सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

लक्षणानि सुवर्णानि श्राद्धे पात्राणि दापयेत् । रसास्तमुपतिष्ठन्ति भक्ष्याः सौभाग्यमेव च ॥ १९

२९८ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०८०श्लो०१७-४३]

(श्राद्धकल्पः)

जीवितस्य प्रदानाद्धि नान्यद्दानं विशिष्यते । तस्मात्सर्वप्रयत्नेन देयं प्राणाभिरक्षणम् ॥ १७
अहिंसा सर्वदेवेभ्यः पवित्रा सर्वदायिनी । दानं हि जीवितस्याऽऽहुः प्राणिनां परमं बुधाः ॥ १८
लक्षणानि सुवर्णानि श्राद्धे पात्राणि दापयेत् । रसास्तमुपतिष्ठन्ति भक्ष्याः सौभाग्यमेव च ॥ १९
पात्रं वै तैजसं दद्यान्मनोज्ञं श्राद्धभोजने । पात्रं भवति कामानां रूपस्य च धनस्य च ॥ २०
(* रजतं काञ्चनं वाऽपि दद्याच्छ्राद्धे तु कर्माणि । दत्त्वा तु लभते दाता प्रकामं धर्ममेव च ) ॥
धेनुं श्राद्धे तु यो दद्याद्गुष्टिं कुम्भोपदोहनीम् । गावस्तमुपतिष्ठन्ति गवां पुष्टिश्चतैव च ॥ २२
शिशिरेषु तथा त्वग्निं बहुकाष्ठं तथैव च । + इन्धनानि तु यो दद्याद्विजेभ्यः शिशिरागमे ॥ २३
नित्यं जयति सङ्ग्रामे श्रिया युक्तश्च दीप्यते । सुरभीणि च माल्यानि गन्धवन्ति तथैव च ॥ २४
पूजयित्वा तु पात्राणि श्राद्धे सत्कृत्य दापयेत् । गन्धवाहा महानद्यः सुखानि विविधानि च ॥ २५
दातारमुपतिष्ठन्ति युवत्यश्च मनोरमाः । शयनासनानि रम्याणि भूमयो वाहनानि च ॥ २६
श्राद्धेष्वेतानि यो दद्यादश्वमेधफलं लभेत् । श्राद्धकाले निवेद्यं च दर्शश्राद्ध उपस्थिते ॥ २७
विप्राणां गुणयुक्तानां स्मृतिं मेधां च विन्दति । सर्पिष्पूर्णानि पात्राणि श्राद्धे सत्कृत्य दापयेत् ॥ २८
×कुम्भदोहनधेनूनां बह्वीनां च फलं लभेत् । अस्मिंस्तु मोदते लोके स्यन्दनेश्व सुवाहनैः ॥ २९
श्राद्धे यथेप्सितं दत्त्वा पुण्डरीकस्य यत्फलम् । रम्यमावसथं दत्त्वा राजसूयफलं लभेत् ॥ ३०
वनं पुष्पफलोपेतं दत्त्वा सौरभमश्नुते । कूपारामतडागानि क्षेत्रघोषगृहाणि च ॥ ३१
दत्त्वैतान्मोदते स्वर्गे नित्यमाचन्द्रतारकम् । आस्तीर्णशयनं दत्त्वा राजसूयफलं लभेत् ॥ ३२
पितरस्तस्य तुष्यन्ति स्वर्गे चाऽऽनन्त्यमश्नुते । राजाभिः पूज्यते चापि धनधान्यैश्च वर्धते ॥ ३३
ऊर्णाकौशेयवस्त्राणि तथा प्रवरकम्बलो । अजिनं काञ्चनं पट्टं प्रवेणीमृगलोमकम् ॥ ३४
दानान्येतानि विप्रेभ्यो भोजयित्वा यथाविधि । प्राप्नोति श्रद्धधानस्तु वाजपेयशतं फलम् ॥ ३५
बह्वयो नार्यः सुरूपास्तु पुत्रा भृत्याश्च किंकराः । वशे तिष्ठन्ति भूतानि अस्मिँल्लोके त्वनामयम् ॥ ३६
कौशेयं क्षौमकार्पासं दुकूलमहतां तथा । श्राद्धेष्वेतानि यो दद्यात्कामानामोति पुष्कलान् ॥ ३७
अलक्ष्मीं विनुदत्याशु तमः सूर्योदये यथा । भ्राजते स विमानाग्र्ये नक्षत्रेष्विव चन्द्रमाः ॥ ३८
वासो हि सर्वदैवस्त्वभितुष्टम् । वस्त्राभावे क्रिया नास्ति यज्ञा वेदास्तपांसि च ॥ ३९
तस्माद्वस्त्राणि देयानि श्राद्धकाले विशेषतः । तानि सर्वाण्यवाप्नोति यज्ञवेदतपांसि च ॥ ४०
नित्यं श्राद्धेषु यो दद्यात्प्रयत्नस्तत्परायणः । सर्वान्कामानवाप्नोति स्वर्गं राज्यं तथैव च ॥ ४१
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते । भक्ष्यान्धानाः करम्भांश्च पिष्टकाद्युन्तशर्कराः ॥ ४२
कृशरान्मधुपर्कं च पयः पायसमेव च । स्निग्धांश्च पूपान्यो दद्यादग्निष्टोमस्य यत्फलम् ॥ ४३


* धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति । + इतउत्तरमेतदर्धमधिकम् 'कायाग्निदीप्तिः प्राकाश्ये रूपं सौभाग्यमेव च' इति ख. घ. ङ. पुस्तकेषु । × एतदर्धस्थानेऽयं पाठः 'कुम्भोदोहधेनूनां बह्वीनां फलमश्नुते ' इति ख. ग. घ. ङ. पुस्तकेषु ।

[अ० ८०-८१ श्लो० ४४-६२।१] वायुपुराणम् २९९

( श्राद्धकल्पः )

दधि गव्यमसंसृष्टं भक्ष्यान्नानाविधांस्तथा । तदन्नं शोचति श्राद्धे वर्षासु च मघासु च ॥ ४४
घृतेन भोजयेद्विप्रान्वृतं भूमौ समुत्सृजेत् । गयायां हस्तिनश्चैव दत्त्वा श्राद्धे न शोचति ॥ ४५
ओदनं वायसं सर्पिर्मधुमूलफलानि च । भक्ष्यांश्च विविधान्दत्त्वा प्रेत्य चेह च मोदते ॥ ४६
शर्कराक्षीरसंयुक्तं पृथुकं नित्यमक्षयम् । स्युश्च संवत्सरं प्रीताः कृशरैर्महिषेण च ॥ ४७
सकुलाजास्तथा पूपाः कुल्माषव्यञ्जनैस्तथा । सर्पिःस्निग्धानि हृद्यानि दध्ना सक्तूंस्तु भोजयेत् ॥
श्राद्धेष्वेतानि यो दद्यात्पद्मानि लभते निधिम् ॥ ४८
नवसस्यानि यो दद्याच्छ्राद्धे सत्कृत्य यत्नतः । सर्वभोगानवाप्नोति पूज्यते च दिवं गतः ॥ ४९
भक्ष्यभोज्यानि चोष्माणि पेयलेह्यवराणि च । सर्वश्रेष्ठानि यो दद्यात्सर्वश्रेष्ठो भवेन्नरः ॥ ५०
वैश्वदेवं च सौम्यं च खाड्गमांसं परं हविः । विषाणं वर्जयेत्खाड्गं असूयां नाशयामहे ॥ ५१
भोजनेऽग्र्यासनं दद्यादातिथिभ्यः कृताञ्जलिः । सर्वयज्ञक्रियाणां स फलं प्राप्नोत्यनुत्तमम् ॥ ५२
क्षिप्रमत्युष्णमाक्लिष्टं दद्याचान्नं बुभुक्षते । व्यञ्जनं च तथा स्निग्धं भक्त्या सत्कृत्य यत्नतः ॥ ५३
तरुणादित्यसंकाशं विमानं हंसवाहनम् । अन्नदो लभते तिस्रः कन्याकोटीस्तथैव च ॥ ५४
अन्नदानात्परं दानं विद्यते नेह किंचन । अन्नाद्भूतानि जायन्ते जीवन्ति च न संशयः ॥ ५५
जीवदानात्परं दानं न किंचिदिह विद्यते । अन्नैर्जीवन्ति त्रैलोक्यमन्नस्यैव हि तत्फलम् ॥ ५६
अन्ने लोकाः प्रतिष्ठन्ति लोकदानस्य तत्फलम् । अन्नं प्रजापतिः साक्षात्तेन सर्वमिदं ततम् ॥
तस्मादन्नसमं दानं न भूतं न भविष्यति ॥ ५७
यानि रत्नानि मेदिन्यां वाहनानि स्त्रियस्तथा । क्षिप्रं प्राप्नोति तत्सर्वं पितृभक्तो हि मानवः ॥ ५८
प्रतिश्रयं सदा दद्यादातिथिभ्यः कृताञ्जलिः । देवास्ते संप्रतीक्षन्ते दिव्यातिथिभिः सहस्रशः ॥ ५९
सर्वाण्येतानि यो दद्यात्पृथिव्यामेकराड्भवेत् । त्रिभिर्द्वाभ्यामथैकेन दानेन तु सुखी भवेत् ॥ ६०
दानानि परमो धर्मः सद्भिः सत्कृत्य पूजितः । त्रैलोक्यस्याऽऽधिपत्यं हि दानादेव व्यवस्थितम् ॥ ६१
राजा तु लभते राज्यमधनश्चोत्तमं धनम् । क्षीणायुर्लभते चाऽऽयुः पितृभक्तः सदा नरः ॥
यान्कामान्मनसाऽर्थेत तांस्तस्य पितरो ददुः ॥ ६२

इति श्रीमहापुराणे वायुप्रोक्ते श्राद्धकल्पे दानफलं नामाशीतितमोऽध्यायः ॥ ८० ॥
आदितः श्लोकानां समष्ट्यङ्काः--७३२१


अथैकाशीतितमोऽध्यायः ।

श्राद्धकल्पे तिथिविशेषे श्राद्धफलम् ।

बृहस्पतिरुवाच--
अत ऊर्ध्वं प्रवक्ष्यामि श्राद्धकर्माणि पूजितम् । काम्यनैमित्तिकाजस्रं श्राद्धकर्मणि नित्यशः ॥ १

