वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
इस ग्रन्थ के बारे में
वायु पुराण अठारह महापुराणों में से एक और प्राचीनतम पुराणों में गिना जाता है। इसका नाम वायु देवता के नाम पर है, जिन्हें इसका मूल वक्ता माना गया है। इसमें सृष्टि-प्रक्रिया, मन्वन्तर, भूगोल, ऋषि और राजवंशों की वंशावलियाँ, श्राद्ध-कल्प और युग-धर्म का विस्तृत वर्णन है, और अन्त में गया-माहात्म्य आता है, जो गया तीर्थ में पिण्डदान की परम्परा का प्रमुख स्रोत है।
स्कैन किए गए आरम्भिक पृष्ठ इसे पुणे के आनन्दाश्रम संस्कृत ग्रन्थावली का ४९वाँ ग्रन्थ बताते हैं, जिसका पाठ आनन्दाश्रम के पण्डितों ने संशोधित किया और जो १९८३ (शक १९०५) में नई आवृत्ति के रूप में छपा। अध्याय-शीर्षकों में प्रक्रियापाद का सृष्टि-प्रकरण, चतुराश्रम-विभाग, जम्बूद्वीप के नौ वर्षों का वर्णन, विष्णु-माहात्म्य और गया-माहात्म्य जैसे प्रसंग दिखते हैं। सूची में इस ग्रन्थ के साथ पं० तारिणीश झा के हिन्दी अनुवाद (हिन्दी साहित्य सम्मेलन, प्रयाग) का नाम जुड़ा है, पर स्कैन के आरम्भिक पृष्ठों में आनन्दाश्रम का संस्कृत पाठ ही दिखाई देता है।
पुराण-साहित्य और प्राचीन भारतीय भूगोल के अध्येताओं के लिए आनन्दाश्रम का यह पाठ लम्बे समय से आधार-ग्रन्थ रहा है।
३६२ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० १७ श्लो० १२८-१५४]
( विष्णुमाहात्म्यकथनम् )
दत्तं तेषां तु भीतानां दैत्यानामभयार्थिनाम् । न भेतव्यं न भेतव्यं भयं त्यजत दानवाः ॥ १२८
मत्संनिधौ वर्ततां वो न भर्मिर्विनुमर्हति । भयाच्चाप्याभिपन्नांस्तान्दृष्ट्वा देवासुरांस्तदा ॥ १२९
जभिजघ्नुः प्रसह्यैतानाविचार्य बलाबलम् । तांस्त्रस्तान्वध्यमानांश्च देवैर्दृष्ट्वासुरांस्तदा ॥ १३०
देवी क्रुद्धाब्रवीदेनान्अनिद्रत्वं करोम्यहम् । संस्तम्भ्य शीघ्रं संरम्भादिन्द्रं साऽभ्यचरत्ततः ॥ १३१
ततः संस्तंभितं दृष्ट्वा शक्रं देवास्तु यूपवत् । व्यद्रवन्त ततो भीता दृष्ट्वा शक्रं वशीकृतम् ॥ १३२
गतेषु सुरसंघेषु विष्णुमिन्द्रमभाषत । मां त्वं प्रविश भद्रं ते नेष्यामि त्वां सुरेश्वर ॥ १३३
एवमुक्तस्ततो विष्णुं प्रविवेश पुरंदरः । विष्णुना रक्षितं दृष्ट्वा देवी क्रुद्धा वचोऽवदत् ॥ १३४
एषा त्वां विष्णुना सार्धं दहामि मघवानिव(?) । मिषतां सर्वभूतानां दृश्यतां मे तपोबलम् ॥ १३५
तथाऽभिभूतौ तौ देवाविन्द्राविष्णू जजल्पतुः । कथं मुच्येव सहितौ विष्णुमिन्द्रमभाषत ॥ १३६
इन्द्रोऽब्रवीज्जहीह्येनां यावन्नौ न दहेद्विभो । विशेषाणाभिभूतोऽहमतस्त्वं जहि मा चिरम् ॥ १३७
ततः समीक्ष्य तां विष्णुः स्त्रीवधं कर्तुमास्थितः । अभिध्याय ततश्चक्रमापन्नः सत्वरं प्रभुः ॥ १३८
तस्याः सत्वरमणायाः शीघ्रकारी सुरारिहा । स्त्रिया विष्णुस्ततो देव्याः क्रूरं बुद्ध्वा चिकीर्षितम्
क्रुद्धस्तदस्त्रमाविध्य शिरश्चिच्छेद माधवः ॥ १३९
तं दृष्ट्वा स्त्रीवधं घोरं चुकोप भृगुरिश्वरः । ततोऽभिशप्तो भृगुणा विष्णुर्भार्यावधे तदा ॥ १४०
यस्मात्ते जानता धर्मानवध्या स्त्री निषूदिता । तस्मात्त्वं सप्तकृत्वो वै मानुषेषु प्रवत्स्यसि ॥ १४१
ततस्तेनाभिशापेन नष्टे धर्मे पुनः पुनः । लोके सर्वहितार्थाय जायते मानुषेष्विह ॥ १४२
अनुव्याहृत्य विष्णुं स तदादाय शिरः स्वयम् । समानीय ततः काये अपो गृहेदमब्रवीत् ॥ १४३
एष त्वां विष्णुना सत्ये हतां संजीवयाम्यहम् । यदि कृत्स्नो मया धर्मश्चरितो ज्ञायतेऽपि वा ॥
तेन सत्येन जीवस्व यदि सत्यं ब्रवीम्यहम् ॥ १४४
सत्याभिवाहता तस्य देवी संजीविता तदा । तदा तां प्रोक्ष्य शीताभिरद्भिर्जीवेति सोऽब्रवीत् ॥ १४५
ततस्तां सर्वभूतानि दृष्ट्वा सुप्तोत्थितामिव । साधु साध्वित्यदृश्यानां वाचस्ताः सस्वनुर्दिशः ॥ १४६
दृष्ट्वा संजीवितामेवं देवी तां भृगुणा तदा । मिषतां सर्व भूतानां तदद्भुतमिमाभवत् ॥ १४७
असंभ्रान्तेन भृगुणा पत्नीं संजीवितां ततः । दृष्ट्वा शक्रो न लेभेऽथ शर्म काव्यभयात्ततः ॥ १४८
प्रजागरे ततश्चेन्द्रो जयन्तीमात्मनः सुताम् । ( *प्रोवाच मतिमान्वावाक्यं स्वां कन्यां पाकशासनः ॥
एष काव्यो ह्यनिन्द्राय चरते दारुणं तपः । तेनाहं व्याकुलः पुत्रि कृतो धृतिमतो दृढम् ) ॥ १५०
गच्छ संभावयस्वैनं श्रमापनयनैः शुभैः । तैस्तैर्मनोनुकूलैश्च ह्युपचारैरतन्द्रिता ॥ १५१
देवी सा हीन्द्रदुहिता जयन्ती शुभचारिणी । युक्तध्यानं च शाम्यन्तं दुर्बलं धृतिमास्थितम् ॥ १५२
पित्रा यथोक्तं काव्यं सा काव्ये कृतवती तदा । गीर्भिर्वैवानुकुलाभिः स्तुवती वल्गुभाषिणी ॥ १५३
गात्रसंवाहनैः काले सेधमाना सुखावहैः । शुश्रूषन्त्यनुकूला च उवास बहुलाः समाः ॥ १५४
* धनाचिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति ।
[अ० ९७ श्लो० १५५-१८१] वायुपुराणम् । ३६३
( विष्णुमाहात्म्यकथनम् )
पूर्णे धूम्रव्रते चापि घोरे वर्षसहस्रिके । वरेण च्छन्दयामास काव्यं प्रीतोऽभवत्तदा ॥ १५५
एवं ब्रुवंस्त्वयैकेन चूर्णं नान्येन केनचित् । तस्मात्त्वं तपसा बुद्ध्या श्रुतेन च बलेन च ॥ १५६
तेजसा चापि विबुधान्सर्वानभिभविष्यसि । यच्च किंचिन्मम ब्रह्मन्विद्यते भृगुनन्दन ॥ १५७
साङ्गं च सरहस्यं च यज्ञोपनिषदां तथा । प्रतिभास्यति ते सर्वं तच्चाऽऽद्यन्तं (?) न कस्यचित् ॥ १५८
सर्वाभिभावी तेन त्वं द्विजश्रेष्ठो भविष्यसि । एवं दत्त्वा वरांस्तस्मै भार्गवाय पुनः पुनः ॥ १५९
अजेयत्वं धनेशत्वमवध्यत्वं च वै ददौ । एताँल्लब्ध्वा वराञ्छाक्यः संप्रहृष्टतनूरुहः ॥ १६०
हर्षात्प्रादुर्बभौ तस्य देवस्तोत्रं महेश्वरम् । तदा तिर्यक्स्थितस्त्वेवं तुष्टुवे नीललोहितम् ॥ १६१
नमोऽस्तु शितिकण्ठाय सुरूपाय सुवर्चसे । रिरिहाणाय लोपाय वत्सराय जगत्पते ॥ १६२
कपर्दिने ह्यूर्ध्वरोम्णे हयाय करणाय च । संस्कृताय सुतीर्थाय देवदेवाय रंहसे ॥ १६३
उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे । वसुरेताय रुद्राय तपसे चीरवाससे ॥ १६४
ह्रस्वाय मुक्तकेशाय यद्दिने जाम्बवाय च । ( *कवये राजवृद्धाय तक्षकक्रीडनाय च ) ॥ १६५
गिरिशायार्कनेत्राय यतिने जाम्बवाय च । सुवृत्ताय सुहस्ताय धन्विने भार्गवाय च ) ॥ १६६
सहस्रबाहवे चैव सहस्रामलचक्षुषे । सहस्रकुक्षये चैव सहस्रचरणाय च ॥ १६७
सहस्रशिरसे चैव बहुरूपाय वेधसे । भवाय विश्वरूपाय श्वेताय पुरुषाय च ॥ १६८
निषङ्गिणे कवचिने सूक्ष्माय क्षपणाय च । ताम्राय चैव भीमाय उग्राय च शिवाय च ॥ १६९
बभ्रवे च पिशङ्गाय पिङ्गलायारुणाय च । महादेवाय शर्वाय विश्वरूपशिवाय च ॥ १७०
हिरण्याय च शिष्टाय श्रेष्ठाय मध्यमाय च । + बभ्रवे च पिशङ्गाय पिङ्गलायारुणाय च ॥ १७१
पिनाकिने चेषुमते चित्राय रोहिताय च ॥
दुन्दुभ्यायैकपादाय अर्ह्याय बुद्धये तथा । मृगव्याधाय सर्पाय स्थाणवे भीषिकाय च ॥ १७२
बहुरूपाय चोग्राय त्रिनेत्रायेश्वराय च । कपिलायैकवीराय मृत्यवे त्र्यम्बकाय च ॥ १७३
वास्तोष्पते पिनाकाय शंकराय शिवाय च । आरण्याय गृहस्थाय यतये ब्रह्मचारिणे ॥ १७४
सांख्याय चैव योगाय ध्यानिने दीक्षिताय च । अन्तर्हिताय शर्वाय मान्याय मालिने तथा ॥ १७५
बुद्धाय चैव शुद्धाय मुक्ताय केवलाय च । रोधसे चोकितानाय बलिष्ठाय महर्षये ॥ १७६
चतुष्पादाय मेध्याय धर्मिणे शीघ्रगाय च । शिखण्डिने कपाल्याय [÷दक्षिणे विश्वमेधसे ॥ १७७
अप्रतिघाताय दीप्ताय भास्कराय सुमेधसे । क्रूराय विकृतायैव बीभत्साय शिवाय च ॥ १७८
सौम्याय चैव पुण्याय ] धार्मिकाय शुभाय च । अवध्यामृताज्ञाय नित्याय शाश्वताय च ॥ १७९
कटचाय शरभायैव शूलिने च त्रिचक्षुषे । सोमपायाऽऽज्यपायैव धूमपायोष्मपाय च ॥ १८०
शुचये रोरिहाणाय सद्योजाताय मृत्यवे । पिशिताशाय खर्वाय मेधाय वैद्युताय च ॥ १८१
* धनुश्चिह्नान्तर्गतग्रन्थो ङ पुस्तके नास्ति । +नास्त्यर्धमिदं क. पुस्तके । ÷धनुश्चिह्नान्तर्गतग्रन्थो ङ. पुस्तके नास्ति ।
३६४ श्रीमद्वैपायनमुनिप्रणीतम्-[अ०९७-९८श्लो०१८२-२०३।१]
