पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)
Pashupata Sutras of Lakulisha with Panchartha Bhashya
भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा
प्रारंभिक मंगलाचरण एवं प्रथम अध्याय: कार्य-तत्त्व निरूपण
तन्त्र
१८६
This image shows a blank, textured sheet of paper with no visible text to transcribe.
✓
तन्त्र १८६
This image appears to be a blank page or endpaper with no printed Sanskrit or philosophical text. Only a very faint, faded pencil notation or stamp mark is visible near the top right:
(अस्पष्ट / Faint pencil mark/stamp)
तन्त्रम् १८६ पाशुपतसूत्रम् [ 1999-9 / PRC-2 (६) / 392200-2 / तारादत्त शर्मा ]
विषयानुक्रमणिका।
विषयाः। पृष्ठम्।
प्रथमाध्याये—
पदार्थोपन्यासः
भस्मप्रकरणम् ८
यमप्रकरणम् १५
आयतनप्रकरणम् ३४
आधिकारिकम् ऐश्वर्यप्रकरणम् ४२
षट्सूत्रीप्रकरणम् ४६
ऐश्वर्यनित्यत्वप्रकरणम् ४९
सद्योजातमन्त्रप्रकरणम् ५२
द्वितीयाध्याये—
आधिकारिकं कार्यकारणप्रकरणम् ५५
आनुषङ्गिकं ,, ६१
चर्याप्रकरणम् . ६४
वामदेवमन्त्रप्रकरणम् ७२
तृतीयाध्याये—
विधिप्रकरणम् ७७
अघोरमन्त्रप्रकरणम् ८९
चतुर्थाध्याये—
विद्याज्ञानप्रकरणम् ९२
आधिकारिकम् असन्मानचरितप्रकरणम् ९६
आनुषङ्गिकम् ,, ९९
तत्पुरुषमन्त्रप्रकरणम् १०७
॥
पञ्चमाध्याये—
योगिलक्षणम् १०९
शून्यागारगुहाप्रकरणम् ११५
योगपदार्थः १२९
दुःखान्तप्रकरणम् १४०
ईशानमन्त्रप्रकरणम् १४४
शुद्धिपत्रम्.
पृष्ठम् पङ्क्तिः अशुद्धम् शुद्धम्
२२ ३ १४ १०
३९ १२ २ ११
४० ५ १४–१६ १५–१७
८३ १२ १ २
९० ८ ४ ८
१२८ २१ } कारिकाव्याख्या कारिका
२२ }
९८ १२ मानस मान
१०४ १३ असन्मार्ग असन्मान
२१ तति तंत्र
१११ १० विद्या विद्द्या
तन्त्रम् १८६
॥ श्री ॥
पाशुपतसूत्रं
भगवत्कौण्डिन्यविरचितभाष्योपेतम् ।
अथातः पशुपतेः पाशुपतं योगविधिं व्याख्यास्यामः ॥ १ ॥
हितार्थमखिलं येन सृष्टं ब्रह्मादिकं जगत् ।
प्रणम्य तं पशुपतिं शिरसा सदसस्पतिम् ॥
अर्थातिशयसम्पन्नं ज्ञानातिशयमुत्तमम् ।
पञ्चार्थं क्रियते भाष्यं कौण्डिन्येनानुपूर्वशः ॥
१. "पञ्चार्थं सम्प्रवक्ष्यामि यथावदनुपूर्वशः ।" इति पाठान्तरम् ।
२. कौण्डिन्य I believe, is the गोत्र name. राशीकर as mentioned
by सायण-माधव in his सर्वदर्शनसंग्रह might be the name, as he has classified
the पाशुपत system into five राशिs; viz., पञ्चार्थ (कार्य, कारण, योग, विधि and
दुःखान्त). This was referred to by श्रीशङ्कर in his वेदान्तसूत्रभाष्य
अ० २, पा० २, सू० ३७ on पाशुपताधिकरण.
