वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 382, कुल 465 में से
संदर्भ में पढ़ें[अ० १९ श्लो० ८०-१०३] वायुपुराणम् । ३७३
( तुर्वस्वादि वंशकथनम् )
ततस्तं दीर्घतमसं सा देवी प्रत्युवाच ह । नार्हसि त्वं महाभाग पुत्रं दातुं ममेदृशम् ॥ ८०
( * ऋषिरुवाच—
तवापराधो देव्येष नान्यथा भविता नु वै । देवीदानीं च ते पुत्रमहं दास्यामि सुव्रते ॥ ८१
तस्यापानं विना चैव योग्याभावो (?) भविष्यति ।) तां स दीर्घतमाश्चैव कुक्षौ स्पृष्ट्वेदमब्रवीत् ॥ ८२
प्राशितं दधि यत्तेऽद्य ममाङ्गाद्वै शुचिस्मिते । तेन ते पूरितो गर्भः पौर्णमास्यामिवोदधिः ॥ ८३
भविष्यन्ति कुमारास्ते पञ्च देवसुतोपमाः । तेजस्विनः पराक्रान्ता यज्वानो धार्मिकास्तथा ॥ ८४
ततोऽङ्गरस्तु सुदेष्णाया ज्येष्ठपुत्रो व्यजायत । वङ्गस्तस्मात्कलिङ्गरस्तु पुण्ड्रो ब्रह्मस्तथैव च ॥ ८५
वंशभाजस्तु पञ्चैते बलेः क्षेत्रेऽभवंस्तदा । + इत्येतं दीर्घतमसा बलेर्दत्ताः सुताः पुरा ॥ ८६
प्रजास्त्वपहतास्तस्य ब्रह्मणो कारणं प्रति । अपत्यमस्य दारेषु स्वेषु मा भून्महात्मनः ॥ ८७
ततो मनुष्ययोन्यां वै जनयामास स प्रजाः । सुरभिर्दीर्घतमसमथ प्रीतो वचोऽब्रवीत् ॥ ८८
विचार्य यस्माद्धर्मं त्वमेवं कृतवानसि । तेन न्यायेन मुमुचे अहं प्रीतोऽस्मि तेन ते ॥ ८९
तस्मात्तव तमो दीर्घं निस्तुदाम्यद्य पश्य वै । बार्हस्पत्यं च यत्तेऽन्यत्पापं संतिष्ठते तनौ ॥ ९०
जरामृत्युभयं चैव आघ्राय प्रणुदामि ते । आघ्रातमात्रः सोऽपश्यत्सद्यस्तमसि नाशिते ॥ ९१
आयुष्मांश्च युवा चैव चक्षुष्मांश्च ततोऽभवत् । गवा दीर्घतमाः सोऽथ गौतमः समपद्यत ॥ ९२
कक्षीवांस्तु ततो गत्वा सह पित्रा गिरिप्रजाम् । यथोद्दिष्टं हि पित्रर्थे चचार विपुलं तपः ॥ ९३
ततः कालेन महता तपसा भावितः स वै । विधूय सानुजो दोषान्ब्राह्मण्यं प्राप्तवान्प्रभुः ॥ ९४
ततोऽब्रवीत्पिता चैनं पुत्रवानस्म्यहं प्रभो । सत्पुत्रेण त्वया तात कृतार्थोऽस्मि यशस्विना ॥ ९५
युक्तात्मा हि ततः सोऽथ प्राप्तवान्ब्रह्मणः क्षयम् । ब्राह्मण्यं प्राप्य कक्षीवान्सहस्रमसृजत्सुतान् ॥ ९६
कृष्णाङ्गा गौतमास्ते वै स्मृताः कक्षीवतः सुताः । इत्येष दीर्घतमसो बलेर्वैरोचनस्य वै ॥ ९७
समागमः समाख्यातः संतानं चोभयोस्तयोः । बलिस्तानमिसिच्च्येह पञ्च पुत्रानकल्मषान् ॥ ९८
कृतार्थः सोऽपि योगात्मा योगमाश्रित्य च प्रभुः । अदृश्यः सर्वभूतानां कालाकाङ्क्षी चरत्युत ॥
तत्राङ्गस्य तु राजर्षे राजाऽऽसीद्दधिवानः । सापराधसुदेष्णाया अनपानोऽभवन्नृपः ॥ १००
अनपानस्य पुत्रस्तु राजा दिविरथः स्मृतः । पुत्रो दिविरथस्याऽऽसीद्विद्वान्धर्मरथो नृपः ॥ १०१
× स वै धर्मरथः श्रीमान्येन विष्णुपदे गिरौ । सोमः शक्रेण सह वै यज्ञे पीतो महात्मना ॥ १०२
सूनुर्धर्मरथस्यापि राजा चित्ररथोऽभवत् । ( अथ चित्ररथस्यापि राजा दशरथोऽभवत् ॥
लोमपाद इति ख्यातो यस्य शान्ता सुताऽभवत् ॥ १०३
* एतच्चिह्नान्तर्गतग्रन्थो ङ. पुस्तके नास्ति । + इत्येत इत्यारभ्य संतानं चोभयोस्तयोरित्यन्त-ग्रन्थ ख. घ. पुस्तकयोर्नास्ति । × इत आरभ्य अन्यश्च भविता नृप इत्यग्रन्थो न विद्यते ग. पुस्तके । ( इदमर्धं न विद्यते क. घ. पुस्तकयोः ।