(विष्णुमाहात्म्यकथनम्)
व्याश्रिताय श्रविष्ठाय भारतायान्तरिक्षये । क्षमाय सहमानाय सत्याय तपनाय च ॥ १८२
त्रिपुरघ्नाय दीप्ताय चक्राय रोमशाय च । तिग्मायुधाय मेध्याय सिद्धाय च पुलस्तये ॥ १८३
रोचमानाय खण्डाय स्फीताय ऋषभाय च । भोगिने युञ्जमानाय शान्तायैवोर्ध्वरेतसे ॥ १८४
अघघ्नाय मखघ्नाय मृत्यवे याज्ञियाय च । कृशानवे प्रचेताय वह्नये किशलाय च ॥ १८५
सिकत्याय प्रसन्नाय वरेण्यायैव चक्षुषे । क्षिप्रगवे सुधन्वाय प्रमेध्याय पिवाय च ॥ १८६
रक्षोघ्नाय पशुघ्नाय विघ्नाय शयनाय च । विभ्रान्ताय महान्ताय अन्तये दुर्गमाय च ॥ १८७
दक्षाय च जघन्याय लोकानामधिराय च । अनामयाय चोध्वाय संहत्याधिष्ठिताय च ॥ १८८
हिरण्यबाहवे चैव सत्याय शमनाय च । आसिकल्पाय माघाय री(इ)रिण्यायैकचक्षुषे ॥ १८९
श्रेष्ठाय वामदेवाय ईशानाय च धीमते । महाकल्पाय दीप्ताय रोदनाय हसाय च ॥ १९०
दृढधन्वने कवचिने रथिने च वरूथिने । भृगुनाथाय शुक्राय वह्निरिष्टाय धीमते ॥ १९१
अघाय अघसंस्याय(?)विपियाय प्रियाय च । दिग्वासःछत्तिवायांस भगघ्नाय नमोऽस्तु ते ॥ १९२
पशूनां पतये चैव भूतानां पतये नमः । प्रणवे ऋग्यजुःसाम्ने स्वधायै च सुधाय च ॥ १९३
वषट्कारतमायैव तुभ्यमन्तात्मने नमः । स्रष्ट्रे धात्रे तथा होत्रे हर्त्रे च क्षपणाय च ॥ १९४
भूतभव्यभयायैव तुभ्यं कालात्मने नमः । वसवे चैव सत्याय त्यागार्थं च शमाय च ॥ १९५
विश्वाय मरुते चैव तुभ्यं देवात्मने नमः । अग्नीषोमार्त्विज्ज्याय पशुमन्त्रौषधाय च ॥ १९६
दक्षिणावभृथायैव तुभ्यं यज्ञात्मने नमः । तपसे चैव सत्याय त्यागाय च शमाय च ॥ १९७
अहिंसायाप्यलोभाय सुवेशायातिशाय च । सर्वभूतात्मभूताय तुभ्यं लोकात्मने नमः ॥ १९८
पृथिव्यै चान्तरिक्षाय दिवाय च मह्वाय च । जनस्तपाय सत्याय तुभ्यं लोकात्मने नमः ॥ १९९
अप्यक्तायाथ महते भूतायैवेन्द्रियाय च । तन्मात्राय महान्ताय तुभ्यं तत्त्वात्मने नमः ॥ २००
[*नित्याय चाथ लिङ्गाय सूक्ष्माय चेतनाय च । शुद्धाय विभवे चैव तुभ्यं नित्यात्मने नमः] ॥२०१
नमस्ते त्रिषु लोकेषु स्वरन्तेषु भवादिषु । सत्यान्तेषु महान्तेषु चतुर्षु च नमोऽस्तु ते ॥ २०२
नमः स्तोत्रे मया ह्यस्मिन्सदसद्व्याहृतं विभो । मद्भक्त इति ब्रह्मण्य सर्वं तत्क्षन्तुमर्हसि ॥ २०३
इति श्रीमहापुराणे वायुप्रोक्ते विष्णुमाहात्म्ये शंभुस्तवकीर्तनं नाम सप्तनवतितमोऽध्यायः ॥९७॥
आदितः श्लोकानां समष्ट्यङ्काः-८८९२
अथाष्टनवतितमोऽध्यायः ।
विष्णुमाहात्म्यकीर्तनम् ।
सूत उवाच--
एवमाराध्य देवेशमीशानं नीललोहितम् । ब्रह्मेति प्रयतस्तस्मै प्राञ्जलिर्वाक्यमब्रवीत् ॥ १
* धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति ।
[अ० ९८ श्लो० २-२८] वायुपुराणम् । ३६५
(विष्णुमाहात्म्यकथनम्)
काव्यस्य गात्रं संस्पृश्य हस्तेन प्रीतिमान्भवः । निकामं दर्शनं दत्त्वा तत्रैवान्तरधीयत ॥ २
ततः सोऽन्तर्हिते तस्मिन्देवेशानुचरे तदा । तिष्ठन्तीं प्राञ्जलिर्भूत्वा जयन्तीमिदमब्रवीत् ॥ ३
कस्य त्वं सुभगे का वा दुःखिते मयि दुःखिता । महता तपसा युक्तं किमर्थं मां * जुगोपसि ॥ ४
अनया सततं भक्त्या प्रश्रयेण दमेन च । स्नेहेन चैव सुश्रोणि प्रीतोऽस्मि वरवर्णिनि ॥ ५
किमिच्छसि वरारोहे कस्ते कामः समृध्यताम् । तं ते संपूरयाम्यद्य यद्यपि स्यात्सुदुर्लभम् ॥ ६
एवमुक्ताऽब्रवीदेनं तपसा ज्ञातुमर्हसि । चिकीर्षितं मे बलिष्ठ त्वं हि वेत्थ यथातथम् ॥ ७
एवमुक्तोऽब्रवीदेनां दृष्ट्वा दिव्येन चक्षुषा । माहेन्द्री त्वं वरारोहे मद्वितार्थमिहाऽऽगता ॥ ८
मया सह त्वं सुश्रोणि दश वर्षाणि भामिनि । अदृश्यं सर्वभूतेस्तु संप्रयोगमिहेच्छसि ॥ ९
देवेन्द्रानलवर्णाभे वरारोहे सुलोचने । इमं वृणीष्व कामं ते मत्तो वै वल्गुभाषिणि ॥ १०
एवं भवतु गच्छामो गृहान्वै मत्तकाशििन । ततः स्वगृहमागम्य जयन्त्या सहितः प्रभुः ॥ ११
स तया संवसेद्देव्या दश वर्षाणि भागशः । अदृश्यः सर्वभूतानां मायया संवृतस्तदा ॥ १२
कृतार्थमागतं दृष्ट्वा काव्यं सर्वे दितेः सुताः । अभिजग्मुर्गृहं तस्य मुदितास्ते दिदृक्षवः ॥ १३
गता यदा न पश्यन्तो जयन्त्या संवृतं गुरुम् । दाक्षिण्यं तस्य तद्बुद्ध्वा प्रतिजग्मुर्यथागतम् ॥ १४
बृहस्पतिस्तु संरुद्धं ज्ञात्वा काव्यं चकार ह । पित्रर्थे दश वर्षाणि जयन्त्या हितकाम्यया ॥ १५
बुद्ध्वा तदन्तरं सोऽथ दैत्यानामिव चोदितः । काव्यस्य रूपमास्थाय सोऽसुरान्समभाषत ॥ १६
ततः समागतान्दृष्ट्वा बृहस्पतिरुवाच तान् । स्वागतं मम याज्यानां संप्राप्तोऽस्मि हिताय च ॥ १७
अहं वोऽध्यापयिष्यामि प्राप्ता विद्या मया हि सा । ततस्ते हृष्टमनसो विद्यार्थमुपपेदिरे ॥ १८
पूर्वं काम्य(व्य) स्तदा तस्मिन्समये दशवार्षिके । ययौ च समकालं स सद्योत्पन्नमतिस्तदा ॥ १९
समयान्ते देवयानी सद्योजाता सुता तदा । बुद्धिं चक्रे ततश्चापि याज्यानां प्रत्यवेक्षणे ॥ २०
शुक्र उवाच--
देवि गच्छामहे द्रष्टुं तव याज्याञ्शुचिस्मिते । विभ्रान्तप्रेक्षिते साध्वि त्रिवर्णायतलोचने ॥ २१
एवमुक्ताऽब्रवीद्देवी भज भक्तानमहाव्रत । एष ब्रह्मन्सतां धर्मो न धर्मं लोपयामि ते ॥ २२
सूत उवाच--
ततो गत्वाऽसुरान्दृष्ट्वा देवाचार्येण धीमता । वञ्चितान्काव्यरूपेण वेधसाऽसुरमब्रवीत् ॥ २३
काव्यं मां तात जानीध्वमेष ह्याङ्गिरसो भुवि । वञ्चिता बत यूयं वै मयि शक्ते तु दानवाः ॥ २४
श्रुत्वा तथा ब्रुवाणं तं संभ्रान्ता दितिजास्ततः ।
प्रेक्षन्ते स्म ह्युभौ तत्र स्थिताः खिन्नाः शुचि(सुवि) स्मिताः ॥ २५
संम्मूढाः स्थिताः सर्वे प्रापद्यन्त न किंचन । ततस्तेषु प्रमूढेषु काव्यस्तान्पुनरब्रवीत् ॥ २६
आचार्यो वो ह्यहं काव्यो देवाचार्योऽयमङ्गिराः । अनुनच्छत गां सर्वे त्यजतैनं बृहस्पतिम् ॥ २७
एवमुक्ताऽसुराः सर्वे तावुभौ समवेक्ष्य च । तदासुरा विशेषं तु न व्यजानंस्तयोर्द्वयोः ॥ २८
* अयं प्रयोग आर्षः ।
३६६ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०१८श्लो०२९-५७]
( विष्णुमाहात्म्यकथनम् )
बृहस्पतिरुवाचैतानसंभ्रान्तोऽयमङ्गिराः काव्योऽहं वो गुरुर्दैत्या मद्रूपोऽयं बृहस्पतिः ॥ २९
स मोहयति रूपेण मामकेनैष वोऽसुराः । श्रुत्वा तस्य ततस्ते वै संमन्त्र्याथार्वचोऽब्रवीत् ॥ ३०
अयं नो दश वर्षाणि सततं शास्ति वै प्रभुः । एष वै गुरुरस्माकमन्तरेप्सुरयं द्विजः ॥ ३१
ततस्ते दानवाः सर्वे प्रणिपत्याभिवाद्य च । वचनं जगृहुस्तस्य चिराभ्यासेन मोहिताः ॥ ३२
ऊचुस्तमसुराः सर्वे क्रुद्धाः संरक्तलोचनाः । अयं गुरुर्हितोऽस्माकं गच्छ त्वं नासि नो गुरुः ॥ ३३
भार्गवोऽङ्गिगरसो(?) वाऽयं भवत्वेषैव नो गुरुः । स्थिता वयं निदेशेऽस्य गच्छ त्वं साधु मा चिरम् ॥ ३४
एवमुक्त्वाऽसुराः सर्वे नापद्यन्त बृहस्पतिम् । यदा न प्रतिपद्यन्ते तेनोक्तं तन्महद्धितम् ॥ ३५
चुकोप भार्गवस्तेषामवलेपेन वै तदा । बोधिताऽपि मया यस्मान्न मां भजत दानवाः ॥ ३६
तस्मात्प्रनष्टसंज्ञा वै पराभवं गमिष्यथ । इति व्याहृत्य तान्काव्यो जगामाथ मथागतम् ॥ ३७
ज्ञात्वाऽभिशस्तानसुरान्काव्येन तु बृहस्पतिः । कृतार्थः स तदा हृष्टः स्वरूपं प्रत्यपद्यत ॥
बुद्ध्वाऽसुरांस्तदा भ्रष्टान्कृतार्थोऽन्तरधीयत ॥ ३८
ततः प्रनष्टे तस्मिंस्ते विभ्रान्ता दानवास्तदा । अहो धिग्वञ्चितास्तेन परस्परमथाब्रुवन् ॥ ३९
पृष्ठतो विमुखाश्चैव ताडिता वेधसा वयम् । दग्धाश्चैवोपयोगाच्च स्वे स्वे चार्थेषु मायया ॥ ४०
ततोऽसुराः परित्रस्ता देवेभ्यस्त्वरिता ययुः । प्रह्लादमग्रतः कृत्वा काव्यस्यानुगमं पुनः ॥ ४१
ततः काव्यं समासाद्य अभितस्थुरवाङ्मुखाः । तानागतानपुनर्दृष्ट्वा काव्यो याज्यानुवाच ह ॥ ४२
मयाऽपि बोधिताः काले यतो मां नाभिनन्दथ । ततस्तेनावलेपेन गता यूयं पराभवम् ॥ ४३
प्रह्लादस्तमथोवाच मानं स्वं त्यज भार्गव । स्वान्याज्यान्मज्जमानांश्च भक्तांश्चैव विशेषतः ॥ ४४
त्वया पृष्टा वयं तेन देवाचार्येण मोहिताः । भक्तानर्हसि नस्त्रातुं ज्ञात्वा दीर्घेण चक्षुषा ॥ ४५
