वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
इति श्रीमहापुराणे वायुप्रोक्ते प्रक्रियापादे सृष्टिप्रकरणं नाम तृतीयोऽध्यायः॥ ३॥
| १२ | श्रीमद्वैपायनमुनिप्रणीतम्— | [अ०४ श्लो० १-२२] |
|---|---|---|
| (सृष्टिप्रकरणम्) |
प्रकृत्यवस्थेषु च कारणेषु या च स्थितिर्या च पुनः प्रवृत्तिः।
तच्छास्त्रयुक्त्या स्वमतिमयत्नात्समस्तमाविष्कृतधीधृतिभ्यः॥
विप्रा ऋषिभ्यः समुदाहृतं यद्यथातथं तच्छृणुतोच्यमानम्॥ २४
इति श्रीमहापुराणे वायुप्रोक्ते प्रक्रियापादे सृष्टिप्रकरणं नाम तृतीयोऽध्यायः॥ ३॥
आदितः श्लोकानां समष्ट्यङ्काः—२७३
अथ चतुर्थोऽध्यायः।
सृष्टिप्रकरणम्।
ऋषयस्तु ततः श्रुत्वा नैमिषारण्यवासिनः। प्रत्यूचुस्ते ततः सर्वे सूतं पर्याकुलेक्षणाः॥ १
भवान्वै वंशकुशलो व्यासात्प्रत्यक्षदर्शीवान्। तस्मात्त्वं भवनं कृत्स्नं लोकस्यामुष्य वर्णय॥ २
यस्य यस्यान्वया ये ये तांस्तानीच्छाम वेदितुम्। तेषां पूर्वर्षिसृष्टिं च विचित्रां तां प्रजापतेः। ३
असकृत्परिपृष्टस्तैर्महात्मा लोमहर्षणः। विस्तरेणाऽनुपूर्व्या च कथयामास सत्तमः॥ ४
लोमहर्षण उवाच—
पृष्टां चैतां कथां दिव्यां श्लक्ष्णां पापप्रणाशिनीम्। कथ्यमानां मया चित्रां बह्वर्थां श्रुतिसंमताम् ५
यश्चेमां धारयेन्नित्यं शृणुयाद्वाऽप्यभीक्ष्णशः श्रावयेच्चापि विप्रेभ्यो यतिभ्यश्च विशेषतः॥ ६
शुचिः पर्वसु युक्तात्मा तीर्थेष्वायतनेषु च। दीर्घमायुरवाप्नोति स पुराणानुकीर्तनात्॥ ७
स्ववंशधारणं कृत्वा स्वर्गलोके महीयते। विस्तारावयवं तेषां यथाशब्दं यथाश्रुतम्॥ ८
कीर्त्यमानं निबोधध्वं सर्वेषां कीर्तिवर्धनम्। धन्यं यशस्यं शत्रुघ्नं स्वर्ग्यमायुर्विवर्धनम्॥ ९
कीर्तनं स्थिरकीर्तीनां सर्वेषां पुण्यकारिणाम्। सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च॥ १०
वंशानुचरितं चेति पुराणं पञ्चलक्षणम्। कल्पेभ्योऽपि हि यः कल्पः शुचिभ्यो नियतः शुचिः। ११
पुराणं संप्रवक्ष्यामि मारुतं वेदसंमितम्। प्रबोधः प्रलयश्चैव स्थितिरुत्पत्तिरेव च॥ १२
प्रक्रिया प्रथमः पादः कथावस्तुपरिग्रहः। उपोद्घातोऽनुषङ्गश्च उपसंहार एव च॥ १३
धर्म्यं यशस्यमायुष्यं सर्वपापप्रणाशनम्। एवं हि पादाश्चत्वारः समासात्कीर्तिता मया॥ १४
वक्ष्याम्येतान्पुनस्तांस्तु विस्तरेण यथाक्रमम्। तस्मै हिरण्यगर्भाय पुरुषायेश्वराय च॥ १५
अजाय प्रथमायैव विशिष्टाय प्रजात्मने। ब्रह्मणे लोकतन्त्राय नमस्कृत्य स्वयंभुवे॥ १६