There were Eighteen Gurus from नकुलीश to विद्यागुरु. The Seven-
teenth Guru was राशीकर. 'कौण्डिन्य' as a गोत्र or family name, occurs in
वृहदारण्यकोपनिषद् in वंश or गुरुपरम्पराप्रकरण (6th Brahmana of 2nd and
4th Adhyayas) as the 6th in the grade of the teachers under
कौशिक. 'कौशिक' was the direct student under नकुलीश. See गणकारिका
for आचार्य ; Gaekwad's Oriental Series No. 15.
आह—वक्ष्यति भगवान् पञ्चार्थम् । अथास्यादिसूत्रं किमिति ? ।
अत्रोच्यते—अथातः पशुपतेः पाशुपतं योगविधिं व्याख्यास्यामः
इति । एतत् प्रथमसूत्रं शास्त्रादावुच्चार्यते । तदनन्तरं पदविग्रहः
क्रियते । (तदुपयोगिनं योगविधिं व्याख्यास्याम इति १) । अष्टपदं
सूत्रम् । तत्र अथ अतः इति द्वे पदे नैपातिके । पशुपतेरित्येतत्
पदं परिग्रहार्थेनोच्चार्यते । पाशुपतमिति तद्धितम् । योगविधिमिति
सामासिकम् । वि आङिति द्वे पदे² । ख्यास्याम इत्याख्या-
तिकम् । आह—किंम्प्रयोजनं पदविग्रहः क्रियते ? । तदुच्यते—
अर्थप्रसिद्ध्यर्थम् । कस्मादर्थप्रसिद्धिः पदानाम् ? । यस्मात्
पृथगर्थानीह पदानि भवन्ति । यस्मादेवंवाह—
“ यथा विवृतगात्रोऽपि शिरसि प्रावृतो नरः ।
नाभिव्यक्तिं व्रजत्येवं सूत्रं विग्रहवर्जितम् ॥ ”