यदि नस्त्वं न कुरुषे प्रसादं भृगुनन्दन । अपध्यातास्त्वया सद्य प्रवेक्ष्यामो रसातलम् ॥ ४६
सूत उवाच--
ज्ञात्वा काव्यो यथातत्त्वं कारुण्येनानुकम्पया । एवं शुक्रेऽनुनीतः स ततः कोषं न्ययच्छत ॥ ४७
उवाचेदं न भेतव्यं न गंतव्यं रसातलम् । अवश्यंभावी ह्यर्थोऽयं प्राप्तो वो मयि जाग्रति ॥ ४८
न शक्यमन्यथाकर्तुमदृष्टं हि बलवत्तरम् । संज्ञां प्रनष्टा या वोऽद्य कामं तां प्रतिलप्स्यथ ॥ ४९
प्राप्तः पर्यांयकालो व इति ब्रह्माऽभ्यभाषत । मत्प्रसादाच्च युष्माभिर्भुक्तं त्रैलोक्यमूर्जितम् ॥ ५०
युगाख्या दश संपूर्णा देवानाक्रम्य मूर्धनि । तावन्तमेवं कालं वै ब्रह्मा राज्यमभाषत ॥ ५१
साधार्णिके पुनस्तस्यं राज्यं किल भविष्यति । लोकानामीश्वरो भावी पौत्रस्तव पुनर्बलिः ॥ ५२
एवं किमहमं प्रोक्तः पौत्रस्ते ब्रह्मणा स्वयम् । तथा हतेषु लोकेषु तपोऽस्य न किलाभवत् ॥ ५३
यस्मात्प्रवृत्तश्चास्य न कामानाभिसंधिताः । तस्मादजेन प्रीतेन दत्तं सावार्णिकेऽन्तरे ॥ ५४
द्वराज्यं बलेर्भाव्यमिति मामीश्वरोऽब्रवीत् । तस्माददृश्यो भूतानां कालाकाङ्क्षी स तिष्ठति ॥ ५५
प्रीतेन चामरत्वं वै दत्तं तुभ्वं स्वयंभुवा । तस्मान्निरुत्सुकस्त्वं वै पर्यायं सह माकुलः ॥ ५६
नच शक्यं ममा तुभ्वं पुरस्ताद्वै विसर्जितुम् । ब्रह्मणा प्रतिषिद्धोऽस्मि भविष्यं जानता प्रभो ॥ ५७
[अ० ९८ श्लो० ५८-७९] वायुपुराणम् । ३६७
( विष्णुमाहात्म्यकथनम् )
इमौ च शिष्यौ द्वौ मह्यं तुल्यावेतौ बृहस्पतेः । दैवतैः सह संरब्धान्सर्वान्वो धारयिष्यतः । ५८
सूत उवाच—
एवमुक्तास्तु दैतेयाः काव्येनाक्लिष्टकर्मणा । ततस्ताभ्यां ययुः सार्धं प्रह्लादप्रमुखस्तदा ॥ ५९
अवश्यंभावमर्थत्वं(?) श्रुत्वा शुक्राच्च दानवाः । सकृदाशंसमानास्ते जयं काव्येन भाषितम् ॥ ६०
दंशिताः सायुधाः सर्वे ततो देवान्समाह्वयन् । अथ देवा*सुरान्दृष्ट्वा सङ्ग्रामे समुपस्थितान् ॥ ६१
ततः संवृत्तसंन्नाहा देवास्तान्समयोधयन् । दैतासुरे ततस्तस्मिन्वर्तमाने शतं समाः ॥
अजयन्नसुरा देवान्भग्ना देवा अमन्त्रयन् ॥ ६२
देवा ऊचुः—
षण्डामर्कप्रभावं न जानीमस्त्वसुरैर्यथम् । तस्माद्यज्ञं समुद्दिश्य कार्यं चाऽऽत्माहितं च यत् ॥ ६३
तज्ज्ञानापहतावेतौ कृत्वा जेष्यामहेऽसुरान् । अथोपामन्त्रयन्देवाः षण्डामकौँ तु तावुभौँ ॥ ६४
यज्ञे समाह्वयिष्यामस्त्यजतमसुरान्द्विजौ । ग्रहं तं वा ग्रहीष्यामो ह्यनुजित्य तु दानवान् ॥ ६५
एवं तत्यजतुस्तौ तु षण्डामकौँ तदाऽसुरान् । ततो देवा जयं प्राप्ता दानवाश्च पराभवन् ॥ ६६
+देवाऽसुरानपराभाव्य षण्डामर्कावुपागमन् । काव्यशापाभिभूताश्च अनाधाराश्च ते पुनः ॥ ६७
बध्यमानास्तदा देवैर्विविविशुस्ते रसातले । एवं निरुद्यमास्ते वै कृताः शक्रेण दानवाः ॥
ततः प्रभृति शापेन भृगुनैमित्तिकेन च ॥ ६८
जज्ञे पुनः पुनर्विष्णुर्यज्ञे च शिथिले प्रभुः । कर्तुं धर्मव्यवस्थानमधर्मस्य च नाशनम् ॥ ६९
प्रह्लादस्य निदेशे तु येऽसुरा न व्यवस्थिताः । मनुष्यवध्यांस्तान्सर्वान्प्रह्लाऽनुव्याहरत्प्रभुः ॥ ७०
धर्मात्मानारायणस्तस्मात्सम्भूतश्चाक्षुषेऽन्तरे । यज्ञं प्रवर्तयामास चैत्ये वैवस्वतेऽन्तरे ॥ ७१
प्रादुर्भावे तदाऽन्यस्य बलेरासीत्पुरोहितः । चतुर्थ्यां तु युगाख्यायामापन्नेष्वसुरेष्वथ ॥ ७२
संभूदः स समुद्रान्तहिरण्यकशिपोर्वधे । द्वितीयो नरसिंहोऽभूद्रुद्रः सुरपुरस्सरः ॥ ७३
बलिसंस्थेषु लोकेषु त्रेतायां सप्तमे युगे । दैत्यैस्त्रैलोक्य आक्रान्ते तृतीयो वामनोऽभवत् ॥ ७४
संक्षिप्याऽऽत्मानमङ्गेषु बृहस्पतिपुरस्सरम् । यजमानं तु दैत्येन्द्रमदित्याः कुलन्दनः ।!
द्विजो भूत्वा शुभे काले बलिं वैरोचनं पुरा ॥ ७५
त्रैलोक्यस्य भवान्राजा त्वयि सर्वं प्रतिष्ठितम् । दातुमर्हसि मे राजन्विक्रमांस्त्रीनिति प्रभुः ॥ ७६
ददामीत्येव तं राजा बलिवैरोचनोऽब्रवीत् । वामनं तं च विज्ञाय ततोऽनुमुदितः स्वयम् ॥ ७७
स वामनो दिवं खं च पृथिवीं च द्विजोत्तमः । त्रिभिः क्रमैर्विश्वमिदं जगदाक्रामत प्रभुः ॥ ७८
अत्यरिच्यत भूतात्मा भास्करं स्वेन वेजसा । प्रकाशयन्दिशः सर्वाः प्रदिशश्च महायशाः ॥ ७९
* अत्र संधिरार्षः । + अत्र संधिरार्षः ।
३६८ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ९८-श्लो० ८०-१०५]
(विष्णुमाहात्म्यकथनम्)
शुशुभे स महाबाहुः सर्वलोकान्प्रकाशयन् । आसुरीं श्रियमाहृत्य त्रींल्लोकांश्च जनार्दनः ॥ ८०
सपुत्रपौत्रानसुरान्पातालतलमिनयत् ॥ ८०
नमुचिः शम्बरश्चैव प्रह्लादश्चैव विष्णुना । क्रूरा हता विनिर्धूता दिशः संप्रतिपेदिरे ॥ ८१
महाभूतानि भूतात्मा सविशेषाणि माधवः । कालं च सकलं विप्रांस्तत्राद्भुतमदर्शयत् ॥ ८२
तस्य गात्रे जगत्सर्वमात्मानमनुपश्यति । न किंचिदस्ति लोकेषु यद्व्याप्तं महात्मना ॥ ८३
तद्वै रूपमुपेन्द्रस्य देवदानवमानवाः । दृष्ट्वा संमुमुहुः सर्वे विष्णुतेजोविमोहिताः ॥ ८४
बलिः सितो महापाशैः सबन्धुः ससुहृद्गणः । विरोचनकुलं सर्वं पाताले संनिवेशितम् ॥ ८६
ततः सर्वार्मरैश्वर्यं दत्त्वेन्द्राय महात्मने । मानुषेषु महाबाहुः प्रादुरासीज्जनार्दनः ॥ ८७
एतास्तिस्रः स्मृतास्तस्य दिव्याः संभूतयः शुभाः। मानुष्याः सप्त यास्तस्य शापजांस्तान्निबोधत॥८८
त्रेतायुगे तु दशमे दत्तात्रेयो बभूव ह । नष्टे धर्मे चतुर्थश्च मार्कण्डेयपुरःसरः ॥ ८९
( *पञ्चमः पञ्चदश्यां तु त्रेतायां संभव ह । मांधातुश्चक्रवर्तित्वे तस्थौ तथ्यपुरःसरः ॥ ९०
एकोनविंशे त्रेतायां सर्वक्षत्रान्तकोऽभवत् । जामदग्न्यस्तथा षष्ठो विश्वामित्रपुरःसर ) ॥ ९१
चतुर्विंशे युगे रामो वशिष्ठेन पुरोधसा । सप्तमो रावणस्यार्थे जज्ञे दशरथात्मजः ॥ ९२
अष्टमो द्वापरे विष्णुरष्टाविंशे पराशरात् । वेदव्यासस्ततो जज्ञे जातुकर्णपुरःसरः ॥ ९३
- तथैव नवमो विष्णुरदित्याः कश्यपात्मजः । देवक्यां वसुदेवात्तु ब्रह्मन्गार्ग्यपुरःसरः ॥ ९४
अप्रमेयो नियोज्यश्च यत्र कामचरो वशी । क्रीडते भगवाँल्लोके बालः क्रीडनकैरिव ॥ ९५
न प्रमातुं महाबाहुः शक्योऽसौ मधुसूदनः । परं परममेतस्माद्विश्वरूपान्न विद्यते ॥ ९६
अष्टविंशतितमे तद्वद्द्वापरस्यांशसंक्षये । नष्टे धर्मे तदा जज्ञे विष्णुर्वृष्णिकुले प्रभुः ॥ ९७
कर्तुं धर्मव्यवस्थानमसुराणां प्रणाशनम् । मोहयन्सर्वभूतानि योगात्मा योगमायया ॥ ९८
प्रविष्टो मानुषीं योनिं प्रच्छन्नश्चरते महीम् । विहारार्थं मनुष्येषु सान्दीपनिपुरःसरम् ॥ ९९
यत्र कंसं च साल्वं च द्विविदं च महासुरम् । अरिष्टं वृषभं चैव पूतनां केशिनं हयम् ॥ १००
नागं कुवलयापीडं मल्लराजगृहाधिपम् । दैत्यान्मानुषदेहस्थान्सूदयामास वीर्यवान् ॥ १०१
छिन्नं बाहुसहस्रं च बाणस्याद्भुतकर्मणः । नरकेश्च हतः संख्ये यवनश्च महाबलः ॥ १०२
हतानि च महीपानां सर्वरत्नानि तेजसा । दुराचाराश्च निहता पार्थिवा ये रसातले ॥ १०३
एते लोकहितार्थाय प्रादुर्भावा महात्मनः । अस्मिन्नेव युगे क्षीणे संध्याश्लिष्टे भविष्यति ॥
कल्किर्विष्णुयशा नाम पाराशर्यः प्रतापवान् । दशमो भाव्यसंभूतो याज्ञवल्क्यपुरःसरः ॥ १०४
अनुकर्षन्सर्वसेनां हस्त्यश्वरथसंकुलाम् । प्रगृहीतायुधैर्विप्रैर्वृतः शतसहस्रशः ॥ १०५
नात्यर्थं धार्मिका ये च ये च धर्मद्विषः क्वचित् । उदीच्यान्मध्यदेशांश्च तथा विन्ध्यापरान्तिकान् ॥
* एतच्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति । + अयं श्लोको न विद्यते घ. ङ पुस्तकयोः ।
[अ० ९८-९९श्लो० १०७-१२५।१-३] वायुपुराणम् । ३६९
( तुर्वस्वादि वंशकथनम् )
तथैव दाक्षिणात्यांश्च द्रविडांन्सिंहलैः सह । गान्धारान्पारदांश्चैव पल्हवान्यवनाञ्शकान् ॥ १०७
तुषारान्बर्बरांश्चैव पुलिन्दान्दरदान्खसान् । लम्पकानन्ध्रकान्रुद्धान्विकरातांश्चैव स प्रभुः ॥ १०८
प्रवृत्तचक्रो बलवान्म्लेच्छानामन्तकृद्वली । अदृश्यः सर्वभूतानां पृथिवीं विचरिष्यति ॥ १०९
मानवः स तु संजज्ञे देवस्यांशेन धीमतः । पूर्वजन्मनि विष्णुर्यः प्रमितिर्नाम वीर्यवान् ॥ ११०