३०० श्रीमद्वैपायनमुनिप्रणीतम्- [अ०८१श्लो०२-२६]
( श्राद्धकल्पः)

पुत्रदा धनमूलाः स्युरष्टकास्तिस्र एव च । पूर्वपक्षो वरिष्ठो हि पूर्वा चित्री उदाहृता ॥ २
प्राजापत्या द्वितीया स्यात्तृतीया वैश्वदैविकी । आद्या पूपैः सदा कार्या मांसैरन्या भवेत्सदा ॥ ३
( * शाकैरन्या तृतीया स्यादेवं द्रव्यगवो विधिः । अन्वष्टका पितॄणां वै नित्यमेव विधीयते ॥ ४
यद्यन्या च चतुर्थी स्यात्तां च कुर्याद्विशेषतः । नासु श्राद्धं बुधः कुर्यात्सर्वस्वैनापि नित्यशः ॥ ५
परत्रेह च सर्वेषु नित्यमेव सुखीभवेत् । पूजकानां सदोत्कर्षो नास्तिकानामधोगतिः ॥ ६
पितरः पर्वकालेषु तिथिकालेषु देवताः । सर्वे पुरुषमायान्ति निपानमिव धेनवः ॥ ७
मा स्म ते प्रतिगच्छेयुरष्टकाः सूरपूजिताः । मोघस्तस्य भवेल्लोको लब्धं चास्य विनश्यति ॥ ८
देवांस्तु दायिनो यान्ति तिर्यग्गच्छन्त्यदायिनः । प्रजां पुष्टिं स्मृतिं मेधां पुत्रानैश्वर्यमेव च ॥ ९
कुर्वाणः पौर्णमास्यां च पूर्वं पूर्णं समश्रुते । प्रतिपद्धनलाभाय लब्धं चास्य न नश्यति ॥ १०
द्वितीयायां तु यः कुर्याद्द्विपदाधिपतिर्भवेत् । वरार्थीनां तृतीया तु शत्रुघ्नी पापनाशिनी ॥ ११
चतुर्थी कुरुते श्राद्धं शत्रोश्छिद्राणि पश्यति । पञ्चम्यां वै प्रकुर्वाणः प्राप्नोति महतीं श्रियम् ॥ १२
षष्ठ्यां श्राद्धानि कुर्वाणं द्विजास्तं पूजयन्त्युत । कुरुते यस्तु सप्तम्यां श्राद्धानि सततं नरः ॥ १३
महासत्रमवाप्नोति गणानामधिपो भवेत् । संपूर्णामृद्धिमाप्नोति योऽष्टम्यां कुरुते नरः ॥ १४
श्राद्धं नवम्यां कुर्वाणं ऐश्वर्यं काङ्क्षितं स्त्रियम् । कुर्वन्दशम्यां तु नरो ब्राह्मीं श्रियमवाप्नुयात् ॥ १५
वेदांश्चैवाऽऽप्नुयात्सर्वान्प्रणाशमेन सस्तथा । एकादश्यां परं दानमैश्वर्यं सततं तथा ॥
द्वादश्यां राष्ट्रलाभं तु जयमाहुर्वसूनि च ॥ १६
प्रजां बुद्धिं पशून्मेधां स्वातन्त्र्यं पुष्टिमूत्तमाम् । दीर्घमायुरथैश्वर्यं कुर्वाणस्तु त्रयोदशीम् ॥ १७
युवानश्च मृता यस्य गृहे तेषां प्रदापयेत् । शस्त्रेण तु हता ये वै तेषां दद्याच्चतुर्दशीम् ॥ १८
तथा विषमजातानां यमलानां तु सर्वशः । अमावास्यां प्रयत्नेन श्राद्धं कुर्याच्छुचिः सदा ॥ १९
सर्वान्कामानवाप्नोति स्वर्गमानन्त्यमश्नुते । ऋतं दद्यादमावास्यां सोममाप्यायनं महत् ॥ २०
एवमाप्यायितः सोमस्त्रींल्लोकान्धारयिष्यति । सिद्धचारणगन्धर्वैः स्तूयमानस्तु नित्यशः ॥ २१
स्तवैः पुष्पैर्मनोज्ञैश्च सर्वकामपरिच्छदैः । नृत्यवादित्रगीतैश्च अप्सरोभिः सहस्रशः ॥ २२
उपक्रीडैर्विमानैस्तु पितृभक्तं दृढव्रतम् । स्तुवन्ति देवगन्धर्वाः सिद्धसंघाश्च तं सदा ॥ २३
पितृभक्तस्त्वमावस्यां सर्वान्कामानवाप्नुयात् । प्रत्यक्षमर्चितास्तेन भवन्ति पितरः सदा ॥ २४
पितृदेवा मघा यस्मात्तस्माच्चास्वक्षयं स्मृतम् । पित्र्यं कुर्वन्ति तस्यां तु विशेषेण विचक्षणाः ॥ २५
तस्मान्मघां वै वाञ्छन्ति पितरो नित्यमेव हि । पितृदैवतभक्ता ये तेऽपि यान्ति परां गतिम् ॥ २६
इति श्रीमहापुराणे वायुप्रोक्ते श्राद्धकल्पे तिथिविशेषे श्राद्धफलवर्णनं नामैकाशीतितमोऽध्यायः॥८१॥
आदितः श्लोकानां समष्ट्यङ्काः-७३४७


