वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 311, कुल 465 में से
संदर्भ में पढ़ें३०२ श्रीमद्वैपायनमुनिप्रणीतम्– [अ०८२श्लो०२–२७]
(श्राद्धकल्पः)
बृहस्पतिरुवाच–
हवींषि श्राद्धकाले तु यानि श्राद्धविदो विदुः । तानि मे शृणु सर्वाणि फलं चैषां यथाबलम् ॥ २
तिलैर्व्रीहिर्यवैर्माषैरद्भिर्मूलफलेन च । दत्तेन मासं प्रीयन्ते श्राद्धेन तु पितामहाः ॥ ३
मत्स्यैः प्रीणन्ति द्वौ मासौ त्रीन्मासान्हारिणेन तु । शाशं तु चतुरो मासान्पञ्च प्रीणाति शाकुनम् ॥ ४
वाराहेण तु षण्मासांश्छागलं सप्तमासिकम् । अष्टमासिकमित्युक्तं यच्च पार्वतकं भवेत् ॥ ५
रौरवेण तु प्रीयन्ते नव मासान्पितामहाः । गवयस्य तु मांसेन तृप्तिः स्याद्दशमासिकी ॥ ६
कौर्मस्य चैव मांसेन मासानेकादशैव तु । श्राद्धमेवं विजानीयाद्गव्यं संवत्सरं भवेत् ॥ ७
तथा गव्यसमायुक्तं पायसं मधुसर्पिषा । वार्ध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥ ८
आनन्त्याय भवेद्युक्तं खाड्गमांसैः पितृक्षये । कृष्णच्छागस्तथा गोधा अनन्त्यायैव कल्प्यते ॥ ९
अत्र गाथाः पितृगीताः कीर्तयन्ति पुराविदः । तास्तेऽहं संप्रवक्ष्यामि यथावत्सन्निबोधत ॥ १०
अपि नः स्वकुले जायाद्योऽन्नं दद्यात्त्रयोदशीम् । पायसं मधुसर्पिभ्यां छायायां कुञ्जरस्य तु ॥ ११
आजेन सर्वलोहेन वर्षासु च मघासु च । एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ॥
* गौरीं वाऽप्युद्वहेद्भार्यां नीलं वा वृषमुत्सृजेत् ॥ १२
शंयुरुवाच–
गयादीनां फलं तात प्रब्रूहि मम पृच्छतः । पितॄणां चैव यत्पुण्यं निखिलेन ब्रवीहि मे ॥ १३
बृहस्पतिरुवाच–
( अब्दमध्ये गयाश्राद्धं यः करोति च मानवः । सर्वान्कामान् लभते स्वर्गलोके महीयते ॥ १४
यदि पुत्रो गयां गच्छेद्वच्छ्राद्धं कुर्यादतन्द्रितः । कामान् लभते दिव्यान्मोक्षोपायं च विन्दति ॥ १५
उद्यतस्तु गयां गन्तुं श्राद्धं कृत्वा विधानतः । विधाय कर्पटीवेषं ग्रामस्यापि प्रदक्षिणम् ॥ १६
ततो ग्रामान्तरं गत्वा श्राद्धशेषस्य भोजनम् । कृत्वा प्रदक्षिणं गच्छेत्प्रतिग्रहविवर्जितः ॥ १७
केशश्मश्रुनखादीनां वपनं न प्रशस्यते । अतो न कार्यं वपनं श्राद्धार्थी ना गयासदा(?) ॥ १८
वित्तशाठ्यं न कुर्वीत गयाश्राद्धे सदा नरः । वित्तशाठ्यं तु कुर्वाणो न तीर्थफलभाग्भवत् ॥ १९
ब्रह्मकुण्डे प्रभासे च ब्रह्मवेद्यां तथैव च । प्रेतपर्वतमासाद्य श्राद्धं कुर्याद्विधानतः ॥ २०
उत्तरे मानसे चैव यन्न मैनाकसंज्ञकाः । उदीच्यां कनकखले चैव दक्षिणे मानसे तथा ॥ २१
स्नात्वा कृत्वा तथा श्राद्धं पितृलोकं समुद्धरेत् । स्वर्गपातालमर्त्येषु नास्ति तीर्थसमं भुवि ॥ २२
तेषु श्राद्धं प्रकुर्वीत यदिच्छेत्परमां गतिम् । धर्मारण्यं ततो गच्छेद्दाद्यं दृष्ट्वा गदाधरम् ॥ २३
मतङ्गे स पुनर्दृष्ट्वा बुद्धा नारायणं तथा । श्राद्धं कृत्वा विधानेन कुलकोटीः समुद्धरेत् ॥ २४
यदि पुत्रो गयां गच्छेत्कदाचित्कालपर्ययात् । तानेव भोजयेद्विप्रान्ब्राह्मणा ये प्रकल्पिताः ॥ २५
अमानुषतया विप्रा ब्राह्मणा ये प्रकल्पिताः । तेषु तुष्टेषु संतुष्टाः पितृभिः सह देवताः ॥ २६
न विचार्यं कुलं शीलं विद्यां च तप एव च । पूजितैस्तैस्तु राजेन्द्र मुक्तिं प्राप्नोति मानवः ॥ २७
* इदमर्धं नास्ति घ. पुस्तके । + अब्दमध्य इत्यारभ्यः दद्याद्विचक्षण इत्यन्तग्रन्थ ख. पुस्तके वर्ततेऽत्रैव स्थले गयामाहात्म्यमपि तत्रिचत्वारिंशाध्यायादुपरितनं द्रष्टव्यम् ।