महदाद्यं विशेषान्तं सर्वरूप्यं सुलक्षणम्। पञ्चप्रमाणं षट्त्वेतं पुरुषाधिष्ठितं नुत्तम्॥ १७
असंशयात्मवक्ष्यामि भूतसर्गमनुत्तमम्। अव्यक्तं कारणं यत्तु नित्यं सदसदात्मकम्॥ १८
प्रधानं प्रकृतिं चैव यमाहुस्तत्त्वचिन्तकाः। गन्धवर्णरसैर्हीनं शब्दस्पर्शविवर्जितम्॥ १९
अजातं ध्रुवमक्षय्यं नित्यं स्वात्मन्यवस्थितम्। जगद्योनिं महद्भूतं परं ब्रह्म सनातनम्॥ २०
विग्रहं सर्वभूतानामव्यक्रमभवत्किल। अनाद्यन्तमजं सूक्ष्मं त्रिगुणं प्रभवाप्ययम्॥ २१
असांप्रतमविज्ञेयं ब्रह्माये समवर्तत। तस्याऽऽत्मना सर्वमिदं व्याप्यमासीत्तमोमयम्॥ २२
[अ० ४ श्लो० २३-५०] वायुपुराणम् । १३
( सृष्टिप्रकरणम् )
गुणसाम्ये तदा तस्मिन्गुणभावे तमोमये । सर्वकाले प्रधानस्य क्षेत्रज्ञाधिष्ठितस्य वै ॥ २३
गुणभावाद्वाच्यमानो महांन्प्रादुर्बभूव ह । सूक्ष्मेण महता सोऽथ अव्यक्तेन समावृतः ॥ २४
सत्त्वोद्रिक्तो महानग्रे सत्त्वमात्रं प्रकाशकम् । मनो महांश्च विज्ञेयो मनस्तत्कारणं स्मृतम् ॥ २५
लिङ्गमात्रसमुत्पन्नः क्षेत्रज्ञाधिष्ठितस्तु सः । धर्मादीनां तु रूपाणि लोकतत्त्वार्थहेतवः ॥ २६
महांस्तु सृष्टिं कुरुते नोद्यमानः सिसृक्षया । मनो महान्मतिर्ब्रह्मा भूबुद्धिः ख्यातिरीश्वरः ॥ २७
प्रज्ञा चितिः स्मृतिः संविद्विपुरं चोच्यते बुधैः । मनुते सर्वभूतानां यस्माच्चेष्टाफलं विभुः ॥ २८
सौ(सू)क्ष्मत्वेन विवृद्धानां तेन तन्मन उच्यते । तत्त्वानामाग्रजो यस्मान्महांश्च परिमाणतः ॥ २९
शेषेभ्योऽपि गुणेभ्योऽसौ महानीति ततः स्मृतः । बिभर्ति मानं मनुते विभागं मन्यतेऽपि च ॥ ३०
पुरुषोपभोगसंबन्धात्तेन चासौ मतिः स्मृतः । बृहत्त्वाद्बृंहणत्वाच्च भावानां सलिलाश्रयात् ॥ ३१
यस्माद्बृंहयते भावान्ब्रह्मा तेन निरुच्यते । आपूरयित्वा यस्माच्च कृत्स्नान्द्देहाननुग्रहैः ॥ ३२
तत्त्वभावांश्च नियतांस्तेन भूरिति चोच्यते । बुध्यते पुरुषश्चात्र सर्वभावान्हिताहितानन् ॥ ३३
यस्माद्बोधयते चैव तेन बुद्धिर्निरुच्यते । ख्यातिः प्रत्युपभोगश्च यस्मात्संवर्तते ततः ॥ ३४
भोगस्य ज्ञाननिष्ठत्वात्तेन ख्यातिरिति स्मृतः । ख्यायते तद्गुणैर्वाऽपि नामादिभिरनेकशः ॥ ३५
तस्माच्च महतः संज्ञा ख्यातिरित्सभिधीयते । साक्षात्सर्वं विजानाति महात्मा तेन चेश्वरः ॥ ३६
तस्माज्जाता ग्रहाश्चैव प्रज्ञा तेन स उच्यते । ज्ञानादीनि च रूपाणि क्रतुकर्मफलानि च ॥ ३७