गात्रेण वै चन्द्रसमः पूर्णे कलियुगेऽभवत् । इत्येतास्तस्य देवस्य दश संभूतयः स्मृताः ॥ १११
तं तं कालं च कार्यं च तत्तदुद्दिश्य कारणम् । अंशेन त्रिषु लोकेषु तास्ता योनीः प्रपत्स्यते ॥
पञ्चविंशोत्थिते कल्पे पञ्चविंशति वै समाः । विनिघ्नन्सर्वभूतानि मानुषानेव सर्वशः ॥ ११३
कृत्वा बीजावशेषां तु महीं क्रूरेण कर्मणा । संघातयित्वा वृषलान्प्रायशास्तानधार्मिकान् ॥ ११४
ततः स वै तदा कल्किश्चरितार्थः ससैनिकः । कर्मणा निहता ये तु सिद्धास्ते तु पुनः स्वयम् ॥
अकस्मात्कुपिताऽन्योन्यं भविष्यन्ति च मोहिताः । क्षपयित्वा तु तान्सर्वान्भाविनाऽर्थेन चोदितान् ॥
गङ्गायमुनयोर्मध्ये निष्ठां प्राप्स्यति सानुगः । ततो व्यतीते कल्कौ तु सामान्यैः(त्यै) सह सैनिकैः ॥
नृपेष्वथ विनष्टेषु तदा त्वप्रग्रहाः प्रजाः । रक्षणे विनिवृत्ते तु हत्वा चान्योन्यमाहवे ॥ ११८
परास्परहताश्वासा निराक्रन्दाः सुदुःखिताः । पुराणि हित्वा ग्रामांश्च तुल्यास्ता निष्परिग्रहाः ॥
प्रनष्टश्रुतिधर्माश्च नष्टधर्माश्रमास्तथा । ह्रस्वा अल्पायुषश्चैव भविष्यन्ति वनौकसः ॥ १२०
सरित्पर्वतसेविन्यः पत्रमूलफलाशनाः । चीरपत्राजिनधराः संकरं घे र्मास्थिताः ॥ १२१
अल्पायुषो नष्टवार्ता बह्वाबाधाः सदुःखिताः । एवं कष्टमनुप्राप्ताः कलिसंध्यांशके तदा ॥ १२२
प्रजाः क्षयं प्रयास्यन्ति सार्धं कलियुगेन तु । क्षीणे कलियुगे तस्मिन्प्रवृत्ते च कृते पुनः ॥ १२३
प्रपत्स्यन्ते यथान्यायं स्वभावादेव नान्यथा । इत्येतत्कीर्तितं सर्वं देवासुरविचेष्टितम् ॥ १२४
यदुवंशप्रसङ्गेन महद्भो वैष्णवं यशः । तुर्वसोस्तु प्रवक्ष्यामि पुरोर्दुह्योरनोस्तथा । १२५
इति श्रीमहापुराणे वायुप्रोक्ते विष्णुमहात्म्यकथनं नामाष्टनवतितमोऽध्यायः ॥ ९८ ॥
आदितः श्लोकानां समष्ट्यङ्काः-९०८
अथ नवनवतितमोऽध्याय ।
तुर्वस्वादि वंशवर्णनम् ।
तुर्वसोस्तु सुतो बह्निर्वह्नेर्गर्भोऽनुरात्मजः । गोभानोस्तु सुतो वीरास्त्रिसानुरपराजितः ॥ १
करन्धमस्त्रिसानोस्तु मरुत्तस्य तु चाऽऽत्मजः । अन्येस्त्वविक्षितो राजा मरुत्तः कथितः पुरा ॥ २
अनपत्यो मरुत्तस्तु स राजाऽऽसीदिति श्रुतः । दुष्कृतं पौरवं चापि सर्वे पुत्रमकल्पयन् ॥ ३
४७
३७० श्रीमद्वैपायनमुनिप्रणीतम्- [अ०१९श्लो०४-२९]
( तुर्वस्वादिवांशकथनम् )
एवं ययातिशांपेन जरायाः संक्रमेण तु । तुर्वसोः पौरवं वंशं प्रविवेश पुरा किल ॥ ४
दुष्कृतस्य तु दायादः शरूथो नाम पार्थिवः । शरूथात्तु जनापीडश्चत्वारस्तस्य चात्मजाः ॥ ५
पाण्ड्यश्च केरलश्चैव चोलः कुल्यस्तथैव च । तेषां जनपदाः कुल्याः पाण्ड्याश्चोलाः सकेरलाः ॥६
द्रुह्यस्य तनयौ वीरौ बभ्रुः सेतुश्च विश्रुतौ । । अरुद्धः सेतुपुत्रस्तु बाभ्रवो रिपुरुच्यते ॥ ७
यौवनाश्वेन समिति कृच्छ्रेण निहतो बली । युद्धं सुमहदासीत्तु मासान्परि चतुर्दश ॥ ८
अरुद्धस्य तु दायादो गान्धारो नाम पार्थिवः । ख्यायते यस्य नाम्ना तु गान्धारविषयो महान् ॥ ९
गान्धारदेशजाश्चापि तुरगा वाजिनां वराः । गान्धारपुत्रो धर्मस्तु धृतस्तस्य सुतोऽभवत् ॥ १०
धृतस्य दुर्दमो जज्ञे प्रचेतास्तस्य चाऽऽत्मजः । प्रचेतः पुत्रशतं राजानः सर्व एव ते ॥ ११
म्लेच्छराष्ट्राधिपाः सर्वे ह्युदीचीं दिशमाश्रिताः । अनोः पुत्रा महात्मानस्त्रयः परमधार्मिकाः ॥ १२
सभानरश्च पक्षश्च परपक्षस्तथैव च । सभानरस्य पुत्रस्तु विद्वान्कालानलो नृपः ॥ १३
* कालानलस्य धर्मात्मा सृञ्जयो नाम धार्मिकः । सृञ्जयस्याभवत्पुत्रो वीरो राजा पुरंजयः ॥ १४
जनमेजयो महासत्त्वः पुरंजयसुतोऽभवत् । जनमेजयस्य राजर्षेर्महाशालोऽभवन्नृपः ॥ १५
आसीदिन्द्रसमो राजा प्रतिष्ठितयशाः दिवि । महामनाः सुतस्तस्य महाशालस्य धार्मिकः ॥ १६
÷ सप्तद्वीपेश्वरो राजा चक्रवर्ती महायशाः । महामनास्तु पुत्रौ द्वौ जनयामास विश्रुतौ ॥ १७
उशीनरं च धर्मज्ञं तितिक्षुं चैव धार्मिकम् । उशीनरस्य पत्न्यस्तु पञ्च राजर्षिवंशजाः ॥ १८
मृगा कृमी नवा दर्वा पञ्चमी च दृषद्वती । उशीनरस्य पुत्रास्तु पञ्च तासु कुलोद्वहाः ॥
तपसा ते सुमहता जातवृद्धाश्च धार्मिकाः ॥ १९
मृगायास्तु मृगः पुत्रो नवाया नव एव तु । कृम्याः कृमिस्तु दर्वायाः सुव्रतो नाम धार्मिकः ॥ २०
दृषद्वतीसुतश्चापि शिबिरौशीनरो द्विजः । शिबेः शिवपुरं ख्यातं यौधेयं तु मृगस्य तु ॥ २१
नवस्य नवराष्ट्रं तु कृमेस्तु कृमिला पुरी । सुव्रतस्य तथाऽऽम्बष्ठा शिविपुत्रान्निबोधत ॥ २२
शिबेस्तु शिबयः पुत्राश्चत्वारो लोकसंमताः । वृषदर्भः सुवीरस्तु केकयो मद्रकस्तथा ॥ २३
तेषां जनपदाः स्फीताः केकया मद्रकस्तथा । वृषदभीः सूचिदर्भास्तितिक्षोः शृणुत प्रजाः ॥ २४
तितिक्षुरभवद्राजा पूर्वस्यां दिशि विश्रुतः । उशद्रथो महाबाहुस्तस्य हेमः सुतोऽभवत् ॥ २५
हेमस्य सुतपा जज्ञे सुतः सुतयशा बली । जातो मनुष्ययोन्यां वै क्षीण वंशे प्रजेप्सया ॥ २६
महायोगी स तु बलिवंशदो यः स महामनाः । पुत्रानुत्पादयामास चातुर्वर्ण्यकरान्भुवि ॥ २७
अङ्गं स जनयामास वङ्गं सुह्मं तथैव च । पुण्ड्रं कालिङ्गं च तथा बालेयं क्षत्रमुच्यते ॥ २८
बालेया ब्राह्मणाश्चैव तस्य वंशकराः प्रभोः । बलेस्तु ब्रह्मणा दत्ताः वराः प्रीतेन धर्मतः ॥ २९
* एतदादिश्लोकद्वयं ग पुस्तके नास्ति । ÷ अयं श्लोको न विद्यते ख पुस्तके ।
[अ० ९९ श्लो० ३०–५५] वायुपुराणम् । ३७१
( तुर्वस्वादि वंशकथनम् )
माहैद्योगित्वमायुश्च कल्पाद्युःपरिमाणकम् । सङ्ग्रामे चाप्यजेयत्वं धर्मे चैव प्रभावना ॥ ३०
त्रैलोक्यदर्शनं चैव प्राधान्यं प्रसवे तथा । बले चाप्रतिमत्वं वै धर्मतत्त्वार्थदर्शनम् ॥ ३१
चतुरो नियतान्वर्णांस्त्वं वै स्थापयितेति च । इत्युक्तो विभुना राजा बलिः शान्तिं परां ययौ ॥ ३२
कालेन महता विद्वांस्त्वं वै स्थानमुपागतः । तेषां जनपदाः स्फीता वङ्गाङ्गसुलकास्तथा ॥ ३३
पुण्ड्राः कालिङ्गाश्च तथा तेषां वंशं निबोधत । तस्य ते तनयाः सर्वे क्षेत्रजा मुनिसंभवाः ॥
संभूता दीर्घतमसः सुदेष्णायां महौजसः ॥ ३४
ऋषय ऊचुः—
कथं बलेः सुताः पञ्च जनिताः क्षेत्रजाः प्रभो । ऋषिणा दीर्घतमसा एतन्नो ब्रूहि पृच्छताम् ॥ ३५
सूत उवाच—
अशिजो नाम विख्यातः आसीद्धीमानृषिः पुरा । भार्या वै ममता नाम बभूवास्य महात्मनः ॥ ३६
अशिजस्य कनीयांस्तु पुरोधा यो दिवौकसाम् । बृहस्पतिर्बृहत्तेजा ममतां सोऽभ्यपद्यत ॥ ३७
उवाच ममता तं तु बृहस्पतिमनिच्छती । अन्तर्वत्न्यास्मि ते भ्रातुर्ज्येष्ठस्याष्टमिता इति* ॥ ३८
अयं हि मे महागर्भो रोचतेऽति बृहस्पते । अशिजं ब्रह्म चाभ्यस्य षडङ्गं वेदमृद्धिरन् ॥ ३९
अमोघरेतास्त्वं चापि न मां भजितुमर्हसि । अस्मिन्नेव गते काले यथा वा मन्यसे प्रभो ॥ ४०
एवमुक्तस्तया सम्यग्बृहत्तेजा बृहस्पतिः । कामात्मानं महात्माऽपि नाऽऽत्मानं सोऽभ्यधारयत् ॥ ४१
संबभूवव धर्मात्मा तथा सार्धं बृहस्पतिः । +(उत्सृजन्तं तदा रेतो गर्भस्थः सोऽभ्यभाषत ॥ ४२
नोत्खातक न्यसे (?) ह्यस्मिन्द्दयोर्नेहास्ति संभवः । अमोघरेतास्त्वं चापि पूर्वं चाहमिहाऽऽगतः ॥ ४३
शशाप तं तदा क्रुद्ध एवमुक्तो बृहस्पतिः । ] उशिजं तं सुतं भ्रातुर्गर्भस्थं भगवानृषिः ॥ ४४
यस्मत्त्वमीदृशे काले सर्वभूतेप्सिते सति । मामेवमुक्तवान्मोहात्तमो दीर्घं प्रवेक्ष्यसि ॥ ४५
ततो दीर्घतमा नाम शापादृषिरजायत । अथाशिजो बृहत्कीर्तिर्बृहस्पतिरिवौजसा ॥ ४६
ऊर्ध्वरेतास्ततश्चापि न्यवसद्भ्रातुराश्रमे । गोधर्मं सौरभेयात्तु वृषभाच्छ्रुतवान्प्रभो ॥ ४७
तस्य भ्राता पितृव्यस्तु चकार भवनं तदा । तस्मिन्हि तत्र वसति यदृच्छाभ्यागतो वृषः ॥ ४८
दर्शार्थमाहतान्दभ्रींश्चचार सुरभीवृतः । जग्राह तं दीर्घतमा विस्फुरन्तं च शृङ्गयोः ॥ ४९
स तेन निगृहीतस्तु न चचाल पदात्पदम् । ततोऽब्रवीद्वृषस्तं वै मुञ्च मां बलिनां वर ॥ ५०
न मयाऽऽसादितस्तात बलवांस्त्वद्विधः क्वचित् । त्र्यम्बकं वहता देवं यतो जातोऽस्मि(सि)भूतले ॥ ५१
मुञ्च मां बलिनां श्रेष्ठ प्रीतस्तेऽहं वरं वृणु । एवमुक्तोऽब्रवीदेनं जीवंस्त्वं मे क्व यास्यसि ॥ ५२