एवमर्थप्रसिद्ध्यर्थं पदविग्रहः क्रियते । आह—उक्तः पद-
विग्रहः प्रयोजनं च । इदं तु वाच्यम्—अथ शास्त्रादिः कः
इति ? । अत्रोच्यते—अथातः पशुपतेरित्येष तावच्छास्त्रादिः । तत्र
शास्त्रं तन्त्रं ग्रन्थो विद्या च । ग्रन्थार्थयोस्तदधिगमोपायत्वात् ।
पारिमाण्यम् अथशब्दादिशिवान्तं (अ० १-५) प्रवचनम् । सङ्ख्या
पञ्चाध्यायाः पञ्च ब्रह्माणि अधिकरणं³ च । अथशब्दातःशब्द-
व्याख्यान(म् ?)वचनस्नानशयनाद्युपदेशाच्च (अ० १, सू० १-३) शिष्या-
चार्ययोः प्रसिद्धिः । कैवल्यगतानामपि दुःखित्त्व⁴दर्शनात् कार्यकारण-
१. An old form adopted when a topic was dealt with by a Guru.
२. The inclusion of "उपसर्गौ" appears necessary. It might be an omission in the original Ms.
३. He has not mentioned any अधिकरण in his भाष्य.
४. He means the quarrels and jealousies among celestial beings mentioned in the Vedic and Puranic literatures.
प्रथमोऽध्यायः । ३
प्रत्यक्षदर्शी विप्रत्वाद् (अ० ५, सू० २७) उपायोपेयप्रत्यक्षदर्शित्वाच्च प्रश्न-
प्रतिवक्ता ऐश्वर्यावस्थश्चैव मुक्तत्वान्मनोऽमनःसंस्थश्च (अ० २, सू० २७)
कामित्वाद् (अ० १, सू० २४) अतः सर्वाचार्यविशिष्टोऽयमाचार्य इति ।
तथा ब्राह्मणग्रहणात् (अ० ४, सू० २०) स्त्रीप्रतिषेधाद् (अ० १, सू० १३)
इन्द्रियजयोपदेशाच्च (अ० ५, सू० ७) उक्तं हि—
“बाधिर्यमान्ध्यमग्रत्वं मूकता जडता तथा ।
उन्मादः कौण्यं कुष्ठित्वं क्लैब्यं गुदावर्तपङ्गुता १ ” ॥
(एवम्) आदिरहितः पट्विन्द्रियो ब्राह्मणः शिष्यः।२ स चान्य-
विशिष्टोऽयं शिष्य इति । तथा देवादिव्यैश्च३ क्रीडाधर्मित्वात् क्रीडान्निमित्ता
ईश्वरप्रवृत्तिः । अनुग्रहार्था चाचार्यस्य प्रवचनवक्तृत्वे प्रवृत्तिः । तथा
भजनचोदनप्रसादशिवत्वलिप्सोपदेशाद् दुःखान्तार्थिनः शिष्यस्येहोप-
सदनप्रवृत्तिः। न तु धर्मार्थकामकैवल्यार्थात्रेति । तथा कामित्वाद् (अ० १,
सू० २४) इन्द्रकौशिकादिभ्यश्चाचार्यो४ दिव्यो निरतिशयक्रीडैश्वर्यस्वाभा-
व्यादित्यर्थः । चोदनोपसदनसंस्कारवश्यादिदुःखैरभिभूतत्वाच्चादिन्या
इन्द्रकौशिकाद्याः शिष्या इति । तथा शिष्टप्रामाण्यात् कामित्वाद् (अ० १,
सू० २४) अजातत्वाच्च (अ० १, सू० ४०) मनुष्यरूपी भगवान् ब्राह्मण-
कायमास्थाय कायावतरणे५ अवतीर्ण इति। तथा पद्भ्यामुज्जयिनीं६ प्राप्तः। (*)
१. The line looks defective.
२. In other systems physically defective students may also
be admitted. संन्यास is intended generally for old men and
sinners.
३. Might be देवादियु.
४. कौशिक is the 2nd of the 18 Avataras.
५. See कायावतरण(कारवण)माहात्म्य, in गणकारिका.
६. Ujjain is one of the १२ ज्योतिर्लिङ्ग places of pilgrimage.
- Not traceable.
४ सभाष्ये पाशुपतसूत्रे
कस्मात् ? । शिष्टप्रामाण्यात् चिह्न¹दर्शनश्रवणाच्च । अत्याश्रमप्रसिद्धं
लिङ्गमास्थाय प्रवचनमुक्तवान् ; भस्मस्नानशयनानुस्नाननिर्माल्यैक-
वासोग्रहणाद् (अ० १, सू० २—५ & १७⁴) अधिकरणप्रसिद्धयर्थं च
स्वशास्त्रोक्ते आयतने शिष्यसम्बन्धार्थं शुचौ देशे भस्मवेद्यामुषितः ।
अतो रुद्रप्रचोदितः कुशिक²भगवानभ्यागत्याचार्ये परिपूर्णपरितृप्त्या-
द्युत्कर्षलक्षणानि, विपरीतानि चात्मनि दृष्ट्वा, पादावुपसंगृह्य न्यायेन
जातिं गोत्रं श्रुतमतृणत्वं च निवेदयित्वा कृतक्षणमाचार्यं काले
वैद्यवदवस्थितमातुरवदवस्थितः शिष्यः पृष्टवान्—भगवन् ! किमेतेषा-
माध्यात्मिकाधिभौतिकाधिदैविकानां सर्वदुःखानामैकान्तिकोऽत्यन्तको
व्यपोहोऽस्त्युत नेति ? । अथोक्तपरिग्रहाधिकारलिप्सामु परापदेशेनोप-
देशे सच्छिष्यसाधकपाठप्रसिद्धयर्थं कारणपदार्थाधिगमार्थं चात्मनि
परापदेशं कृत्वा भगवाने³वोक्तवान्—अथेति । अत्र पूर्वप्रकृतापेक्षाया-
मथशब्दः । कथम् ? । शिष्येणोदीरितं पूर्वं प्रश्नमपेक्ष्योक्तवानथेति ।
एवमयमथशब्दः पृष्टप्रतिवचनार्थोऽस्ति । स दुःखान्त इत्यर्थः ।
आह—किं परीक्षिताय शिष्याय दुःखान्तः प्रतिज्ञातः
उतापरीक्षितायेति ? । उच्यते—परीक्षिताय । यस्मादाह — अत इति ।
अत्र अतःशब्दः शिष्यगुणवचने । यस्मादयं ब्रह्मावर्तदेशजः
कुलजः षडिन्द्रियो विविदिषादिसम्पन्नः शिष्यः । पूर्वं चात्रार्थतोऽतः-
शब्दो द्रष्टव्यः ।
अथ स दुःखान्तः कुतः प्राप्यते ? केन वाभ्युपायेनेति ? ।
तदुच्यते—पशुपतेः । प्रसादादिति वाक्यशेषः । अत्र पशूनां पतिः
१. None now in Ujjain knows the चिह्न-symbol or mark.
२. कुशिक is the 10th Guru in गुरुपरम्परा.