चिनोति यस्माद्भोगाथं तेनासौ चितिरुच्यते । वर्तमानान्यतीतानि तथा चानागतान्यपि ॥ ३८
स्मरते सर्वकार्याणि तेनासौ स्मृतिरुच्यते । कृत्स्नं च विन्दते ज्ञानं तस्मान्माहात्म्यमुच्यते ॥ ३९
तस्माद्विन्देर्विदंश्चैव संविदित्सभिधीयते । विद्यते स च सर्वस्मिन्सर्वं तस्मिंश्च विद्यते ॥ ४०
तस्मात्संविदिति प्रोक्तो महान्वै बुद्धिमत्तरैः । ज्ञानात्तु ज्ञानमित्याह भगवान्ज्ञानसंनिधिः ॥ ४१
द्वंद्वानां विपुरीभावाद्द्विपुरं प्रोच्यते बुधैः । सर्वेशत्वाच्च लोकानामवश्यं च तथेश्वरः ॥ ४२
बृहत्त्वाच्च स्मृतो ब्रह्मा भूतत्वाद्भव उच्यते । क्षेत्रक्षेत्रज्ञविज्ञानादेकत्वाच्च स कः स्मृतः ॥ ४३
यस्मात्पुर्य्यनुशेते च तस्मात्पुरुष उच्यते । नोत्पादितत्वात्पूर्वंत्वात्स्वयंभूरिति चोच्यते ॥ ४४
पर्यायवाचकैः शब्दैस्तत्त्वमाद्यमनुत्तमम् । व्याख्यातं तत्त्वभावज्ञैरेवं सद्भावचिन्तकैः ॥ ४५
महासृष्टिं विकुरुते चोद्यमानः सिसृक्षया । संकल्पोऽध्यवसायश्च तस्य वृत्तिद्वयं स्मृतम् ॥ ४६
धर्मादीनि च रूपाणि लोकतत्त्वार्थहेतवः । त्रिगुणस्तु स विज्ञेयः सत्त्वरजस्ततामसः ॥ ४७
त्रिगुणाद्रजसोद्रिक्तादहंकारस्ततोऽभवत् । महता चाऽऽवृतः सर्गो भूतादिर्विकृतस्तु सः ॥ ४८
तस्माच्च तमसोद्रिक्तादहंकारादजायत । भूततन्मात्रसर्गस्तु भूतादिस्तामसस्तु सः ॥ ४९
भूतादिस्तु विकुर्वाणः शब्दमात्रं ससर्ज ह । (÷आकाशं शुषिरं तस्मादुद्रिक्तं शब्दलक्षणम् ॥ ५०
÷ धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति ।
१४ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ० ४ श्लो० ५१-८०]
( सृष्टिप्रकरणम् )
आकाशं शब्दमात्रं तु भूतादिश्चाऽऽवृणोत्पुनः । शब्दमात्रं तदाकाशं स्पर्शमात्रं ससर्ज ह ॥ ५१
*बलवाञ्जायते वायुः स वै स्पर्शगुणो मतः । आकाशं शब्दमात्रं तु स्पर्शमात्रं समावृणोत् ॥ ५२
वायुश्चापि विकुर्वाणो रूपमात्रं ससर्ज ह । ज्योतिरुत्पद्यते वायोस्तद्रूपगुणमुच्यते ॥ ५३
स्पर्शमात्रं तु वै वायो रूपमात्रं समावृणोत् । ज्योतिश्चापि विकुर्वाणं रसमात्रं ससर्ज ह ॥ ५४
संभवन्ति ततो ह्यापः पश्चात्तापै रसात्मिकाः । रसमात्रस्तु ता ह्यापो रूपमात्राभिरावृणोत् ॥ ५५
आपो रसान्विकुर्वत्यो गन्धमात्रं ससर्जिरे । संवातो जायते तस्मात्तस्य गन्धो गुणः स्मृतः ॥ ५६
रसमात्रं तु तन्तोयं गन्धमात्रं समावृणोत् । तस्मिंस्तस्मिंस्तु तन्मात्रा तेन तन्मात्रता स्मृता ॥ ५७
