वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 26, कुल 465 में से
संदर्भ में पढ़ें[अ० ६ श्लो० १-९] वायुपुराणम् । १७
(( सृष्टिप्रकरणम् ))
सृजते ग्रसते चैव वीक्षते च त्रिभिस्तु यत् । अग्रे हिरण्यगर्भः स प्रादुर्भूतश्चतुर्मुखः ॥ ३९
आदित्वाच्चाऽऽदिदेवोऽसावजातत्वादजः स्मृतः । पाति यस्मात्प्रजाः सर्वाः प्रजापतिरतः स्मृतः॥ ४०
देवेषु च महान्देवो महादेवस्ततः स्मृतः । सर्वेशत्वाच्च लोकानामवश्यत्वात्तथेश्वरः ॥ ४१
बृहत्त्वाच्च स्मृतो ब्रह्मा भूतत्वाद्भूत उच्यते । ( *क्षेत्रज्ञः क्षेत्रविज्ञानाद्विभुः सर्वगतो यतः ॥ ४२
यस्मात्पुर्यनुशेते च तस्मात्पुरुष उच्यते । नोत्पादितत्वात्पूर्वत्वात्स्वयंभूरिति स स्मृतः) ॥ ४३
इज्यत्वादुच्यते यज्ञः कविर्वििक्रान्तदर्शनात् । क्रमणः क्रमणीयत्वाद्धर्णकस्याभिपालनात् ॥ ४४
आदित्यसंज्ञः कपिलस्त्वग्रजोऽग्निरिति स्मृतः । हिरण्यमस्य गर्भोऽभूद्धिरण्यस्यापि गर्भजः ॥ ४५
तस्माद्धिरण्यगर्भः स पुराणेऽस्मिन्निरुच्यते । स्वयंभुवो निवृत्तस्य कालो वर्षाग्रजस्तु यः ॥ ४६
न शक्यः परिसंख्यातुमपि वर्षशतैरपि । कल्पसंख्यानिवृत्तस्तु पराख्यो ब्रह्मणः स्मृतः ॥ ४७
तावच्छेषोऽस्य कालोऽन्यस्तस्यान्ते मतिसृज्यते । कोटिकोटिसहस्राणि अन्तर्भूतानि यानि वै ॥ ४८
समतीतानि कल्पानां तावच्छेषाः परास्तु ये । यस्त्वयं वर्तते कल्पो वाराहं तं निबोधत ॥ ४९
प्रथमः सांप्रतस्तेषां कल्पोऽयं वर्तते द्विजाः । तस्मिन्त्स्वायंभुवाद्यास्तु मनवः स्युश्चतुर्दश ॥ ५०
अतीता वर्तमानाश्च भविष्या ये च वै पुनः । तैरियं पृथिवी सर्वा सप्तद्वीपा समन्ततः ॥ ५१
पूर्णं युगसहस्रं वै परिपाल्या नरेश्वरैः । प्रजाभिस्तपसा चैव तेषां शृणुत विस्तरम् ॥ ५२
मन्वन्तरेण चैकेन सर्वाण्येवान्तराणि वै । भविष्याणि भविष्यैश्च कल्पः कल्पेन चैव ह ॥ ५३
अतीतानि च कल्पानि सोदर्कानि सहान्वयैः । अनागतेषु तद्वच्च तर्कः कार्यो विजानता ॥ ५४
इति श्रीमहापुराणे वायुप्रोक्ते प्रक्रियापादे प्रकृतिशोभणो नाम पञ्चमोऽध्यायः ॥ ५ ॥
आदितः श्लोकानां समष्ट्यङ्काः--४१९
अथ षष्ठोऽध्यायः ।
सृष्टिप्रकरणम् ।
सूत उवाच--
आपो ह्यग्रे समभवन्नष्टेऽस्मिन् पृथिवीतले । सान्तरालैकलीनेऽस्मिन्नष्टे स्थावरजङ्गमे ॥ १
एकार्णवे तदा तस्मिन्न प्राज्ञायत किंचन । तदा स भगवान्ब्रह्मा सहस्राक्षः सहस्रपात् ॥ २
सहस्रशीर्षा पुरुषो रुक्मवर्णोऽह्यतीन्द्रियः । ब्रह्मा नारायणाख्यः स सुष्वाप सलिले तदा ॥ ३
सत्त्वोद्रेकात्प्रबुद्धस्तु शून्यं लोकमुदीक्ष्य सः । इमं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति ॥ ४
आपो नारा वै तनव इत्यपां नाम शुश्रुम । अप्सु शेते च यत्तस्मात्तेन नारायणः स्मृतः ॥ ५
तुल्यं युगसहस्रस्य नैशं कालमुपास्य सः । शर्वर्यन्ते प्रकुरुते ब्रह्मत्वं सर्गकारणात् ॥ ६
ब्रह्मा तु सलिले तस्मिन्विज्ञायान्तर्गतां महीम् । अनुमानादसम्मूढो भूमेरुद्धरणं प्रति ॥ ७
अकरोत्स तनुं ह्यन्यां कल्पादिषु यथा पुरा । ततो महात्मा मनसा दिव्यं रूपमचिन्तयत् ॥ ८
* धनुश्चिह्नान्तर्गतग्रन्थो ङ. पुस्तके नास्ति ।
३