३. नकुलीश the author of these Sutras is the first Guru.
४. Not traceable.
प्रथमोऽध्यायः । ५
पशुपतिः । अत्र पशवो नाम सिद्धेश्वरवर्जं सर्वे चेतनावन्तः । कार्य-
करणाञ्जना निरञ्जनाश्च पशवः । आह—किं तेषां पशुत्वम् ? ।
उच्यते—अनैश्वर्यं बन्धः । कारणशक्तिसन्निरोधलक्षणमस्वातन्त्र्यमनै-
श्वर्यं बन्धोऽनादिः । बन्धगुण इत्युपचर्यते (?) । तत् कथंलक्षणमिति
चेत् ? । तदुच्यते—पश्यनात् पाशनाच्च पशवः । तत्र पाशा नाम
कार्यकारणाख्याः कलाः । ताश्च कला उपरिष्टाद् वक्ष्यामः । ताभिः
पाशिताः बद्धाः सन्निरुद्धाः शब्दादिविषयपरवशाश्च भूत्वावतिष्ठन्ते
इत्यतोऽवगम्यतेऽस्वातन्त्र्यमनैश्वर्यं बन्धः । कार्यकारणरहितस्य पशुत्वं
निवर्तेत इति चेत् ; (न) । तदुच्यते—संहृतानामपि पुनः पुनः संबन्ध-
ग्रहणाच्छास्त्रे । किं चान्यत् । पश्यनाच्च पशवः । यस्माद्विश्रुत्वेऽपि
चित्तसमवेतत्वेऽपि च शरीरमात्रमेव पश्यन्त्युपलभन्ति च न वहिर्द्धानि ।
कार्यकारणरहिताश्च न कार्यकारणं प्रतिपद्यन्ते त्यजन्ति वा । धर्माधर्म-
प्रकाशदेशकालचोदनाद्यपेक्षितत्वाच्च । अतः सुष्टूक्तं पश्यनात् पाशनाच्च
पशवः । यस्मादुक्तं—
“साङ्ख्ययोगेन ये मुक्ताः साङ्ख्ययोगेश्वराश्च ये ।
ब्रह्मादयस्तिर्यगन्ताः सर्वे ते पशवः स्मृताः ॥”
पतिः कस्मात् ? । आप्ति पाति च तान् पशूनित्यतः पतिर्भवति ।
तान् केनाप्नोति ? केन रक्षति ? । ततो विभुशक्त्या । यस्मात् तत्रापि
शक्तिमस्यान्तान्नातिवर्तन्ते । विप्रत्वा(चा)(अ० ५, सू० २७) स्यानन्ता
ज्ञानशक्तिः अपारिमिता । तया अपारिमितया अपारिमितानेव प्रत्यक्षान्
पशूनाप्नोतीति पतिः । तथा पालयतीति प्रभुशक्तिः । कस्मात् ? ।
तच्छन्दात् तेषां प्रवृत्तिनिवृत्तिः स्थितिरिष्टानिष्टस्थानशरीरेन्द्रिय-
विषयादिप्राप्तिर्भवति । तत्परिवृष्टानां तत्प्रचोदितानां चेत्यर्थः । एवं
१. सिद्धेश्वर i. e., जीवन्मुक्त–freed souls like सनन्दन, सनत्कुमार etc. in
other systems.