अविशेषवाचकत्वादविशेषास्ततः स्मृताः । अशान्तघोरमूढत्वादविशेषास्ततः पुनः ॥ ५८
भूततन्मात्रसर्गोऽयं विज्ञेयस्तु परस्परात् । वैकारिकादहंकारात्सत्त्वोद्रिक्तात्तु सात्त्विकात् ॥ ५९
वैकारिकः स सर्गस्तु युगपत्संप्रवर्तते । बुद्धीन्द्रियाणि पञ्चैव पञ्च कर्मेन्द्रियाण्यपि ॥ ६०
साधकानीन्द्रियाणि स्युर्देवा वैकारिका दश । एकादशं मनस्तत्र देवा वैकारिकाः स्मृताः ॥ ६१
श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी । शब्दादीनामवाप्त्यर्थं बुद्धियुक्तानि वक्ष्यते (?)॥ ६२
पादौ पायुरुपस्थश्च हस्तौ वाग्दशमी भवेत् । गतिर्विसर्गो ह्यानन्दः शिल्पं वाक्यं च कर्म च ॥ ६३
आकाशं शब्दमात्रं च स्पर्शमात्रं समाविशत् । द्विगुणस्तु ततो वायुः शब्दस्पर्शात्मकोऽभवत् ॥ ६४
रूपं तथैव विशतः शब्दस्पर्शगुणावुभौ । त्रिगुणस्तु ततश्चाग्निः स शब्दस्पर्शरूपवान् ॥ ६५
स शब्दस्पर्शरूपश्च रसमात्रं समाविशत् । तस्माच्चतुर्गुणा ह्यापो विज्ञेयास्ता रसात्मिकाः ॥ ६६
स शब्दस्पर्शरूपेषु गन्धस्तेषु समाविशत् । संयुक्ता गन्धमात्रेण आचिन्वन्तो महीमिमाम् ॥ ६७
तस्मात्पञ्चगुणा भूमिः स्थूलभूतेषु दृश्यते । शान्ता घोराश्च मूढाश्च विशेषास्तेन ते स्मृताः ॥ ६८
परस्परानुप्रवेशाद्धारयन्ति परस्परम् । भूमेरन्तस्तिवदं सर्वं लोकालोकघनावृतम् ॥ ६९
विशेषा इन्द्रियग्राह्या नियतत्त्वाच्च ते स्मृताः । गुणं पूर्वस्य पूर्वस्य प्राप्नुवन्त्युत्तरोत्तरम् ॥ ७०
तेषां यावच्च यद्यच्च तत्तत्तावद्गुणं स्मृतम् । उपलभ्य शुचेर्गन्धं केचिद्वायोर्नैपुणात् ॥ ७१
पृथिव्यामेव तद्विद्यादेषां वायोश्च संश्रयात् । (÷एते सप्त महावीर्या नानाभूताः पृथक्पृथक् ॥ ७२
नाशक्नुवन्प्रजाः स्रष्टुमसमागम्य कृत्स्नशः । ते समेत्य महात्मानो ह्यन्योन्यस्यैव संश्रयात् ) ॥ ७३
पुरुषाधिष्ठितत्वाच्च अव्यक्तानुग्रहेण च । महदादयो विशेषान्ता अण्डमुत्पादयन्ति ते ॥ ७४
( +एककालं समुत्पन्नं जलवुद्बुदवच्च तत् । विशेषेभ्योऽण्डमभवद्बृहत्तदुदकं च यत् ॥ ७५
तत्तस्मिन्कार्यकरणं संसिद्धं ब्रह्मणस्तदा । प्राकृतेऽण्डे विबुद्धे संक्षेत्रज्ञो ब्रह्मसंहितः ॥ ७६
[ = स वै शरीरी प्रथमः स वै पुरुष उच्यते ) । आदिकर्ता च भूतानां ब्रह्माऽग्रे समवर्तत ॥ ७७
हिरण्यगर्भः सोऽग्रेऽस्मिन्प्रादुर्भूतश्चतुर्मुखः । सर्गे च प्रतिसर्गे च क्षेत्रज्ञो ब्रह्मसंज्ञितः ] ॥ ७८