* धनुश्चिह्नान्तर्गतग्रन्थः ग. पुस्तके नास्ति ।

[अ० ८१-८२ श्लो० १-१५।] वायुपुराणम् । ३०१
(श्राद्धकल्पः)

अथ द्व्यशीतितमोऽध्यायः ।

श्राद्धकल्पे नक्षत्रविशेषे श्राद्धफलम् ।

बृहस्पतिरुवाच--
यमस्तु यानि श्राद्धानि प्रोवाच शिवविन्दवे । तानि मे शृणु कात्स्न्र्येन नक्षत्रेषु पृथक्पृथक् ॥ १
श्राद्धं यः कृत्तिकायोगे करोति सततं नरः । अग्नीनाधाय सापत्यो जायते स गतज्वरः ॥ २
अपत्यकामो रोहिण्यां सौम्येनाौजस्विता भवेत् । प्रायशः क्रूरकर्मा तु चाऽऽर्द्रायां श्राद्धमाचरेत् ॥ ३
क्षेत्रभागी भवेत्पुत्री श्राद्धं कुर्वन्पुनर्वसौ । धनधान्यसमाकीर्णः पुत्रपौत्रसमाकुलः ॥ ४
तुष्टिकामः पुनस्तिष्ये श्राद्धं कुर्वीत मानवः । आश्लेषासु पितॄनर्च्य वीरान्पुत्रानवाप्नुयात् ॥ ५
श्रेष्ठो भवति ज्ञातीनां मघासु श्राद्धमाचरन् । फाल्गुनीषु पितॄनर्च्य सौभाग्यं लभते नरः ॥ ६
प्रधानशीलः सापत्य उत्तरासु करोति यः । स सत्सु मुख्यो भवति हस्ते यस्तर्पयेत्पितॄन् ॥ ७
चित्रायां चैव यः कुर्यात्पश्येदूपवतः सुतान् । स्वातिना चैव यः कुर्याद्विद्वाँल्लाभमवाप्नुयात् ॥ ८
पुत्रार्थं तु विशाखासु श्राद्धमीहेत मानवः । अनुराधासु कुर्वाणो नरश्चक्रं प्रवर्तयेत् ॥ ९
आधिपत्यं लभेच्छ्रैष्ठ्यं ज्येष्ठायां सततं तु यः । मूलेनाऽऽरोग्यमिच्छन्ति आषाढासु महद्यशः ॥ १०
आषाढाभिश्चोत्तराभिर्वीतशोको भवेन्नरः । श्रवणेन तु लोकेषु प्राप्नुयात्परमां गतिम् ॥ ११
राजभाग्वै धनिष्ठासु प्राप्नुयाद्विपुलं धनम् । श्राद्धं त्वाभिजिता कुर्वन्वेदान्साङ्गानवाप्नुयात् ॥ १२
नक्षत्रे वारुणं कुर्वन्भिषक्सिद्धिमवाप्नुयात् । पूर्वे प्रोष्ठपदे कुर्वन्विन्देतेऽजाविकं फलम् ॥ १३
उत्तरास्वनतिक्रम्य विन्देद्वाश्व सहस्रशः । बहुरूपकृतं द्रव्यं विन्देत्कुर्वंस्तु रेवतीम् ॥
अश्वांश्चैवाऽश्विनीयुक्तो भरण्यामायुरुत्तमम् ॥ १४
इमं श्राद्धविधिं कुर्वञ्शशबिन्दुर्महीमिमाम् । *कृत्स्नां तु लेभे स कृत्स्नां लब्ध्वा च प्रशशांस तम् ॥ १५

इति श्रीमहापुराणे वायुप्रोक्ते नक्षत्रविशेषे श्राद्धफलवर्णनं नाम द्व्यशीतितमोऽध्यायः ॥ ८२ ॥
आदितः श्लोकानां समष्ट्यङ्काः--७३६२


अथ त्र्यशीतितमोऽध्यायः ।

श्राद्धकल्पे भिन्नकालिकतृप्तिसाधनद्रव्यविशेषगयाश्राद्धादिफल-
ब्राह्मणपरीक्षादिकथनम् ।

( + शंयुरुवाच--
किंचिद्दत्तं पितॄणां तु धिनोति वदतां वर । किं हि स्विच्चिररात्राय किं चाऽऽनन्त्याय कल्प्यते ॥ ) १


* एतदर्धस्थान इदमर्धम्-‘कृत्स्नां सलभतोत्कृष्टां लब्ध्वा च प्रशशास ताम् इति' ङ. पुस्तके ।
+ धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति ।

३०२ श्रीमद्वैपायनमुनिप्रणीतम्– [अ०८२श्लो०२–२७]
(श्राद्धकल्पः)