६ | सभाष्ये पाशुपतसूत्रे
पशुपतेरिति कार्यकारणयोः प्रसादस्य चोद्देशः । तस्मात् प्रसादात्
स दुःखान्तः प्राप्यते । न तु ज्ञानवैराग्यधर्मैश्वर्यत्यागमात्रादित्यर्थः ।
आह—कुत्रस्थस्य कदा कीदृशस्य वा स भगवान् प्रसी-
दतीति ? । उच्यते—यदानेन तु तत् प्राप्तं भवति । आह—
किं तद् इति ? । उच्यते—पाशुपतम् । (अत्र पशुपतिनोक्तं परि-
गृहीतं पशुपतिमधिकृत्य चारभ्यत इति पाशुपतम् ।) यथा वैष्णवं
मानसमिति ।
किं तदिति ? । उच्यते—योगम् । अत्रात्मेश्वरसंयोगो
योगः । स पुनः पुरुषस्याध्ययनादिनैमित्तिकत्वादन्यतरकर्मजः
स्थाणुश्येनवत् । चोदनाध्ययनादिवचनाद् मेषवदुभयकर्मजः ।
यस्मात् सति विभुत्वे अनाधिकारकृतत्वाद् वियोगस्य । वियुक्तस्यैव च
संयोग उपदिश्यते । विषयरक्तविरक्तवत् क्रियायोगे । इह तु
समाधिलक्षणे योगे संनियम इति ।
आह—किं परिज्ञानमात्रादेव तद्योगः प्राप्यते ? । उच्यते ।
यस्मादाह—तत्प्राप्तौ विधिं व्याख्यास्यामः । अत्र योगस्य विधिः
योगविधिरिति षष्ठीतत्पुरुषसमासः । अत्र सूक्ष्मस्थूलसवाह्याभ्यन्तर-
सलक्षणविलक्षणक्रियासु विधिसंज्ञा यज्ञविधिवत् । न तु सेना-
वनादिवत् । कस्मात् ? । क्रियाणां क्षणिकानां समुदायासम्भवात् ।
यद्येवं विधिः कस्मात् ? । विधायकत्वाद् विधिः । उपायोपेयभावाच्च ।
विधिमिति कर्म ।
एवं सङ्खान्तः कार्यं कारणं योगो विधिरिति पञ्चैव
पदार्थाः समासतः उद्दिष्टाः । ते व्याख्येयाः । (व्याख्यानमेतेषां विस्तर-
विभागविशेषोपसंहारनिगमनानि ।) तस्माद् अन्यद् व्याख्येयम्
अन्यद् व्याख्यानम् । यस्मादाह—व्याख्यास्यामः । अत्र विः
विस्तरे विभागे विशेषे च भवति । तत्र विस्तर इति प्रत्यक्षानु-
प्रथमोऽध्यायः । ७
मानाप्तवचनानि(?नानी)ति प्रमाणान्यभिधीयन्ते । तत्र प्रत्यक्षं द्विविधम्—
इन्द्रियप्रत्यक्षम् आत्मप्रत्यक्षं च । इन्द्रियप्रत्यक्षमिन्द्रियार्थाः शब्द-
स्पर्शरूपरसगन्धघटाद्याः, व्याख्यानतापमूत्रपुरीषमांसलवणप्राणायामैः
सिद्धम्। आत्मप्रत्यक्षं तदुपहार(अ० १, सू० ८) कृत्स्नतपो(अ० ३, सू० १९)
दुःखान्तादि (अ० ५, सू० ४०) वचनात् सिद्धम् । यथा प्रस्थेन मितो व्रीहिः
प्रस्थः । परमार्थतस्त्विन्द्रियार्थसम्बन्धव्यञ्जकसामग्र्यं धर्माधर्मप्रकाशदेश-
कालचोदनाद्यनुगृहीतं सत् प्रमाणमुत्पद्यते । आत्मप्रत्यक्षं तु चित्ता-
न्तःकरणसम्बन्धसामग्र्यम् । अनुमानमपि प्रत्यक्षपूर्वकं ; चित्तात्मा-
न्तःकरणसम्बन्धसामग्र्यं च धर्माधर्मप्रकाशदेशकालचोदनादिस्मृतिहेतु-
कम् उत्पत्त्यनुग्रहातिरोभावकालादि । तैश्चोत्तरसृष्टिकर्तृत्वमनुमीयते