करणैः सह सृज्यन्ते प्रत्याहारे त्यजन्ति च । भजन्ते च पुनर्देहान्समाहारसंधिषु ॥ ७९
हिरण्मयस्तु यो मेरुस्तस्योल्बं तन्महात्मनः । गर्भोदकं समुद्राश्च जरायुस्थीनि पर्वताः ॥ ८०
* इदमर्धं ङ. पुस्तके नास्ति । ÷ धनुश्चिह्नान्तर्गतग्रन्थो ङ. पुस्तके नास्ति । + धनुश्चिह्नान्तर्गतग्रन्थो ङ. पुस्तके नास्ति । = एताश्चिह्नान्तर्गतग्रन्थः ख. घ. पुस्तकयोर्नास्ति ।
[अ० ५ श्लो० १-११]
वायुपुराणम्
१५
(सृष्टिप्रकरणम्)
तस्मिन्नण्डे त्विमे लोका अन्तर्भूतास्तु सप्त वै । सप्तदीपा च पृथिवी समुद्रैः सह सप्तभिः ॥ ८१
पर्वतैः सुमहाद्भिश्च नदीभिश्च सहस्रशः । अन्तस्तस्मिंस्त्विमे लोका अन्तर्विश्वमिदं जगत् ॥ ८२
चन्द्रादित्यौ सनक्षत्रौ सहग्रहौ सह वायुना । लोकालोकं च यत्किंचिच्चाण्डे तस्मिन्समापिर्तम् ॥ ८३
अद्भिर्दशगुणाभिस्तु बाह्यतोऽण्डं समावृतम् । आपो दशगुणा ह्येवं तेजसा बाह्यतो वृताः ॥ ८४
तेजो दशगुणेनैव बाह्यतो वायुनाऽवृतम् । *वायुर्दशगुणेनैव बाह्यतो नभसाऽऽवृतः ॥ ८५
आकाशेन वृतो वायुः खं च भूतादिनाऽऽवृतम् । भूतादिर्महता चापि अव्यक्तेन वृतो महान् ॥ ८६
एतैरावरणैरण्डं सप्तभिः प्राकृतैर्वृतम् । एताश्चाऽऽवृत्य चान्योन्यमष्टौ प्रकृतयः स्थिताः ॥ ८७
प्रसर्गकाले स्थित्वा च ग्रसन्त्येताः परस्परम् । एवं परस्परोत्पन्ना धारयन्ति परस्परम् ॥ ८८
आधाराधेयभावेन विकारश्च विकारिषु । अव्यक्तं क्षेत्रमुद्दिष्टं ब्रह्मा क्षेत्रज्ञ उच्यते ॥ ८९
इत्येष प्राकृतः सर्गः क्षेत्रज्ञाधिष्ठितस्तु स । अबुद्धिपूर्वं प्रागासीत्प्रादुर्भूता तडिद्यथा ॥ ९०
एतद्धिरण्मगर्भस्य जन्म यो वेद तत्त्वतः । आयुष्मान्कीर्तिमान्धन्यः प्रजावांश्च भवत्युत ॥ ९१
निवृत्तिकामोऽपि नरः शुद्धात्मा लभते गतिम् । पुराणश्रवणान्नित्यं सुखं च क्षेममाप्नुयात् ॥ ९२
इति महापुराणे वायुप्रोक्ते प्रक्रियापादे सृष्टिप्रकरणकथनं नाम चतुर्थोऽध्यायः ॥ ४ ॥
आदितः श्लोकानां समष्ट्यङ्काः-३६५
अथ पञ्चमोऽध्यायः ।
सृष्टिप्रकरणम् ।
÷लोमहर्षण उवाच-
यदि सृष्टेस्तु संख्यातं मया कालान्तरं द्विजाः । एतत्कालान्तरं ज्ञेयमहर्वै पारमेश्वरम् ॥ १
रात्रिश्चैतावती ज्ञेया परमेशस्य कृत्स्नशः । अहस्तस्य तु या सृष्टिः प्रलयो रात्रिरुच्यते ॥ २
अहश्च विद्यते तस्य न रात्रिरिति धारणा । उपचारः प्रक्रियते लोकानां हितकाम्यया ॥ ३
(+प्रजाः प्रजानां पतय ऋषयो मुनिभिः सह । ऋषीन्सन्तकुमाराख्यान्ब्रह्मसायुज्यगैः सह ॥ ४
