमस्यास्तीति ।
केन तर्हीयं चतुर्थी ? सम्प्रदानलक्षणेयं चतुर्थीति व्याचक्ष्महे । कथं
सम्प्रदानसंज्ञा ? “कर्मणा यमभिप्रैति स सम्प्रदानम्” ( पा० सू० १.४.३२ )
इति चूर्णिकारेण कर्मशब्द उभयथा वर्ण्यते—पारिभाषिकं कर्म, लौकिकं
चेति । तत्र यदा “कर्तुरीप्सिततमं कर्म” ( पा० सू० १.४.४९ ) इति
पारिभाषिकं कर्माश्रीयते, तदा कर्तुरीप्सिततमेन यमभिप्रैति स सम्प्रदानसंज्ञो
भवति—ब्राह्मणाय गां प्रयच्छतीत्येतत् सिद्धं भवति । यदा तु कर्म क्रियेति
लौकिकं कर्माश्रीयते, तदा क्रियया यमभिप्रैति स सम्प्रदानसंज्ञो भवतीति,
तदेतत् सिद्धं भवति—युद्धाय संनह्यति, पत्ये शेत इति । संनहनक्रियया
युद्धमभिप्रैति कर्ता, शयनक्रियया पतिमिति युद्धादीनां सम्प्रदानसंज्ञा सिद्धा
भवति । तथेहापि नमस्कारक्रियया शास्तारमभिप्रैत्याचार्यः, तस्माच्छास्तारि
सम्प्रदानसंज्ञा । सम्प्रदानसंज्ञायां सत्यां “सम्प्रदाने चतुर्थी” (पा० सू० २.३.१३)
इति चतुर्थी भवति । एवं च कृत्वा—
“पूर्वं प्रणम्य वदतां प्रवराय शास्त्रे” ( )
“प्रमाणभूताय जगद्धितैषिणे
प्रणम्य शास्त्रे सुगताय तायिने” ( प्र० समु० १.१. )