तेन त्वाहं न मोक्ष्यामि परस्वादं चतुष्पदम् । ततस्तं दीर्घतमसं स वृषः प्रत्युवाच ह ॥ ५३
नास्माकं विद्यते तात पातकं स्तेयमेव वा । भक्ष्याभक्ष्यं न जानीमः पेयापेयं च सर्वशः ॥ ५४
कार्याकार्यं न वै विद्मो गम्यागम्यं तथैव च । न पाप्मानो वयं विप्र धर्मो ह्येष गवां स्मृतः ॥ ५५
* ज्येष्ठस्येत्यादिपादस्त्रुटितो ग. घ. ङ. पुस्तकेषु ।
+ एतच्चिह्नान्तर्गतग्रन्थो ङ पुस्तके नास्ति ।
| ३७२ | श्रीमद्वैपायनमुनिप्रणीतम्- | [अ० १९ श्लो० ५६-७९] |
|---|---|---|
| ( तुर्वस्वादिवंशकथनम् ) |
गवां नाम स वै श्रुत्वा संभ्रान्तस्त्वनुमुच्य तम् । भक्त्या चाऽऽनुश्रविक्या गोषु तं वै प्रसादयत् ॥ ५६
प्रसादिते गते तस्मिन्गोधर्मं भक्तितस्तु तम् । मनसैव तदादत्ते तन्निष्ठस्तत्परायणः ॥ ५७
ततो यवीयसः पत्नीमोतथ्यस्याभ्यमन्यत । विचेष्टमानां रुदतीं दैवात्संमूढचेतनः ॥ ५८
अवलेपं तु तं मत्वा शरद्वांस्तस्य नाक्षमत् । गोधर्मं वै बलं कृत्वा स्नुषां स सममन्यत ॥ ५९
विपर्ययं तु तं दृष्ट्वा शरद्वान्प्रत्यचिन्तयत् । भविष्यमर्थं ज्ञात्वा च महात्मा च न मृत्युताम् ॥
प्रोवाच दीर्घतमसं क्रोधात्संरक्तलोचनः । गम्यागम्यं न जानीषे गोधर्मान्प्रार्थयन्स्नुषाम् ॥ ६१
दुर्वृत्तस्त्वं त्यजाम्येष गच्छ त्वं सेन कर्मणा । यस्मात्त्वमन्धो वृद्धश्च भर्त्तव्यो दुरनुष्ठितः ॥
तेनासि त्वं परित्यक्तो दुराचारोऽसि मे मतिः ॥ ६२
सूत उवाच--
कर्मण्यास्मिंस्ततः क्रूरे तस्य बुद्धिरजायत । निर्भर्त्स्य चैव बहुशो बाहुभ्यां परिगृह्य च ॥
कोष्ठे समुद्रे प्रक्षिप्य गङ्गाम्भसि समुत्सृजत् ॥ ६३
उह्यमानः समुद्रस्तु सप्ताहं स्रोतसा तदा । तं सस्त्रीको बलिर्नाम राजा धर्मार्थतत्त्ववित् ॥
अपश्यन्मज्जमानं तु सोऽयसाऽभ्याशमागतम् ॥ ६४
तं गृहीत्वा स धर्मात्मा बलिर्वैरोचनस्तदा । अन्तःपुरे जुगोपैनं भक्ष्यैर्भोज्यैश्च तर्पयन् ॥ ६५
प्रीतः स वै वरेणाथ च्छन्दयामास वै बलिम् । स च तस्माद्वरं वव्रे पुत्रार्थी दानवर्षभः ॥ ६६
बलिरुवाच--
संतानार्थं महाभाग भार्यायां मम मानद । पुत्रान्धर्मार्थसंयुक्तानुत्पादयितुमर्हसि ॥ ६७
एवमुक्तस्तु तेनर्षिस्तथाऽस्त्वित्युक्तवान्हितम् । सुदेष्णां नाम भार्या स्वां राजाऽस्मै प्राहिणोत्तदा ॥ ६८
अन्धं वृद्धं च तं दृष्ट्वा न सा देवी जगाम ह । स्वां च धात्रेयकीं तस्मै भूषयित्वा व्यसर्जयत् ॥ ६९
कक्षीवच्छुकुषौ तस्यां शूद्रयोन्यास्मृषिर्वशी । जनयामास धर्मात्मा पुत्रावेतौ महौजसौ ॥ ७०
कक्षीवच्छुकुषौ तौ तु दृष्ट्वा राजा बलिस्तदा । प्राधीतौ विधिवत्सम्यगधिरौ ब्रह्मवादिनौ ॥ ७१
सिद्धौ प्रत्यक्षधर्माणौ बुद्धौ श्रेष्ठतमाषपि । ममैताविति होवाच बलिर्वैरोचनस्त्वृषिम् ॥ ७२
नेत्युवाच ततस्तं तु ममैताविति चाब्रवीत् । उत्पन्नौ शूद्रयोनौ तु भवञ्छद्मासुरोत्तमौ ॥ ७३
अन्धं वृद्धं च मां मत्वा सुदेष्णा महिषी तव । प्राहिणोदवमानाय शूद्रां धात्रेयकीं मम ॥ ७४
ततः प्रसादयामास पुनस्तमृषिसत्तमम् । बलिर्भार्यां सुदेष्णां च भर्त्सयामास वै प्रभुः ॥ ७५
पुनश्चैनामलंकृत्य ऋषये प्रत्यपादयत् । तां स दीर्घतमा देवीमब्रवीद्यदि मां शुभे ॥ ७६
दध्ना लवणमिश्रेण स्व (सु) व्यक्तं नग्नकं तथा । लिहिष्यस्यजुगुप्सन्ती आपादतलमस्तकम् ॥ ७७
ततस्त्वं प्राप्स्यसे देवि पुत्रांश्च मनसेप्सितान् । तस्य सा तद्वचो देवी सर्वं कृतवती तथा ॥ ७८
अपानं च समासाद्य जुगुप्सन्ती न्यवर्जयत् । तामुवाच ततः सर्षिर्यंते परिहृतं शुभे ॥
विनाऽपानं कुमारं त्वं जनयिष्यसि पूर्वजम् ॥ ७९
ततस्तं दीर्घतमसं सा देवी प्रत्युवाच ह । नार्हसि त्वं महाभाग पुत्रं दातुं ममेदृशम् ॥ ८०
[अ० १९ श्लो० ८०-१०३] वायुपुराणम् । ३७३
( तुर्वस्वादि वंशकथनम् )
ततस्तं दीर्घतमसं सा देवी प्रत्युवाच ह । नार्हसि त्वं महाभाग पुत्रं दातुं ममेदृशम् ॥ ८०
( * ऋषिरुवाच—
तवापराधो देव्येष नान्यथा भविता नु वै । देवीदानीं च ते पुत्रमहं दास्यामि सुव्रते ॥ ८१
तस्यापानं विना चैव योग्याभावो (?) भविष्यति ।) तां स दीर्घतमाश्चैव कुक्षौ स्पृष्ट्वेदमब्रवीत् ॥ ८२
प्राशितं दधि यत्तेऽद्य ममाङ्गाद्वै शुचिस्मिते । तेन ते पूरितो गर्भः पौर्णमास्यामिवोदधिः ॥ ८३
भविष्यन्ति कुमारास्ते पञ्च देवसुतोपमाः । तेजस्विनः पराक्रान्ता यज्वानो धार्मिकास्तथा ॥ ८४
ततोऽङ्गरस्तु सुदेष्णाया ज्येष्ठपुत्रो व्यजायत । वङ्गस्तस्मात्कलिङ्गरस्तु पुण्ड्रो ब्रह्मस्तथैव च ॥ ८५
वंशभाजस्तु पञ्चैते बलेः क्षेत्रेऽभवंस्तदा । + इत्येतं दीर्घतमसा बलेर्दत्ताः सुताः पुरा ॥ ८६
प्रजास्त्वपहतास्तस्य ब्रह्मणो कारणं प्रति । अपत्यमस्य दारेषु स्वेषु मा भून्महात्मनः ॥ ८७
ततो मनुष्ययोन्यां वै जनयामास स प्रजाः । सुरभिर्दीर्घतमसमथ प्रीतो वचोऽब्रवीत् ॥ ८८
विचार्य यस्माद्धर्मं त्वमेवं कृतवानसि । तेन न्यायेन मुमुचे अहं प्रीतोऽस्मि तेन ते ॥ ८९
तस्मात्तव तमो दीर्घं निस्तुदाम्यद्य पश्य वै । बार्हस्पत्यं च यत्तेऽन्यत्पापं संतिष्ठते तनौ ॥ ९०
जरामृत्युभयं चैव आघ्राय प्रणुदामि ते । आघ्रातमात्रः सोऽपश्यत्सद्यस्तमसि नाशिते ॥ ९१
आयुष्मांश्च युवा चैव चक्षुष्मांश्च ततोऽभवत् । गवा दीर्घतमाः सोऽथ गौतमः समपद्यत ॥ ९२
कक्षीवांस्तु ततो गत्वा सह पित्रा गिरिप्रजाम् । यथोद्दिष्टं हि पित्रर्थे चचार विपुलं तपः ॥ ९३
ततः कालेन महता तपसा भावितः स वै । विधूय सानुजो दोषान्ब्राह्मण्यं प्राप्तवान्प्रभुः ॥ ९४
ततोऽब्रवीत्पिता चैनं पुत्रवानस्म्यहं प्रभो । सत्पुत्रेण त्वया तात कृतार्थोऽस्मि यशस्विना ॥ ९५
युक्तात्मा हि ततः सोऽथ प्राप्तवान्ब्रह्मणः क्षयम् । ब्राह्मण्यं प्राप्य कक्षीवान्सहस्रमसृजत्सुतान् ॥ ९६
कृष्णाङ्गा गौतमास्ते वै स्मृताः कक्षीवतः सुताः । इत्येष दीर्घतमसो बलेर्वैरोचनस्य वै ॥ ९७
समागमः समाख्यातः संतानं चोभयोस्तयोः । बलिस्तानमिसिच्च्येह पञ्च पुत्रानकल्मषान् ॥ ९८
कृतार्थः सोऽपि योगात्मा योगमाश्रित्य च प्रभुः । अदृश्यः सर्वभूतानां कालाकाङ्क्षी चरत्युत ॥
तत्राङ्गस्य तु राजर्षे राजाऽऽसीद्दधिवानः । सापराधसुदेष्णाया अनपानोऽभवन्नृपः ॥ १००
अनपानस्य पुत्रस्तु राजा दिविरथः स्मृतः । पुत्रो दिविरथस्याऽऽसीद्विद्वान्धर्मरथो नृपः ॥ १०१
× स वै धर्मरथः श्रीमान्येन विष्णुपदे गिरौ । सोमः शक्रेण सह वै यज्ञे पीतो महात्मना ॥ १०२
सूनुर्धर्मरथस्यापि राजा चित्ररथोऽभवत् । ( अथ चित्ररथस्यापि राजा दशरथोऽभवत् ॥
लोमपाद इति ख्यातो यस्य शान्ता सुताऽभवत् ॥ १०३
* एतच्चिह्नान्तर्गतग्रन्थो ङ. पुस्तके नास्ति । + इत्येत इत्यारभ्य संतानं चोभयोस्तयोरित्यन्त-ग्रन्थ ख. घ. पुस्तकयोर्नास्ति । × इत आरभ्य अन्यश्च भविता नृप इत्यग्रन्थो न विद्यते ग. पुस्तके । ( इदमर्धं न विद्यते क. घ. पुस्तकयोः ।
| ३७४ | श्रीमद्द्वैपायनमुनिप्रणीतम्- | [अ०१९श्लो०१०४-१२७] |
|---|---|---|
| (तुर्वस्वादिवंशकथनम्) |
[ *स तु दाशरथिर्वीरश्चतुरङ्गो महामनाः । ऋष्यशृङ्गप्रसादेन जज्ञेऽथ कुलवर्धनः ॥ १०४
चतुरङ्गश्च पुत्रस्तु पृथुलाक्ष इति श्रुतः । पृथुलाक्षसुतश्चापि चम्पो नाम बभूव ह ॥
चम्पस्य तु पुरी रम्या रम्या या मालिनी भवत् ॥ ] १०५
+ चम्पावती पुरी चम्पा चतुर्वर्णा च वै वसत् । षष्टिवर्षसहस्राणि चम्पावत्यां पुराऽवसत् ॥ १०६
ब्राह्मणैः क्षत्रियैर्वैश्यैः सर्वै स्वधर्मनुष्ठिते । सर्वे धर्मं वै तपसा सर्वे विष्णुपरायणाः(?) ॥
पूर्णभद्रप्रसादेन हर्यङ्गोऽस्य सुतोऽभवत् ॥ १०७
जज्ञे वै ताण्डिकरतस्य वारणं शुक्रवारणम् । आनयामास स महीं मन्त्रैर्वाहनमुत्तमम् ॥ १०८
हर्यङ्गस्य तु राजा दायादो भद्ररथः किल । अथ भद्ररथस्याऽऽसीद्बृहत्कर्मा प्रजेश्वरः ॥ १०९
बृहद्रथः सुतस्तस्य यस्माज्जज्ञे बृहन्मनाः । बृहन्मनास्तु राजेन्द्रो जनयामास वै सुतम् ॥ ११०
नाम्ना जयद्रथं नाम तस्माद्दढरथो नृपः । आसीद्दढरथस्यापि विश्वाजिज्जनमेजयः ॥ १११