इन्द्रियाणीन्द्रियार्थाश्च महाभूतानि पञ्च च । ) तन्मात्रा इन्द्रियगणो बुद्धिश्च मनसा सह ॥ ५
अहस्तिष्ठन्ति ते सर्वे परमेशस्य धीमतः । अहरन्ते प्रलीयन्ते राज्यन्ते विश्वसंभवः ॥ ६
स्वात्मन्यवस्थिते सत्त्वे विकारे प्रतिसंहते । साधर्मे(र्म्ये)णावतिष्ठेते प्रधानपुरुषावुभौ ॥ ७
तमःसत्त्वगुणावेतौ समत्वेन व्यवस्थितौ । अत्रोद्रिक्तौ प्रसूतौ च तौ तथा च परस्परम् ॥ ८
गुणसाम्ये लयो ज्ञेयो वैषम्ये सृष्टिरुच्यते । तिलेषु वा यथा तैलं घृतं पयसि वा स्थितम् ॥ ९
तथा तमसि सत्त्वे च रजोऽव्यक्ताश्रितं स्थितम् । उपास्य रजनीं कृत्स्नां परां माहेश्वरीं तदा ॥ १०
अहर्मुखे प्रवृत्ते च परः प्रकृतिसंभवः । क्षोभयामास योगेन परेण परमेश्वरः ॥ ११
* इदमर्धं नास्ति घ. पुस्तके । ÷ सूत उवाचेति घ. पुस्तके । + धनुश्चिह्नान्तर्गतं नास्ति ङ पुस्तके ।
१६ श्रीमद्वैपायनमुनिप्रणीतम्– [अ०५श्लो०१२–३८]
(सृष्टिप्रकरणम्)
प्रधानं पुरुषं चैव प्रविश्याण्डं महेश्वरः । प्रधानात्क्षोभ्यमाणात्तु रजो वै समवर्तत ॥ १२
रजः प्रवर्तकं तत्र बीजेष्वपि यथा जलम् । गुणवैषम्यमासाद्य प्रसूयन्ते ह्यधिष्ठिताः ॥ १३
गुणेभ्यः क्षोभ्यमाणेभ्यस्त्रयो देवा विजज्ञिरे । आश्रिताः परमा गुह्याः सर्वात्मानः शरीरिणः ॥ १४
रजो ब्रह्मा तमो ह्यग्निः सत्त्वं विष्णुर्जायत । रजःप्रकाशको ब्रह्मा स्रष्टृत्वेन व्यवस्थितः ॥ १५
*तमःप्रकाशकोऽग्निस्तु कालत्वेन व्यवस्थितः । सत्त्वप्रकाशको विष्णुर्ौदासीन्ये व्यवस्थितः ॥ १६
+एत एव त्रयो लोका एत एव त्रयो गुणाः । एत एव त्रयो वेदा एत एव त्रयोऽग्नयः ॥ १७
परस्पराश्रिता ह्येते परस्परमनुव्रताः । परस्परेण वर्तन्ते धारयन्ति परस्परम् ॥ १८
अन्योन्यमिथुना ह्येते ह्यन्योन्यमुपजीविनः । क्षणं वियोगो न ह्येषां न त्यजन्ति परस्परम् ॥ १९
ईश्वरो हि परो देवो विष्णुस्तु महतः परः । ब्रह्मा तु रजसोद्रिक्तः सर्गायेह प्रवर्तते ॥ २०
परश्च पुरुषो ज्ञेयः प्रकृतिश्च परा स्मृता ॥
आधिष्ठितोऽसौ हि महेश्वरेण प्रवर्तते चोद्यमानः समन्तात् ।
अनुप्रवर्तन्ति महान्तमेव चिरास्थिताः स्वे विषये प्रियत्वात् ॥ २१
प्रधानं गुणवैषम्यात्सर्गकाले प्रवर्तते । ईश्वराधिष्ठितात्पूर्वं तस्मात्सदसदत्मकात् ॥ २२
ब्रह्मा बुद्धिश्च मिथुनं युगपत्संबभूवतुः । तस्मान्मोव्यक्तमयः क्षेत्रज्ञो ब्रह्मसंज्ञितः ॥ २३
(÷संसिद्धः कार्यकारणैर्ब्रह्माऽग्रे समवर्तत । तेजसा प्रथमो धीमानव्यक्तः संप्रकाशते ॥ २४
