अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 21, कुल 1258 में से
संदर्भ में पढ़ें४ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ धातु-
यः सर्वथा सर्वहतान्धकारः
संसारपङ्काज् जगदुज्जहार ।
तस्मै नमस्कृत्य यथार्थशास्त्रे
शास्त्रं प्रवक्ष्याम्यभिधर्मकोशम् ॥ १ ॥
युक्ता चेद् ग्राह्येयम्, न चेदपोह्यान्यथा विधातव्या ।
न हि विषमेऽर्थे स्खलितुं न सम्भवेन्मादृशां बुद्धिः ॥
“यः सर्वथासर्वहतान्धकारः संसारपङ्काज्जगदुज्जहार ।
तस्मै नमस्कृत्य यथार्थशास्त्रे शास्त्रं प्रवक्ष्याम्यभिधर्मकोशम् ॥”
इत्यस्य श्लोकस्यार्थं विवृण्वान आचार्य आह—शास्त्रं प्रणेतुकामः स्वस्य
शास्तुर्माहात्म्यज्ञापनार्थं गुणाख्यानपूर्वकं तस्मै नमस्कारमारभत इति । शास्त्रम् =
अभिधर्मकोशम् । प्रणेतुकामः = कर्तुकामः । स्वस्य शास्तुः = आत्मीयस्य
शास्तुः । स हि भगवानाचार्यस्यात्मीयः शास्ता; तच्छासनप्रतिपन्नत्वात् ।
तेन वा शास्त्रा महाकरुणापरतन्त्रेण सकलो लोकः स्वत्वेन परिगृहीतः,
तस्मादाचार्यस्यापि स्वत्वेन गृहीतस्य स भगवान् स्वः शास्ता भवति ।
माहात्म्यज्ञापनार्थमिति । महात्मत्वं माहात्म्यम्=स्वपरार्थप्रतिपत्तिसम्पत्,
तज्ज्ञापनार्थम् = तदवबोधार्थम् । गुणाख्यानपूर्वकम्=गुणकथनपूर्वकम् । तस्मै
नमस्कारमारभते=तस्मै प्रणामं करोतीत्यर्थः ।
अतीतकालत्वाद् ‘आरब्धवान्’ इति वक्तव्ये वर्तमानकाले पदप्रयोगः,
अद्यापि नमस्कारारम्भाभिप्रायत्, शिष्यपरम्परया वा नमस्कारारम्भाविरा-
मात् । शब्दशास्त्रेऽपीदृश एव शब्दप्रयोगो दृश्यते—“अथ शब्दानुशासनम् ।
‘अथ’ इत्ययं शब्दोऽधिकारायर्थः प्रयुज्यते” ( पा० म० भा० १.१.१. ) इति ।
गुणाख्यानमात्रेण माहात्म्यावबोधः, न नमस्कारेणेति चेत्, न; तस्य
तत्सूचकत्वात् । नमस्कारेण हि माहात्म्यं सूच्यते । अथ वा—गुणाख्यानेनैव
माहात्म्यं ज्ञाप्यते, न नमस्कारेण; नमस्कारारम्भस्तु स्वपुण्यप्रसवार्थम्, सदा-
चारानुवृत्तिप्रदर्शनार्थं वा; ‘कृताभिमतदेवतापूजास्तुतिनमस्कारा हि सन्तः
क्रियामारभन्ते’ इति सतामाचारात् । तत्र माहात्म्यज्ञापनं किमर्थमिति ?
आचक्ष्महे—तद्गौरवोत्पादनार्थम् । गौरवोत्पादनं पुनस्तत्प्रवचनसत्कृत्यश्रव-
णार्थम् । सत्कृत्यश्रवणं क्रमेण श्रुत-चिन्ता-भावनामयप्रज्ञोत्पादनार्थम् ।
तदुत्पादनं क्लेशप्रहाणार्थम् । तत् पुनः सर्वदुःखोपशमलक्षणनिर्वाणप्रापणार्थमिति
प्रयोजननिष्ठा ।
माहात्म्यज्ञापनं त्वेकमाचार्येण प्रयोजनमुक्तम्ः साक्षात् प्रयोजनत्वात् ।
तदितराणि त्वभ्यूहितुं शक्यानीति नोक्तानि ।