दायादस्तस्य चाङ्गेभ्यो यस्मात्कर्णोऽभवन्नृपः । कर्णस्य सुरसेनस्तु द्विजस्तस्याऽऽत्मजः स्मृतः ॥११२
ऋषय ऊचुः—
सूतात्मजः कथं कर्णः कथं चाङ्गस्य वंशजः । एतदिच्छाम वै श्रोतुमत्यर्थं कुशलो ह्यसि ॥ ११३
सूत उवाच—
बृहद्भानोः सुतो जज्ञे नाम्ना राजा बृहन्मनाः । तस्य पत्नीद्वयं चाऽऽसीच्चैद्यस्योभे च ते सुते ॥
यशोदेवी च सत्या च ताभ्यां वंशस्तु भिद्यते । जयद्रथस्तु राजेन्द्रो यशोदेव्यां व्यजायत ॥ ११५
ब्रह्मक्षत्रान्तरः सत्यविजयो नाम विश्रुतः । विजयस्य धृतिः पुत्रस्तस्य पुत्रो धृतव्रतः ॥ ११६
धृतव्रतस्य पुत्रस्तु सत्यकर्मा महायशाः । सत्यकर्मसुतश्चापि सूतस्त्वधिरथस्तु वै ॥ ११७
स कर्णं परिजग्राह तेन कर्णस्तु सूतजः । एतद्वः कथितं सर्वं कर्णे यद्वै प्रचोदितम् ॥ ११८
सूत उवाच—
एतेऽङ्गवंशजाः सर्वे राजानः कीर्तिता मया । विस्तरेणाऽनुपूर्व्या च पुरोस्तु शृणुत प्रजाः ॥ ११९
पुरोः पुत्रो महाबाहुराजाऽऽसीज्जनमेजयः । अविद्धस्तु सुतस्तस्य यः प्राचीमजयद्दिशम् ॥ १२०
अविद्धतः प्रवीरस्तु मनस्युरभवत्सुतः । राजाऽथो जयदो नाम मनस्योरभवत्सुतः ॥ १२१
(÷दायादस्तस्य चाप्यासीद्दुन्धुर्नाम महीपतिः । धुन्धोर्बहुगवी पुत्रः संजातिस्तस्य चाऽऽत्मजः ॥ १२२
संजातेरथ रौद्राश्वस्तस्य पुत्रान्निबोधत ) । रौद्राश्वस्य घृताच्यां वै दशाप्सरसि सूनवः ॥ १२३
राजेयुश्च कृतेयुश्च कक्षेयुः स्थण्डिलेयु च । धृतेयुश्च जलेयुश्च स्थलेयुश्चैव सप्तमः ॥ १२४
धर्मेयुः संनतेयुश्च वनेयुर्दशमस्तु सः । रुद्रा शूद्रा च मद्रा च शुभा जामलजा तथा ॥ १२५
तला खला च सम्पैता या च गोपजला स्मृता । तथा ताम्ररसा चैव रत्नकूटी च ता दश ॥ १२६
आत्रेयो वंशतस्तासां भर्ता नाम्ना प्रभाकरः । अनाधृष्टस्तु राजर्षी रिवेयुस्तस्य चाऽऽत्मजः ॥ १२७
* धनुश्चिह्नान्तर्गतग्रन्थः ख. घ. ङ. पुस्तकेष्वेव ।
+ एतच्छ्लोकद्वयं घ. ङ. पुस्तकयोर्न ।
÷ एतच्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति ।
[अ०९९श्लो०१२८-१५३] वायुपुराणम् । ३७५
( तुर्वस्वादि वंशकथनम् )
रिवेयोर्ज्वलना नाम भार्या वै तक्षकात्मजा । यस्यां देव्यां स राजर्षी रन्तिं नाम त्वजीजनत् ॥ १२८
रन्तिनारः सरस्वत्यां पुत्रानजनयच्छुभान् । त्रसुं तथाऽप्रतिरथं ध्रुवं चैवातिधार्मिकम् ॥ १२९
गौरी कन्या च विख्याता मांधातुर्जननी शुभा । धुर्योऽप्रतिरथस्यापि कण्ठस्तस्याभवत्सुतः ॥ १३०
मेधातिथिः सुतस्तस्य यस्मात्काण्ठायना द्विजाः । इतिनानुयम (?) स्याऽऽसीत्कन्या साऽजनयत्सुतान्
त्रसोः सुदायितं पुत्रं मलिनं ब्रह्मवादिनम् । उपदान्तं ततो लेभे चतुरस्तिवति साऽऽत्मजान् ॥ १३२
सुष्मन्तमथ दुष्म (ष्य)न्तं प्रवीरमनघं तथा । चक्रवर्ती ततो जज्ञे दौष्म (ष्य)न्तिर्नृपसत्तमः ॥ १३३
शकुन्तलायां भरतो यस्य नाम्ना तु भारतम् । दुष्म (ष्य)न्तं राजानं प्रति वागुवाचाशरीरिणी ॥ १३४
माता भस्त्रा पितुः पुत्रो येन जातः स एव सः । भर स्वपुत्रं दुष्मन्त सत्यमाह शकुन्तला ॥ १३५
रेतोधाः पुत्रं नयति नरदेव यमक्षयात् । त्वं चास्य धाता गर्भस्य माऽवमंस्थाः शकुन्तलाम् ॥ १३६
भरतस्त्विषु स्त्रीषु नव पुत्रानजीजनत् । नाभ्यनन्दच्च तान्राजा नानुरूपान्ममेत्युत ॥ १३७
ततस्ता मातरः क्रुद्धाः पुत्रान्निन्पुर्यमक्षयम् । ततस्तस्य नरेन्द्रस्य वितथं पुत्रजन्म तत् ॥ १३८
ततो मरुद्भिरानीय पुत्रस्तु स बृहस्पतेः । संक्रामितो भरद्वाजो मरुद्भिः क्रतुभिर्विभुः ॥ १३९
तत्रैवोदाहरन्तीदं भरद्वाजस्य धीमतः । जन्मसंक्रमणं चैव मरुद्भिर्भरताय वै ॥ १४०
पत्न्यामासन्नगर्भायामुसिजः संस्थितः किल । भ्रातृभार्यां स दृष्ट्वाऽथ बृहस्पतिरुवाच ह ॥
अलंकृत्यो तनुं स्वां तु मैथुनं देहि मे शुभे ॥ १४१
एवमुक्ताऽब्रवीद्दे [* नमन्तर्वत्नी ह्यहं विभो । गर्भः परिणतश्चायं ब्रह्म व्याहरते गिरा ॥ १४२
अमोघरेतास्त्वं चापि धर्मश्चैव विगर्हितः । एवमुक्तोऽब्रवीदेनां ] स्मयमानो बृहस्पतिः ॥ १४३
विनयो नोपदेष्टव्यस्ततया मम कथं चन । हर्षमाणः प्रसभैनां मैथुनायोपचक्रमे ॥ १४४
ततो बृहस्पतिं गर्भो हर्षमाणमुवाच ह । संनिविष्टो ह्यहं पूर्वमिह तात बृहस्पते ॥ १४५
अमोघरेताश्च भवान्नावकाशोऽस्ति च द्वयोः । एवमुक्तः स गर्भेण कुपितः प्रत्युवाच ह ॥ १४६
यस्मान्मामीदृशे काले सर्वभूतोप्सिते सति । प्रतिषेधसि तत्तस्मात्तमो दीर्घं प्रवेक्ष्यसि ॥ १४७
पादाभ्यां तेन तच्छन्नं मातृद्वारं बृहस्पतेः । तदस्तस्तु तयोर्मध्येऽनिवार्यः शिशुकोऽभवत् ॥ १४८
सद्योजातं कुमारं तं दृष्ट्वाथ ममताऽब्रवीत् । गमिष्यामि गृहं स्वं वै भरद्वाजं बृहस्पते ॥ १४९
एवमुक्त्वा गतायां स पुत्रं त्यजति तत्क्षणात् । भरस्व बाढमित्युक्तो भरद्वाजस्ततोऽभवत् ॥ १५०
(+मातापितृभ्यां संत्यक्तं दृष्ट्वाऽथ मरुतः शिशुम् । गृहीत्वैनं भरद्वाजं जग्मुस्ते कृपया ततः ॥ १५१
तस्मिन्काले तु भरतो मरुद्भिः क्रतुभिः क्रमात् । ) काम्यनैमित्तिकैर्यज्ञैर्यजतेते पुत्रलिप्सया ॥ १५२
यदा स यजमानो वै पुत्रान्नाऽऽसादयत्प्रभुः । यज्ञं ततो मरुत्सोमं पुत्रार्थे पुनराहरत् ॥ १५३
* धनुश्चिह्नान्तर्गतपन्यः ख. पुस्तके न । + धनुश्चिह्नान्तर्गतपन्थो न घ. पुस्तके ।
३७६ श्रीमद्वैपायनमुनिप्रणीतम्— [अ०१९श्लो०१५४-१८०]
( तुर्वस्वादि वंशकथनम् )
तेन ते मरुतस्तस्य मरुत्सोमेन तोषिताः । भारद्वाजं ततः पुत्रं बार्हस्पत्यं मनीषिणम् ॥ १५४
भरतस्तु भरद्वाजं पुत्रं प्राप्य तदाऽब्रवीत् । प्रजायां संहतायां वै कृतार्थोऽहं त्वया विभो ॥ १५५
पूर्वं तु वितथं तस्य कृतं वै पुत्रजन्म हि । ततः स वितथो नाम भारद्वाजस्तथाऽभवत् ॥ १५६
तस्माद्दिव्यो भरद्वाजो ब्राह्मण्यात्क्षत्रियोऽभवत् । द्विमुखायननामा स स्मृतो द्विपितर(तृक)स्तु वै
ततोऽथ वितथे जाते भरतः स दिवं ययौ । वितथस्य तु दायादो भुवमन्युर्बभूव ह ॥ १५८
महाभूतोपमाश्चाऽऽसंश्चत्वारो भुवमन्युजाः । बृहत्क्षत्रो महावीर्यो नरो गायश्च वीर्यवान् ॥ १५९
नरस्य सांस्कृतिः पुत्रस्तस्य पुत्रौ महौजसौ । गुरुवीर्यस्त्रिदेवश्च सांस्कृत्याववरौ स्मृतौ ॥ १६०
दायादाश्चापि गायस्य शिनिद्वृद्धाबभूव ह । स्मृताश्चैते ततो गार्ग्याः क्षात्रोपेता द्विजातयः ॥ १६१
महावीर्यसुतश्चापि भिमस्तस्मादुभक्षयः । तस्य भार्या विशाला तु सुषुवे वै सुतत्रयम् ॥ १६२
त्रय्यारुणिं पुष्कारणं तृतीयं सुषुवे कपिम् । कपेः क्षत्रवरा ह्येते तयोः प्रोक्ता महर्षयः ॥ १६३
गार्ग्याः सांस्कृतयो वीर्याः क्षात्रोपेता द्विजातयः । संश्रिताऽऽङ्गिरसं पक्षं बृहत्क्षत्रस्य वक्ष्यति ॥
बृहत्क्षत्रस्य दायादः सुहोत्रो नाम धार्मिकः । सुहोत्रस्यापि दायादो हस्ती नाम बभूव ह ॥
तेनेदं निर्मितं पूर्वं नाम्ना वै हस्तिनापुरम् ॥ १६५
हस्तिनश्चापि दायादास्त्रयः परमधार्मिकाः । अजमीढो द्विजामीढः पुरुमीढस्तथैव च ॥ १६६
* अजमीढस्य पत्न्यस्तु शुभाः कुरुकुलोद्वहाः । नीलिनी केशिनी चैव धूमिती च वराङ्गना ॥
अजमीढस्य पुत्रास्तु तासु जाता कुलोद्वहाः । तपसोऽन्ते सुमहतो राज्ञो वृद्धस्य धार्मिकाः ॥ १६८
भरद्वाजप्रसादेन शृणुध्वं तस्य विस्तरम् । अजमीढस्य केशिन्यां कण्ठः समभवत्किल ॥ १६९
मेधातिथिः सुतस्तस्य तस्मात्कण्ठायना द्विजाः । अजमीढस्य धूमिन्यां जज्ञे बृहद्वसुर्नृपः ॥ १७०
बृहद्धसोर्बृहद्विष्णुः पुत्रस्तस्य महाबलः । बृहत्कर्मा सुतस्तस्य पुत्रस्तस्य बृहद्रथः ॥ १७१
विश्वजित्तनयस्तस्य सेनाजित्स्य चाऽऽत्मजः । अथ सेनजितः पुत्राश्चत्वारो लोकविश्रुताः ॥ १७२
रुचिराश्वश्च काव्यश्च रामो दृढधनुस्तथा । वत्सश्चावन्तको राजा यस्य ते परिवत्सराः ॥ १७३
रुचिराश्वस्य दायादः पृथुषेणो महायशाः । पृथुषेणस्य पारस्तु पारान्नीपोऽथ जज्ञिवान् ॥ १७४
यस्य चैकशंतं चाऽऽसीत्पुत्राणामिति नः श्रुतम् । नीपा इति सामाख्याता राजानः सर्व एव ते ॥
तेषां वंशकरः श्रीमान्राजाऽऽसत्कीर्तिवर्धनः । काम्पिल्ये समरो नाम स चेष्टसमरोऽभवत् ॥ १७६
समरस्य परः पारः सत्वदश्च इति त्रयः । पुत्राः सर्वगुणोपेताः पारपुत्रो वृषुर्वभौ ॥ १७७