स वै शरीरी प्रथमः कारणत्वे व्यवस्थितः । ) =अप्रतिघेन ज्ञानेन ऐश्वर्येण च सोऽन्वितः २५
धर्मेण चाप्रतिघेन वैराग्येण समन्वितः तस्येश्वरस्याप्रतिघं ज्ञानं वैराग्यलक्षणम् ॥ २६
धर्मैश्वर्यकृता बुद्धिर्ब्राह्मी जज्ञेऽभिमानिनः । अव्यक्ताज्जायते चास्य मनसा च यदिच्छति ॥ २७
वशीकृतत्वाद्द्वैगुण्यात्सुरेशत्वात्स्वभावतः । चतुर्मुखस्तु ब्रह्मत्वे कालत्वे चान्तकोऽभवत् ॥ २८
सहस्रमूर्धा पुरुषस्तिस्रोऽवस्थाः स्वयंभुवः । ×सत्त्वं रजश्च ब्रह्मत्वे कालत्वे च रजस्तमः ॥ २९
सात्त्विकं पुरुषत्वे च गुणवृत्तिः स्वयंभुवः ] । लोकान्सृजति ब्रह्मत्वे कालत्वे संक्षिपत्यपि ॥ ३०
पुरुषत्वे ह्युदासीनस्तिस्रोऽवस्थाः प्रजापतेः । ब्रह्मा कमलगर्भाभः कालो जात्याऽञ्जनप्रभः ॥ ३१
पुरुषः पुण्डरीकाक्षो रूपं तत्परमात्मनः । योगेश्वरः शरीराणि करोति विकरोति च ॥ ३२
नानाकृतिक्रियारूपनामवृत्तिः स्वलीलया । त्रिधा यद्वर्तते लोके तस्मात्त्रिगुण उच्यते ॥ ३३
चतुर्धा प्रविभक्तत्वाच्चतुर्व्यूहः प्रकीर्तितः । यदाप्नोति यदादत्ते यच्चास्ति(त्ति)विषयं प्रति ॥ ३४
त(य)च्चास्य सततं भावस्तस्मादात्मा निरूच्यते । ऋषिः सर्वगतत्वाच्च शरीराद्यात्स्वयं प्रभुः ३५
स्वामित्वमस्य तत्सर्वं विष्णुः सर्वप्रवेशनात् । भगवान्भगसद्भावाद्भागो रागस्य शासनात् ॥ ३६
परश्च तु प्रकृष्टत्वादवनादोमिति स्मृतः । सर्वज्ञः सर्वविज्ञानात्सर्वः सर्वं यतस्ततः ॥ ३७
नराणामयनं यस्मात्तेन नारायणः स्मृतः । त्रिधा विभज्य स्वात्मानं त्रैलोक्यं संप्रवर्तते ॥ ३८
* अयं श्लोको नास्ति ड. पुस्तके । + इदमर्धं नास्ति क. पुस्तके । ÷ धनुश्चिह्नान्तर्गतग्रन्थो म. पुस्तके नास्ति । = इदमर्धं नास्ति घ. पुस्तके । × एतच्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. घ. पुस्तकयोः ।
[अ० ६ श्लो० १-९] वायुपुराणम् । १७
(( सृष्टिप्रकरणम् ))
सृजते ग्रसते चैव वीक्षते च त्रिभिस्तु यत् । अग्रे हिरण्यगर्भः स प्रादुर्भूतश्चतुर्मुखः ॥ ३९
आदित्वाच्चाऽऽदिदेवोऽसावजातत्वादजः स्मृतः । पाति यस्मात्प्रजाः सर्वाः प्रजापतिरतः स्मृतः॥ ४०
देवेषु च महान्देवो महादेवस्ततः स्मृतः । सर्वेशत्वाच्च लोकानामवश्यत्वात्तथेश्वरः ॥ ४१
बृहत्त्वाच्च स्मृतो ब्रह्मा भूतत्वाद्भूत उच्यते । ( *क्षेत्रज्ञः क्षेत्रविज्ञानाद्विभुः सर्वगतो यतः ॥ ४२