बृहस्पतिरुवाच–
हवींषि श्राद्धकाले तु यानि श्राद्धविदो विदुः । तानि मे शृणु सर्वाणि फलं चैषां यथाबलम् ॥ २
तिलैर्व्रीहिर्यवैर्माषैरद्भिर्मूलफलेन च । दत्तेन मासं प्रीयन्ते श्राद्धेन तु पितामहाः ॥ ३
मत्स्यैः प्रीणन्ति द्वौ मासौ त्रीन्मासान्हारिणेन तु । शाशं तु चतुरो मासान्पञ्च प्रीणाति शाकुनम् ॥ ४
वाराहेण तु षण्मासांश्छागलं सप्तमासिकम् । अष्टमासिकमित्युक्तं यच्च पार्वतकं भवेत् ॥ ५
रौरवेण तु प्रीयन्ते नव मासान्पितामहाः । गवयस्य तु मांसेन तृप्तिः स्याद्दशमासिकी ॥ ६
कौर्मस्य चैव मांसेन मासानेकादशैव तु । श्राद्धमेवं विजानीयाद्गव्यं संवत्सरं भवेत् ॥ ७
तथा गव्यसमायुक्तं पायसं मधुसर्पिषा । वार्ध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥ ८
आनन्त्याय भवेद्युक्तं खाड्गमांसैः पितृक्षये । कृष्णच्छागस्तथा गोधा अनन्त्यायैव कल्प्यते ॥ ९
अत्र गाथाः पितृगीताः कीर्तयन्ति पुराविदः । तास्तेऽहं संप्रवक्ष्यामि यथावत्सन्निबोधत ॥ १०
अपि नः स्वकुले जायाद्योऽन्नं दद्यात्त्रयोदशीम् । पायसं मधुसर्पिभ्यां छायायां कुञ्जरस्य तु ॥ ११
आजेन सर्वलोहेन वर्षासु च मघासु च । एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ॥
* गौरीं वाऽप्युद्वहेद्भार्यां नीलं वा वृषमुत्सृजेत् ॥ १२

शंयुरुवाच–
गयादीनां फलं तात प्रब्रूहि मम पृच्छतः । पितॄणां चैव यत्पुण्यं निखिलेन ब्रवीहि मे ॥ १३

बृहस्पतिरुवाच–
( अब्दमध्ये गयाश्राद्धं यः करोति च मानवः । सर्वान्कामान् लभते स्वर्गलोके महीयते ॥ १४
यदि पुत्रो गयां गच्छेद्वच्छ्राद्धं कुर्यादतन्द्रितः । कामान् लभते दिव्यान्मोक्षोपायं च विन्दति ॥ १५
उद्यतस्तु गयां गन्तुं श्राद्धं कृत्वा विधानतः । विधाय कर्पटीवेषं ग्रामस्यापि प्रदक्षिणम् ॥ १६
ततो ग्रामान्तरं गत्वा श्राद्धशेषस्य भोजनम् । कृत्वा प्रदक्षिणं गच्छेत्प्रतिग्रहविवर्जितः ॥ १७
केशश्मश्रुनखादीनां वपनं न प्रशस्यते । अतो न कार्यं वपनं श्राद्धार्थी ना गयासदा(?) ॥ १८
वित्तशाठ्यं न कुर्वीत गयाश्राद्धे सदा नरः । वित्तशाठ्यं तु कुर्वाणो न तीर्थफलभाग्भवत् ॥ १९
ब्रह्मकुण्डे प्रभासे च ब्रह्मवेद्यां तथैव च । प्रेतपर्वतमासाद्य श्राद्धं कुर्याद्विधानतः ॥ २०
उत्तरे मानसे चैव यन्न मैनाकसंज्ञकाः । उदीच्यां कनकखले चैव दक्षिणे मानसे तथा ॥ २१
स्नात्वा कृत्वा तथा श्राद्धं पितृलोकं समुद्धरेत् । स्वर्गपातालमर्त्येषु नास्ति तीर्थसमं भुवि ॥ २२
तेषु श्राद्धं प्रकुर्वीत यदिच्छेत्परमां गतिम् । धर्मारण्यं ततो गच्छेद्दाद्यं दृष्ट्वा गदाधरम् ॥ २३
मतङ्गे स पुनर्दृष्ट्वा बुद्धा नारायणं तथा । श्राद्धं कृत्वा विधानेन कुलकोटीः समुद्धरेत् ॥ २४
यदि पुत्रो गयां गच्छेत्कदाचित्कालपर्ययात् । तानेव भोजयेद्विप्रान्ब्राह्मणा ये प्रकल्पिताः ॥ २५
अमानुषतया विप्रा ब्राह्मणा ये प्रकल्पिताः । तेषु तुष्टेषु संतुष्टाः पितृभिः सह देवताः ॥ २६
न विचार्यं कुलं शीलं विद्यां च तप एव च । पूजितैस्तैस्तु राजेन्द्र मुक्तिं प्राप्नोति मानवः ॥ २७


* इदमर्धं नास्ति घ. पुस्तके । + अब्दमध्य इत्यारभ्यः दद्याद्विचक्षण इत्यन्तग्रन्थ ख. पुस्तके वर्ततेऽत्रैव स्थले गयामाहात्म्यमपि तत्रिचत्वारिंशाध्यायादुपरितनं द्रष्टव्यम् ।