वृषोस्तु सुकृतिर्नाम सुकृतेनेह कर्मणा । जज्ञे सर्वगुणोपेतो विभ्राजस्तस्य चाऽऽत्मजः ॥ १७८
विभ्राजस्य तु दायादस्त्वणुहो नाम पार्थिवः । बभूव शुकजामाता ऋचीभर्ता महायशाः ॥ १७९
अणुहस्य तु दायादो ब्रह्मदत्तो महातपाः । योगसूनुः सुतस्तस्य विष्वक्सेनोऽभवन्नृपः ॥ १८०
* न विद्यतेऽयं श्लोकः क. पुस्तके ।
[अ० ९९ श्लो० १८१-२०४] वायुपुराणम् । ३७७
( तुर्वस्वादि वंशकथनम् )
विभ्राजपुत्रा राजानः सुकृतेनेह कर्मणा । विश्वक्सेनस्य पुत्रस्तु उदक्सेनो बभूव ह ॥ १८१
भल्लाटस्तस्य दायादो येन राजा पुरा हतः । भल्लाटस्य तु दायादो राजाऽऽसीज्जनमेजयः ॥
उग्रायुधेन तस्यार्थे सर्वे नीपाः प्रणाशिताः ॥ १८२
ऋषय ऊचुः—
उग्रायुधः कस्य सुतः कस्मिन्वंशे च कीर्त्यते । किमर्थं चैव नीपास्ते तेन सर्वे प्रणाशिताः ॥ १८३
सूत उवाच—
द्विमीटस्य तु दायादो विद्वाञ्जज्ञे यवीनरः । धृतिमांस्तस्य पुत्रस्तु तस्य सत्यधृतिः सुतः ॥ १८४
अथ सत्यधृतेः पुत्रो दृढनेमिः प्रतापवान् । दृढनेमिसुतश्चापि सुवर्मा नाम पार्थिवः ॥ १८५
आसीत्सुवर्मणः पुत्रः सार्वभौमः प्रतापवान् । सार्वभौम इति ख्यातः पृथिव्यामेकराड्बभौ ॥ १८६
तस्यान्वये च महति महत्पौरवनन्दनः । महत्पौरवपुत्रस्तु राजा रुक्मरथः स्मृतः ॥ १८७
अथ रुक्मरथस्यापि सुपार्श्वो नाम पार्थिवः । सुपार्श्वतनयश्चापि सुमतिर्नाम धार्मिकः ॥ १८८
सुमेतेरपि धर्मात्मा राजा संनतिमान्प्रभुः । तस्याऽऽसीत्सन्नतिर्नाम कृतस्तस्य सुतोऽभवत् ॥ १८९
शिष्यो हिरण्यनाभेस्तु कौथुमस्य महात्मनः । चतुर्विंशतिधा तेन प्रोक्तास्ताः सामसंहिताः ॥ १९०
स्मृतास्ते प्राच्यनामानः कार्ता साम्नां तु सामगाः । कार्तिरुग्रायुधः सोऽथ वीरः पौरवनन्दनः ॥
बभूव येन विक्रम्य पृषतस्य पितामहः । नीलो नाम महाबाहुः पञ्चालाधिपतिर्हतः ॥ १९२
उग्रायुधस्य दायादः क्षेमो नाम महायशाः । क्षेमात्सुवीरः संजज्ञे सुवीरस्य नृपंजयः ॥
नृपंजयाद्भीररथ इत्येते पौरवाः स्मृताः ॥ १९३
अजमीढस्य नीलिन्यां नीलः समभवन्नृपः । नीलस्य तपसोग्रेण सुशान्तिरभ्यजायत ॥ १९४
पुरुजानुः सुशान्तेस्तु रिक्थस्तु पुरुजानुजः । *ततस्तु रिक्थदायादो भेदाच्च तनयास्त्विमे ॥ १९५
मुद्गलः सृञ्जयश्चैव राजा बृहदिषुस्तथा । यवीयांश्चापि विक्रान्तः काम्पिल्यश्चैव पञ्चमः ॥ १९६
पञ्चानां रक्षणार्थाय पितैतानभ्यभाषत । पञ्चानां विद्धि पञ्चैतान्स्फीता जनपदा युताः ॥ १९७
अलं संरक्षणे तेषां (+पञ्चाला इति विश्रुताः । मुद्गलस्यापि मौद्गल्याः क्षात्रोपेतद्विजातयः ॥ १९८
एते ह्याङ्गिरसः पक्षे संश्रिताः कण्ठमुद्गलाः । मुद्गलस्य सुतो ज्येष्ठो ) बलिष्ठः सुमहायशाः ॥ १९९
इन्द्रसेना यतो गर्भं बध्यश्वं प्रत्यपद्यत । बध्यश्वामिथुनं जज्ञे मेनका इति नः श्रुतिः ॥ २००
दिवोदासश्च राजर्षिरहल्या च यशस्विनी । शारद्वतस्तु दायादमहल्या समसूत ॥ २०१
शतानन्दमृषिश्रेष्ठं तस्यापि सुमहायशाः । पुत्रः सत्यधृतिर्नाम धनुर्वेदस्य पारगः ॥ २०२
अथ सत्यधृतेः शुक्लं दृष्ट्वाऽप्सरसमग्रतः । प्रचस्कन्दे शरस्तम्बे मिथुनं समपद्यत ॥ २०३
कृपया तच्च जग्राह शांतनुर्मृगयां गतः । कृपः स्मृतः स वै तस्माद्गौतमी च कृपी तथा ॥ २०४
* नायं श्लोको घ. पुस्तके । + धनुश्चिह्नान्तर्गतग्रन्थो ङ. पुस्तके नास्ति ।
४८
३७८ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०१९श्लो०२०५-२२९]
( तुर्वस्वादि वंशकथनम् )
एते शारद्वताः प्रोक्ता ऋतथ्या गौतमान्वयाः । अत ऊर्ध्वं प्रवक्ष्यामि दिवोदासस्य संततिम् ॥२०५
दिवोदासस्य दायादो बलिष्ठो मित्रयुर्नृपः । मैत्रेयस्तु ततो जज्ञे स्मृता एतेऽपि संश्रिताः ॥ २०६
एतेऽपि संश्रिताः पक्षं क्षात्रोपेतास्तु भार्गवाः । राजाऽपि च्यवनो विद्वांस्ततोऽपातिरथोऽभवत् ॥२०७
अथ वै च्यवनाद्धीमान्सुदासः समपद्यत । सौदासः सहदेवश्च सोमकस्तस्य चाऽऽत्मजः ॥ २०८
अजमीढः पुनर्जातः क्षीणे वंशे स सोमकः । सोमकस्य सुतो जन्तुर्हते तस्मिञ्शतं विभो ॥ २०९
पुत्राणामजमीढस्य सोमकत्वे महात्मनः । तेषां यवीयान्पृषतो द्रुपदस्य पिताऽभवत् ॥ २१०
धृष्टद्युम्नः सुतस्तस्य धृष्टकेतुश्च तत्सुतः । महिषी चाजमीढस्य धूम्रिनी पुत्रगार्धिनी ॥ २११
पुनर्भवे तपस्तेपे शतं वर्षाणि दुश्चरम् । हुताग्न्यनिद्रा ह्यभवत्पवित्रामितभोजना ॥ २१२
अहोरात्रं कुशेष्वेव सुष्वाप सुमहाव्रता । तस्यां वै धूम्रवर्णायामजमीढश्च वीर्यवान् ॥ २१३
ऋक्षं सा जनयामास धूम्रवर्णं सिताग्रजम् । ऋक्षात्संवरणो जज्ञे कुरुः संवरणादभूत् ॥ २१४
यः प्रयागं पदाऽऽक्रम्य कुरुक्षेत्रं चकार ह । कृष्ट्वैनं सुमहातेजा वर्षाणि सुबहून्यथ ॥ २१५
कृष्यमाणे तदा शक्रस्तत्रास्य वरदो वभौ । पुण्यं च रमणीयं च पुण्यकृद्भिर्निषेवितम् ॥ २१६
तस्यान्ववायाजाः ख्याताः कुरवो नृपसत्तमाः । कुरोस्तु दयिताः पुत्राः सुधन्वा जह्नुुरेव च ॥२१७
परिक्षितो महाराजः पुत्रश्चारिमर्दनः । सुधन्वनस्तु दायादः सुहोत्रो मतिमान्स्मृतः ॥ २१८
च्यवनस्तस्य पुत्रस्तु राजा धर्मार्थकोविदः । च्यवनस्य कृतः पुत्र इष्ट्वा यज्ञैर्महात्मयाः ॥ २१९
विश्रुतं जनयामास पुत्रमिन्द्रसखं नृपः । विद्योपरिचरं वीरं वसुं नामान्तरिक्षगम् ॥ २२०
विद्योपरिचराज्जज्ञे गिरिका सप्त सूनवः । महारथो मगधराड्विश्रुतो यो बृहद्रथः ॥ २२१
प्रत्यग्रहः कुशश्चैव यमाहुर्मणिवाहनम् । प्राथैल्यश्च लालित्यश्च मत्स्यकालस्य सप्तमः ॥ २२२
बृहद्रथस्य दायादः कुशाग्रो नाम विश्रुतः । कुशाग्रस्याऽऽत्मजश्चैव ऋषभो नाम वीर्यवान् ॥ २२३
ऋषभस्यापि दायाद पुष्पवान्नाम धार्मिकः । विक्रान्तस्तस्य दायादो राजा सत्यहितः स्मृतः ॥ २२४
तस्य पुत्रः सुधन्वा च तस्मादूर्जः प्रतापवान् । ऊर्जस्य नभसः पुत्रस्तस्माज्जज्ञे स वीर्यवान् ॥ २२५
शकले द्वे स वै जातो जरया संधितस्तु सः । जरासंधो महाबाहुर्जरया संधितस्तु सः ॥ २२६
सर्वक्षत्रस्य जेताऽसौ जरासंधो महाबलः । जरासंधस्य पुत्रस्तु सहदेवः प्रतापवा ॥ २२७
सहदेवात्मजः श्रीमान्सोमाधिः सुमहातपाः । श्रुतश्रवास्तु सोमाधिर्मागधः परिकीर्तितः ॥ २२८
सूत उवाच—
परिक्षितस्य दायादो बभूव जनमेजयः । *जनमेजयस्य पुत्रस्तु सुरथो नाम भूमिपः ॥
सुरथस्य तु दायादो भीमसेनोऽपि नामतः ॥ २२९
* इदमर्धं न विद्यते क. ख. घ. पुस्तके ।
[ अ०९९श्लो०२३०-२५४ ] वायुपुराणम् । ३७५
( तुर्वस्वादिवांशकथनम् )
जह्नूस्त्वजनयत्पुत्रं सुरथं नाम भूमिपम् । सुरथस्य तु दायादो वीरो राजा विदूरथः ॥ २३०
विदूरथसुतश्चापि सार्वभौम इति श्रुतिः । सार्वभौमाज्जयत्सेन आराधिस्तस्य चाऽऽत्मजः ॥ २३१
आराधितो महासत्त्व अयुतायुस्ततः स्मृतः । अक्रोधनोऽयुतायोस्तु तस्माद्देवातिथिः स्मृतः ॥ २३२
देवातिथेस्तु दायाद् ऋक्ष एव बभूव ह । भीमसेनस्तथा ऋक्षाद्दिलीपस्तस्य चाऽऽत्मजः ॥ २३३
दिलीपसूनुः प्रतिपस्तस्य पुत्रास्त्रयः स्मृताः । देवापिः शांतनुश्चैव बाह्लीकश्चैव ते त्रयः ॥ २३४
बाह्लीकस्य तु विज्ञेयः सप्तवाह्लीधरो नृपः । बाह्लीकस्य सुतश्चैव सोमदत्तो महायशाः ॥
जज्ञिरे सोमदत्तात्तु भूरिभूरिश्रवाः शलः ॥ २३५
दैवापिस्तु प्रवव्राजे वनं धर्मपरीप्सया । उपाध्यायस्तु देवानां देवापिरभवन्मुनिः ॥ २३६
च्यवनोऽस्य हि पुत्रस्तु इष्टकक्ष महात्मनः । शांतनुस्त्वभवद्राजा विद्वान्वै स महाभिषः ॥ २३७
इमं चोदाहरन्त्यत्र श्लोकं प्रति महाभिषम् । यं यं राजा स्पृशति वै जीर्णं समयतो नरम् ॥ २३८
पुनर्युवा स भवति तस्मान्ते शांतनुं विदुः । ततोऽस्य शांतनुत्वं वै प्रजास्विह परिश्रुतम् ॥
स तूपयेमे धर्मात्मा शांतनुर्जाह्नवीं नृपः ॥ २३९
तस्यां देवव्रतं भीष्मं पुत्रं सोऽजनयत्प्रभुः । स च भीष्म इति ख्यातः पाण्डवानां पितामहः ॥२४०
काले विचित्रवीर्यं तु दासेय्यजनयत्सुतम् । शांतनोर्दयितं पुत्रं प्रजाहितकरं प्रभुम् ॥
कृष्णद्वैपायनश्चैव क्षेत्रे वैचित्रवीर्यके ॥ २४१
धृतराष्ट्रं च पाण्डुं च विदुरं चाप्यजीजनत् । धृतराष्ट्रात्तु गान्धारी पुत्राणां सुषुवे शतम् ॥ २४२