यस्मात्पुर्यनुशेते च तस्मात्पुरुष उच्यते । नोत्पादितत्वात्पूर्वत्वात्स्वयंभूरिति स स्मृतः) ॥ ४३
इज्यत्वादुच्यते यज्ञः कविर्वििक्रान्तदर्शनात् । क्रमणः क्रमणीयत्वाद्धर्णकस्याभिपालनात् ॥ ४४
आदित्यसंज्ञः कपिलस्त्वग्रजोऽग्निरिति स्मृतः । हिरण्यमस्य गर्भोऽभूद्धिरण्यस्यापि गर्भजः ॥ ४५
तस्माद्धिरण्यगर्भः स पुराणेऽस्मिन्निरुच्यते । स्वयंभुवो निवृत्तस्य कालो वर्षाग्रजस्तु यः ॥ ४६
न शक्यः परिसंख्यातुमपि वर्षशतैरपि । कल्पसंख्यानिवृत्तस्तु पराख्यो ब्रह्मणः स्मृतः ॥ ४७
तावच्छेषोऽस्य कालोऽन्यस्तस्यान्ते मतिसृज्यते । कोटिकोटिसहस्राणि अन्तर्भूतानि यानि वै ॥ ४८
समतीतानि कल्पानां तावच्छेषाः परास्तु ये । यस्त्वयं वर्तते कल्पो वाराहं तं निबोधत ॥ ४९
प्रथमः सांप्रतस्तेषां कल्पोऽयं वर्तते द्विजाः । तस्मिन्त्स्वायंभुवाद्यास्तु मनवः स्युश्चतुर्दश ॥ ५०
अतीता वर्तमानाश्च भविष्या ये च वै पुनः । तैरियं पृथिवी सर्वा सप्तद्वीपा समन्ततः ॥ ५१
पूर्णं युगसहस्रं वै परिपाल्या नरेश्वरैः । प्रजाभिस्तपसा चैव तेषां शृणुत विस्तरम् ॥ ५२
मन्वन्तरेण चैकेन सर्वाण्येवान्तराणि वै । भविष्याणि भविष्यैश्च कल्पः कल्पेन चैव ह ॥ ५३
अतीतानि च कल्पानि सोदर्कानि सहान्वयैः । अनागतेषु तद्वच्च तर्कः कार्यो विजानता ॥ ५४
इति श्रीमहापुराणे वायुप्रोक्ते प्रक्रियापादे प्रकृतिशोभणो नाम पञ्चमोऽध्यायः ॥ ५ ॥
आदितः श्लोकानां समष्ट्यङ्काः--४१९
अथ षष्ठोऽध्यायः ।
सृष्टिप्रकरणम् ।
सूत उवाच--
आपो ह्यग्रे समभवन्नष्टेऽस्मिन् पृथिवीतले । सान्तरालैकलीनेऽस्मिन्नष्टे स्थावरजङ्गमे ॥ १
एकार्णवे तदा तस्मिन्न प्राज्ञायत किंचन । तदा स भगवान्ब्रह्मा सहस्राक्षः सहस्रपात् ॥ २
सहस्रशीर्षा पुरुषो रुक्मवर्णोऽह्यतीन्द्रियः । ब्रह्मा नारायणाख्यः स सुष्वाप सलिले तदा ॥ ३
सत्त्वोद्रेकात्प्रबुद्धस्तु शून्यं लोकमुदीक्ष्य सः । इमं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति ॥ ४
आपो नारा वै तनव इत्यपां नाम शुश्रुम । अप्सु शेते च यत्तस्मात्तेन नारायणः स्मृतः ॥ ५
तुल्यं युगसहस्रस्य नैशं कालमुपास्य सः । शर्वर्यन्ते प्रकुरुते ब्रह्मत्वं सर्गकारणात् ॥ ६
ब्रह्मा तु सलिले तस्मिन्विज्ञायान्तर्गतां महीम् । अनुमानादसम्मूढो भूमेरुद्धरणं प्रति ॥ ७
अकरोत्स तनुं ह्यन्यां कल्पादिषु यथा पुरा । ततो महात्मा मनसा दिव्यं रूपमचिन्तयत् ॥ ८
* धनुश्चिह्नान्तर्गतग्रन्थो ङ. पुस्तके नास्ति ।
३