[अ०८२श्लो०२८-५५] वायुपुराणम् । ३०३

( श्राद्धकल्पः )
ततः प्रवर्तयेच्छ्राद्धं यथाशक्तिबलाबलम् । कामान्स लभते दिव्यान्मोक्षोपायं च विन्दति ॥ २८
सवर्णा जातयो मित्रा बान्धवाः सुहृदश्च ये । तेभ्यो भूप गयाकूपे पिण्डा देया विधानतः ॥ २९
तेऽपि यान्ति दिवं सर्वे पिण्डदा इति नः श्रुतम् । अज्ञातनामगोत्राणां मन्त्र एष प्रकीर्तितः ॥ ३०
पितृवंशे समुत्पन्ना मातृवंशे तथैव च । गुरुश्वशुरबन्धूनां ये चान्ये बान्धवास्तथा ॥ ३१
ये मे कुले लुप्तपिण्डाः पुत्रदारविवर्जिताः । विरूपा आमगर्भाश्च ज्ञाताज्ञाताः कुले मम ॥ ३२
क्रियालोपगता ये च ये चान्ये गर्भसंस्थिताः । तेभ्यो दत्तो मया पिण्डो ह्यक्षय्यमुपतिष्ठताम् ॥ ३३
आत्मनस्तु महाबुद्धे गयायां तु तिलैर्विना । पिण्डानिर्वपणं कुर्यात्तथा चान्येऽत्र गोत्रजाः ॥ ३४
पुत्रेभ्योऽपि दुहितृभ्य इष्टेभ्योऽपि च सर्वशः । दद्यात्पिण्डं प्रयत्नेन बुद्धिमान्सुसमाहितः ॥ ३५
त्रिदिवं यान्ति ते सर्वे पिण्डदा इति च श्रुतिः । ब्रह्महा च कृतघ्नश्च महापातकिनश्च ये ॥ ३६
ते सर्वे निष्कृतिं यान्ति गयायां पिण्डपातनात् । ब्रह्मघ्नस्य सुरापस्य बालवृद्धगुरुद्रुहः ॥ ३७
नाशमायाति वै पापं गयायामनुयाति यः । यन्नाम्ना पातयेत्पिण्डं तं नयेद्ब्रह्म शाश्वतम् ॥ ३८
दुर्लभं त्रिषु लोकेषु नास्ति तीर्थं गयासमम् । नरकस्था दिवं यान्ति स्वर्गस्था मोक्षमाप्नुयुः ॥ ३९
अपि नस्वे भविष्यन्ति कुले सन्मार्गशालिनः । गयामुपेत्य ये पिण्डान्दास्यन्त्यस्माकमादरात् ॥ ४०
मकरे वर्तमाने तु ग्रहणे चन्द्रसूर्ययोः । प्रेतपक्षे च चैत्रे च दुर्लभं पिण्डपातनम् ॥ ४१
अधिमासे जन्मदिने चास्ते च गुरुशुक्रयोः । न त्यक्तव्यं गयाश्राद्धं सिंहस्थे च बृहस्पतौ ॥
गयायां सर्वकालेषु पिण्डं दद्याद्विचक्षणः ) ॥ ४२
( *गयायामक्षयं श्राद्धं जपहोमतपांसि च । पितृक्षयाहे ते पुत्र तस्मात्तत्राक्षयं स्मृतम् ॥ ४३
पुनीयादेकविंशं तु गौर्यामुत्पादितः सुतः । मातामहांस्तु षड्भूय इति तस्य फलं स्मृतम् ॥ ४४
फलं वृषस्य वक्ष्यामि गदतो मे निबोधत । वृषोत्सृष्टा पुनात्येव दशातीतान्दशावरान् ॥ ४५
यत्किंचित्स्पृश्यते तोयैरुत्तीर्णेन जलान्महिषि । वृषोत्सर्गे पितॄणां तु अक्षयं समुदाहृतम् ॥ ४६
यद्वाङ्गं संस्पृशेत्तोयं लाङ्गूलादिभिरन्ततः सर्वं तदक्षयं तस्म पितॄणां नात्र संशयः ॥ ४७
शृङ्गे खुरैर्वा यद्भूमिमुल्लिखत्यानिशं वृषः । मधुकुल्याः पितृस्तस्य अक्षयास्ता भवन्ति वै ॥ ४८
(× सहस्त्रनलमात्रेण तडाकेन यथा श्रुतिः । तृप्तिस्तृप्तिः पितॄणां वै तद्वृषस्याधिकोच्यते ॥ ४९
यो ददाति गुडैर्मिश्रांस्तिलान्वै श्राद्धकर्मणि । मधुना मधुमिश्रान्वा अक्षयं सर्वमेव तत् ॥ ५०

बृहस्पतिरुवाच--)

न ब्राह्मणान्परीक्षेत सदा देये तु मानवः । दैवे कर्मणि पित्र्ये च श्रूयते वै परीक्षणम् ॥ ५१
सर्ववेदव्रतस्नाताः पङ्क्तीनां पावना द्विजाः । ये च भाष्यविदो मुख्या ये च व्याकरणे रताः ॥ ५२
अधीयते पुराणं च धर्मशास्त्रं तथैव च । त्रिणाचिकेतपञ्चाग्नित्रिसुपर्णः षडङ्गवित् ॥ ५३
ब्रह्मदेयसुतश्चैव छन्दोगो ज्येष्ठसामगः । पुण्येषु येषु तीर्थेषु अभिषेककृतव्रताः ॥ ५४
मुख्येषु येषु सत्रेषु भवन्त्यवभृथप्लुताः । ये च सद्योव्रता नित्यं स्वकर्मनिरताश्च ये ॥
अक्रोधनाः शान्तिपरास्तान्वै श्राद्धे निमन्त्रयेत् ॥ ५५


* धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति । × धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति ।

३०४ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ०८२श्लो०५६-८३]
(श्राद्धकल्पः)

[+ये चापि नित्यं दशसु सुकृतेषु व्यवस्थिताः। *स्वकर्मनिरता नित्यं ताञ्श्राद्धेषु निमन्त्रयेत्॥ ५६
एतेषु दत्तमक्षय्यमेते वै पङ्क्तिपावनाः। श्रद्धया ब्राह्मणा ये तु योगधर्ममनुव्रताः॥ ५७
धर्माश्रमवरिष्ठास्ते हव्यकव्येषु ते वराः। त्रयोऽपि पूजितास्तेन ब्रह्माविष्णुमहेश्वराः॥ ५८
पितृभिः सह लोकांश्च यो ह्येतान्पूजयेन्नरः। पवित्राणां पवित्रं च मङ्गलानां च मङ्गलम्॥ ५९
प्रथमः सर्वधर्माणाम योगधर्मो निगद्यते। अपाङ्क्तेयांस्तु वक्ष्यामि गदतो मे निबोधत॥ ६०
कितवो पद्यपो यक्ष्मी पशुपालो निराकृतिः। ग्रामैष्यो वार्धुषिको गायनो वाणिजस्तथा॥ ६१
अगारदाही गरदः कुण्डाशी सोमविक्रयी। समुद्रयायी दुश्चर्मा तौलिकः कूटकारकः॥ ६२
पित्रा विवदमानश्च यस्य चोपपतिर्गृहे। अभिशस्तस्तथा स्तेनः शिल्पैर्यश्चोपजीवति॥ ६३
सूचकः पर्वकारी च यस्तु मित्रेषु द्रुह्यति। गणयाचनकश्चैव नास्तिको वेदवर्जितः॥ ६४
उन्मत्तः षण्डकशठौ भ्रूणहा गुरुतल्पगः। भिषक्कूजीवः मैषाणिकः परस्त्रीं यश्च गच्छति॥ ६५
विक्रीणाति च यो ब्रह्म व्रतानि च तपांसि च। नष्टं स्यान्नास्तिके दत्तं कृतघ्ने चैव शंसके॥ ६६
यच्च वाणिजके चैव नेह नामुत्र तद्भवेत्। निक्षेपहारिणे चैव कितवे वेदानिन्दके॥ ६७
तथा वाणिजके चैव कारुके धर्मवर्जिते। निन्दन्क्रीणाति पण्यानि विक्रीणंश्च प्रशंसति॥ ] ६८
अनृतस्य समावासो न वाणीक्श्राद्धमर्हति। भस्मनीव हुतं हव्यं दत्तं पौनर्भवे द्विजे॥ ६९
षष्टिं काणः शतं षण्डः श्वित्री यावत्प्रपश्यति। पापरोगी सहस्रस्य दातुर्नाशयते फलम्॥ ७०
भ्रश्यते सत्फलात्तस्माद्दाता यस्य तु बालिशः। यो वेष्टितशिरा भुङ्क्ते यो भुङ्क्ते दक्षिणामुखः॥ ७१
सोपानत्कश्च यो भुङ्क्ते यच्च दद्यात्तिरस्कृतम्। सर्वं तदसुरेन्द्राणां ब्रह्मा भागमकल्पयत्॥ ७२
श्वानश्च यातुधानाश्च नावेक्षेरन्कथंचन। तस्मात्परिवृतिं दद्यात्तिलैश्चान्ववकिरयन्॥ ७३
राक्षसानां तिलाः प्रोक्ताः शुनां परिवृतिस्तथा। दर्शनात्सूकरो हन्ति पक्षपातेन कुक्कुटः॥ ७४
न प्रीणाति पितॄन्देवात्स्वर्गं न च स गच्छति॥ ७५
नदीतीरेषु रम्येषु सरित्सु च सरस्सु च। विविक्तेषु च प्रीयन्ते दत्तेनेह पितामहाः॥ ७६
न चाश्रु पातयेज्जातु न युक्तो वाचमीरयेत्। न च कुर्वीत भुञ्जानो ह्यन्योन्यं मत्सरं तदा॥ ७७
अपसव्ये कृते तेन विधिवद्धर्मपाणिना। पित्र्यमानिधनं कार्यमेवं प्रीणाति वै पितॄन्॥ ७८
अनुमत्याऽऽदितौ विप्रानग्नौ कुर्याद्यथाविधि। पितॄणां निर्वपेद्भूमौ सूर्पे वा दर्भसंस्तरे॥ ७९
शुक्लपक्षस्य पूर्वाह्णे श्राद्धं कुर्याद्विचक्षणः। कृष्णपक्षेऽपराह्णे तु रौहिणं न विलङ्घयेत्॥ ८०
एवमेते महात्मानो महायोगा महौजसः। सदा वै पितरः पूज्या द्रष्टारो देशकालयोः॥ ८१
पितृभक्तिरतो नित्यं योगं प्राप्नोत्यनुत्तमम्। ध्यानेन मोक्षं गच्छन्ति हित्वा कर्म शुभाशुभम्॥ ८२
यज्ञहतोर्यदुद्धृत्य मोहयित्वा जगत्तदा। गुहायां निहितं योगं कश्यपेन महात्मना॥ ८३


  • धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति । * इदमर्धं नास्ति क. पुस्तके ।

[अ० ८३ श्लो० ८४-१०५] वायुपुराणम् । ३०५

( श्राद्धकल्पः )
अमृतं गुह्यमुद्धृत्यं योगं योगविदांवर । प्रोक्तं सनत्कुमारेण महान्तं धर्मशाश्वतम् ॥ ८४
देवानां परमं गुह्यमृषीणां च परायणम् । पितृभक्त्या प्रयत्नेन पितृभक्तैश्च नित्यशः ॥ ८५
तं च योगं समासेन पितृभक्तस्तु कृत्स्नशः । प्रयत्नात्प्राप्नुयात्तत्र सर्वमेव न संशयः ॥ ८६
यस्मै श्राद्धानि देयानि यच्च दत्तं महाफलम् । येषु वाऽप्यक्षयं श्राद्धं तीर्थेषु च नदीषु च ॥
येषु च स्वर्गमाप्नोति तत्ते प्रोक्तं ससंग्रहम् ॥ ८७

बृहस्पतिरुवाच --
श्रुतैवं श्राद्धकल्पं तु योऽसूयां कुरुते नरः । स मज्जेन्नरके घोरे नास्तिकस्तमसाऽऽवृतः ॥ ८८
महारोगावसायस्तु स यः संयतमानसः । वेदाश्रमान्मुक्तचित्तः कुम्भीकानधिगच्छति ॥
जिह्वाच्छेदं स्तेनमेत्य प्राप्नुयुस्तेन चैव ह ॥ ८९
सीदन्ति ते सागर लोष्ठभूता योगद्विषः स्थास्यन्ते यावदुर्वी ॥
तस्माच्छ्राद्धे धर्म उद्दिष्ट एष नित्यं कार्यः श्रद्दधानेन पुंसा ॥ ९०
परिवादो न कर्तव्यो योगिनां च विशेषतः । परिवादाल्लक्ष्मिर्भूत्वा तत्रैव परिवर्तते ॥ ९१
योगं परिवदेद्यस्तु ध्वानिनां मोक्षकारणम् । स गच्छेन्नरकं घोरं श्रोता यश्च न संशयः ॥ ९२
आवृतं तमसा सर्वं घोरदर्शनम् । योगेश्वरपरीवादान्निश्चयं याति मानवः । ९३
योगेश्वराणायाक्रोशं शृणुयाद्यो यतात्मनाम् । स हि कालं चिरं मज्जेत्कुम्भीपाके न संशयः ॥ ९४
मनसा कर्मणा वाचा द्वेषं योगिषु वर्जयेत् । प्रेत्यान्यं तत्फलं भुङ्क्ते इह चैव न संशयः ॥ ९५
न पारगो विन्दति पारमात्मनस्त्रिलोकध्ये चरति स्वकर्मभिः ।
ऋचो यजुः साम तदङ्गपारगो विकारमेवं ह्येनवाप्य सदिति ॥ ९६
विकारपारः प्रकृतेश्च पारगस्त्रयीगुणानां त्रिगुणान्तपारगः ।
तत्त्वं चतुर्विंशतियोगपारगः स पारगो यस्त्वयनान्तपारगः ॥ ९७
कृत्स्नं यथा तत्त्वविसर्गमात्मनस्तथैव भूयः प्रलयं सदाऽऽत्मनः ।
प्रत्याहरेद्योगबलेन योगवित्स सर्वपारक्रमयानगोचरः ॥ ९८
वेदस्य वेदिता यो वै वेद्यं विन्दति योगवित् । तं वै वेदविदं प्राहुस्तं प्राहुर्वेदपारगम् ॥ ९९
वेद्यं च वेदितव्यं च विदित्वा वै यथाविधि । एवं वेदविदं प्राहुस्ततोऽन्ये वेदचिन्तकाः ॥ १००
यज्ञान्वेदांस्तथा कामान्ज्ञानानि विविधानि च । प्राप्नोत्यायुः प्रजाश्चैव पितृभक्तो धनानि च ॥ १०१
श्राद्धे यः श्राद्धकल्पं वै यस्त्विमं नियतं पठेत् । सर्वाण्येतान्यवाप्नोति तीर्थे दानफलानि च ॥ १०२
स पङ्क्तिपावनश्चैव द्विजानामग्रभुग्भवेत् । अध्याप्य वा द्विजान्सर्वान्सर्वान्कामानवाप्नुयात् ॥ १०३
यश्चैव शृणुयान्नित्यमानन्त्यं स्वर्गमश्नुते । अनसूयो जितक्रोधो लोभमोहविवर्जितः ॥ १०४
तीर्थानां च फलं कृत्स्नं दानादीनां तथैव च । मोक्षोपायो जितक्रोधो ह्ययं श्रेष्ठः स्वर्गोपायो ह्ययं परः॥
इह चापि परा तुष्टिस्तस्मात्कुर्वीत यत्नतः ॥ १०५

३९