तेषां दुर्योधनो ज्येष्ठः सर्वक्षत्रस्य स प्रभुः । माद्री राज्ञी पृथा चैव पाण्डोर्भार्ये बभूवतुः ॥ २४३
देवदत्ताः सुतास्ताभ्यां पाण्डोरर्थे विजज्ञिरे । धर्माद्युधिष्ठिरो जज्ञे वायोर्जज्ञे वृकोदरः ॥ २४४
इन्द्राद्धनंजयो जज्ञे शक्रतुल्यपराक्रमः । अंश्विभ्यां सहदेवश्च नकुलश्चापि माद्रिजौ ॥ २४५
पञ्चैव पाण्डवेभ्यश्च द्रौपद्यां जज्ञिरे सुताः । द्रौपद्यजनयज्ज्येष्ठं प्रतिविन्ध्यं युधिष्ठिरात् ॥ २४६
हिडिम्बा भीमसेनात्तु जज्ञे पुत्रं घटोत्कचम् । काश्या पुनर्भीमसेनाज्जज्ञे सर्ववृकं सुतम् ॥ २४७
सुहोत्रं विजया माद्री सहदेवादजायत । कमेरेण्यां तु वैश्यायां निरामित्रस्तु नाकुलिः ॥ २४८
सुभद्रायां रथी पार्थादभिमन्युरजायत । उत्तरायां तु वैराटां परिक्षिदभिमन्युजः ॥ २४९
परिक्षितस्तु दायादो राजाऽऽसीज्जनमेजयः । ब्राह्मणान्स्थापयामास स वै वाजसनेयिकान् ॥ २५०
असपत्नं तदामर्षाद्वैशम्पायन एव तु । न स्थास्यतीह दुर्बुद्धे तवैतद्वचनं भुवि ॥ २५१
यावत्स्थास्याम्यहं लोके तावन्नेतत्प्रशस्यते । अभितः संस्थितश्चापि ततः स जनमेजयः ॥ २५२
[*पौर्णमास्येन हविषा देवमिष्ट्वा प्रजापतिम् । विज्ञाय संस्थितोऽपश्यत्तदधीष्टं (तदिष्टं) विभोर्भखे ॥
परिक्षित्तनयश्चापि पौरवो जनमेजयः ] । द्विरश्वमेधमाहृत्य ततो वाजसनेयकम् ॥
प्रवर्त्तयित्वा तद्ब्रह्म त्रिखर्वी जनमेजयः ॥ २५४
* एतोच्चिह्नान्तर्गतग्रन्थः ख पुस्तके नास्ति ।
३८० | श्रीमद्द्वैपायनमुनिप्रणीतम्- | [अ०९९श्लो२५५-२७९]
(तुर्वस्वादि वंशकथनम्)
खर्वमन्धकममुख्यानां खर्वमङ्गनिवासिनाम्। खर्वं च मध्यदेशानां निखर्वी जनमेजयः ॥
विषादाद्गलणैः सार्धमभिशस्तः क्षयं ययौ ॥ २५५
तस्य पुत्रः शतानीको बलवान्सत्यविक्रमः । ततः सुतं शतानीकं विप्रास्तमभ्यषेचयन् ॥ २५६
पुत्रोऽश्वमेधदत्तोऽभूच्छतानीकस्य वीर्यवान् । पुत्रोऽश्वमेधदत्ताद्वै जातः पुरपरंजयः ॥ २५७
अधिसामकृष्णो धर्मात्मा सांप्रतोऽयं महायशाः । यस्मिन्प्रशासति महीं युष्माभिरिदमाहृतम् ॥ २५८
दुरापं दीर्घसत्रं वै त्रीणि वर्षाणि दुश्चरम् । वर्षद्वयं कुरुक्षेत्रे दृषद्वत्यां द्विजोत्तमाः ॥ * २५९
ऋषय ऊचुः--
श्रोतुं भविष्यमिच्छामः प्रजानां वै महामते । सूत सार्थं नृपैर्भाव्यं व्यतीतं कीर्तितं त्वया ॥ २६०
यत्तु संस्थास्यते कृत्यमुत्पत्स्यन्ति च ये नृपाः । वर्षायतोऽपि प्रब्रूहि नामतश्चैव तान्नृपान् ॥ २६१
कालं युगप्रमाणं च गुणदोषान्भविष्यतः । सुखदुःखं प्रजानां च धर्मतः कामतोऽर्थतः ॥ २६२
एतत्सर्वं प्रसंख्याय पृच्छतां ब्रूहि तत्त्वतः । स एवमुक्तो मुनिभिः सूतो बुद्धिमतां वरः ॥
आचचक्षे यथावृत्तं यथादृष्टं यथाश्रुतम् ॥ २६३
सूत उवाच--
यथा मे कीर्तितं सर्वं व्यासेनाद्भुतकर्मणा । भाव्यं कलियुगं चैव तथा मन्वन्तराणि तु ॥ २६४
अनागतानि सर्वाणि ब्रुवतो मे निबोधत । अतः ऊर्ध्वं प्रवक्ष्यामि भविष्यन्ति नृपास्तु ये ॥ २६५
ऐलाश्चैव तथैक्ष्वाकूसौद्युम्नाश्चैव पार्थिवान् । येषु संस्थाप्यते क्षत्रमैक्ष्वाकवमिदं शुभम् ॥ २६६
तान्सर्वान्कीर्तयिष्यामि भविष्ये पठितान्नृपान् । तेभ्यः परे च ये चान्ये उत्पत्स्यन्ते महीक्षितः २६७
क्षन्त्राः पारशवाः शूद्रास्तथा ये च द्विजातयः । अन्ध्राः शकाः पुलिन्दाश्च तूलिका पवनैः सह ॥
कैवर्ताभीरशबरा ये चान्ये म्लेच्छजातयः । वर्षायतः प्रवक्ष्यामि नामतश्चैव तान्नृपान् ॥ २६९
अधिसामकृष्णः सोऽयं सांप्रतं पौरवान्नृपः । तस्यान्ववाये वक्ष्यामि भविष्ये तावतो नृपान् ॥ २७०
आधिसामकृष्णपुत्रो निर्वक्तो भविता किल । गङ्गायाऽपहृते तस्मिन्नगरे नागसाह्वये ॥
त्यक्त्वा च तं सवासं च कौशम्ब्यां स निवत्स्यति ॥ २७१
भविष्यदुष्णस्तत्पुत्र उष्णाच्चित्ररथः स्मृतः । शुचिद्रथाश्चित्ररथाद्धृतिमांश्च शुचिद्रथात् ॥ २७२
सुषेणो वै महावीर्यो भविष्यति महायशाः । तस्मात्सुषेणाद्भाविता सुतीर्थो नाम पार्थिवः ॥ २७३
रुचः सुतीर्थाद्भाविता त्रिचक्षो भविता ततः । त्रिचक्षस्य तु दायादो भविता वै सुखी बलः ॥ २७४
सुखीबलसुतश्चापि भाव्यो राजा परिप्लवः । परि तत्सुश्चापि भविता सुनयो नृपः ॥ २७५
मेधावी सुनयस्याथ भविष्यति नराधिपः । मेधाविनः सुतश्चापि दण्डपाणिर्भविष्यति ॥ २७६
दण्डपाणेर्निरामित्रो निरामित्राच्च क्षेमकः । पञ्चविंशन्नृपा होते भविष्याः पूर्ववंशजाः ॥ २७७
अत्रानुवंशश्लोकोऽयं गीतो विप्रैः पुराविदैः । ब्रह्मक्षत्रस्य यो योनिर्वंशो देवर्षिसत्कृतः ॥ २७८
क्षेमकं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ । इत्येष पौरवो वंशो यथावदनुकीर्तितः २७९
* अत्राध्यायसमाप्तिर्दृश्यते ख पुस्तके ।
[अ० ९९ श्लो० २८०-३०६] वायुपुराणम् । ३८१
(तुर्वस्वादिवंशकथनम्)
धीमतः पाण्डुपुत्रस्य अर्जुनस्य महात्मनः । अत ऊर्ध्वं प्रवक्ष्यामि इक्ष्वाकूणां महात्मनाम् ॥ २८०
बृहद्रथस्य दायादो वीरो राजा बृहत्क्षयः । ततः क्षयः सुतस्तस्य वत्सव्यूहस्ततः क्षयात् ॥ २८१
वत्सव्यूहात्प्रतिव्यूहस्तस्य पुत्रो दिवाकरः । यश्च सांप्रतमध्यास्ते अयोध्यां नगरीं नृपः ॥ २८२
दिवाकरस्य भविता सहदेवो महायशाः । सहदेवस्य दायादो बृहदश्वो भविष्यति ॥ २८३
तस्य भानुरथो भाव्यः प्रतीताश्वश्च तत्सुतः । प्रतीताश्वसुतश्चापि सुप्रतीतो भविष्यति ॥
सहदेवः सुतस्तस्य सुनक्षत्रश्च तत्सुतः ॥ २८४
किंनरस्तु सुनक्षत्राद्भविष्यति परंतपः । भविता चान्तरिक्षस्तु किंनरस्य सुतो महान् ॥ २८५
अन्तरिक्षात्सुपर्णस्तु सुपर्णाच्चाप्यमित्रजित् । पुत्रस्तस्य भरद्वाजो धर्मी तस्य सुतः स्मृतः ॥ २८६
पुत्रः कृतंजयो नाम धर्मिणः स भविष्यति । कृतंजयसुतो व्रातो तस्य पुत्रो रणंजयः ॥ २८७
भविता संजयश्चापि वीरो राजा रणंजयात् । संजयस्य सुतः शाक्यः शाक्याच्छुद्धोदनोऽभवत् ॥
शुद्धोदनस्य भविता शाक्यार्थे राहुलः स्मृतः । प्रसेनाजित्ततो भाव्यः क्षुद्रको भविता ततः ॥ २८९
क्षुद्रकात्क्षुलिको भाव्यः क्षुलिकात्सुरथः स्मृतः । सुमित्रः सुरथस्यापि अन्त्यश्च भवति नृपः ॥
एत ऐक्ष्वाकवाः प्रोक्ता भवितारः कलौ युगे । बृहद्वलान्वये जाता भवितारः कलौ युगे ॥
शूराश्च कृतविद्याश्च सत्यसंधा जितेन्द्रियाः ॥ २९१
अत्रानुवंशश्लोकोऽयं भविष्यज्ञैरुदाहृतः । इक्ष्वाकूणामयं वंशः सुमित्रान्तो भविष्यति ॥ २९२
सुमित्रं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ । इत्येन्मानवं क्षत्रमैलं च समुदाहृतम् ॥ २९३
अत ऊर्ध्वं प्रवक्ष्यामि मागधेपान्बृहद्रथान् । जरासंधस्य ये वंशे सहदेवान्वये नृपाः ॥ २९४
अतीता वर्तमानाश्च भविष्याश्च तथा पुनः । प्राधान्यतः प्रवक्ष्यामि गदतो मे निबोधत ॥ २९५
सङ्ग्रामे भारते तस्मिन्सहदेवो निपातितः । सोमाधिस्तस्य तनयो राजर्षिः स गिरिव्रजे ॥ २९६
पञ्चाशतं तथाऽष्टौ च समा राज्यमकारयत् । श्रुतश्रवाश्चतुःषष्टिसमास्तस्य सुतोऽभवत् ॥ २९७
अयुतायुस्तु षड्विंशं राज्यं वर्षाण्यकारयत् । समाः शतं निरामित्रो महीं भुक्त्वा दिवं गतः ॥
पञ्चाशतं समाः षट् च सुंक्षत्तः प्राप्तवान्महीम् । त्रयोविंशं बृहत्कर्मा राज्यं वर्षाण्यकारयत् ॥ २९९
सेनाजित्सांप्रतं चापि एता वै भोक्ष्यते समाः । श्रुतंजयस्तु वर्षाणि चत्वारिंशद्भविष्यति ॥ ३००
महाबलो महाबाहुर्महाबुद्धिपराक्रमः । पञ्चविंशत्तु वर्षाणि महीं पालयिता नृपः ॥ ३०१
अष्टपञ्चाशतं चाब्दान्राज्ये स्थास्यति वै शुचिः । अष्टाविंशत्समाः पूर्णाः क्षेमो राजा भविष्यति ॥
भुवतस्तु चतुःषष्टी राज्यं प्राप्स्यति वीर्यवान् । पञ्चवर्षाणि पूर्णानि धर्मनेत्रो भविष्यति ॥ ३०३
भोक्ष्यते नृपतिश्चैव अष्टपञ्चाशतं समाः । अष्टत्रिंशत्समा राज्ये सुव्रतस्य भविष्यति ॥ ३०४
[* चत्वारिंशदष्टाष्टौ च दृढसेनो भविष्यति । त्रयस्त्रिंशत्तु वर्षाणि सुमतिः प्राप्स्यते ततः ॥ ३०५
द्वाविंशतिसमा राज्यं सुचलो भोक्ष्यते ततः] । चत्वारिंशत्समा राजा सुनेत्रो भोक्ष्यते ततः ॥ ३०६
* एतच्चिह्नान्तर्गतग्रन्थो न विद्यते ख. ग. पुस्तकयोः ।