कारणस्य । अतो नोत्सूत्रम् । तच्च द्विविधं—दृष्टं सामान्यतोदृष्टं
च । तत्र दृष्टमपि द्विविधं—पूर्ववच्छेषवच्च । तत्र पूर्ववद्दृष्टोऽयं षडङ्गुलियुक्तः
स एवेति पूर्ववत् । विषाणादिमात्रदर्शनाद् गौरिति शेषवत् ।
सामान्यतोदृष्टमपीह गतिपूर्विकां देशान्तरप्राप्तिं दृष्ट्वा चास्यादित्यादि-
गतिप्रसिद्धिः । त्रैकाल्येऽप्यर्थाधिगमे निमित्तं प्रमाणम् । आगमो नाम
आ महेश्वराद् गुरुपारम्पर्यागतं शास्त्रम् । आगमोऽलौकिकादिव्यवहार-
हेतुराचक्षितः स्मृतः (*) । रुद्रः प्रोवाच (अ० ५, सू० ८) वचनात्
सिद्धिः । एष्वेवोपमानार्थापत्तिसम्भवाभावैतिह्यप्रतिभादीनां व्याख्या-
यमानानामन्तर्भावः । एवमेतानि त्रीणि प्रमाणानि । प्रमा-
पयिता भगवांश्चोदकः । प्रमाता पुरुषः । प्रमेयाः कार्यकारणा-
दयः पञ्च पदार्थाः । प्रमितिः संवित् । संवित् संचिन्तनं सम्बोधो
विद्याभिव्यक्तिरित्यर्थः । उद्देशनिर्देशाधिगमाच्च विर्विस्तरे भवति ।
विभागो नाम पदपदार्थसूत्रप्रकरणाध्यायाद्यसङ्करः । विशेषो
१. The passage is not clear.
२. He means his own scriptures and not the Vedas.
- Some words appear to be missing here.
नाम साध्यसाधनव्यतिरेकः । आङिति व्याख्यामर्यादायां भवति ।
पदात् पदं सूत्रात् सूत्रं प्रकरणात् प्रकरणम् अध्यायादध्यायम्
आ बोधादा परिसमाप्तेरिति, मर्यादावस्थस्यैव च वक्ष्यामः ।
ख्या प्रकथने । प्रतीताप्रतीताभिः संज्ञाभिः वेदादिविहिताभिः
व्यतिरेकेण च व्याख्यास्यामः । स्या इत्येष्ये काले । यावदय-
माचार्यो गृहस्थादिभ्योऽभ्यागतं पूर्वमतःशब्दात् परीक्षितं ब्राह्मणं
व्रतोपवासाद्यं महादेवस्य दक्षिणस्यां मूर्तौ सद्योजातादिसंस्कृतेन
भस्मना संस्करोति उत्पत्तिलिङ्गव्यावृत्तिं कृत्वा मन्त्रश्रावणं च
करोति तावदेष्यः कालः क्रियते । म इति प्रतिज्ञायां भवति ।
उत्थानादिगणे सम्यग्व्यवस्थितस्य व्याख्येयव्याख्यानयोर्भगवान्नेव
क्रमशॊ वक्ता । स्थूलोपायपूर्वकत्वात् सूक्ष्मविधेयाधिगमस्य
पूर्वाश्रमनियमप्रतिषेधार्थमत्याश्रमयमनियमप्रसिद्धयर्थं च (प्राग् ?) विधिः
प्रथमं व्याख्यायते । इत्यत्रायं पदार्थोपन्यासः परिसमाप्त इति ॥ १ ॥
अत्राह—प्रतिपन्नांशो यथाविधि प्रथमं व्याख्यायते । इदमी-
दानीं चिन्त्यम् । अथास्य कश्चादिः ? किं मध्यं ? कोऽन्तः ?
कत्यङ्गो वा विधिरिति ? । तदुच्यते—भस्मनाद्यो (अ० १, सू० २)
निन्दामध्यो (अ० ३, सू० ५) मूढान्तश्च (अ० ४, सू० ८) विधिः । स च
त्र्यङ्गो दानयजनतपोङ्ग इति । तत् कथमवगम्यते ? यस्मादिदमारभ्यते—
भस्मना त्रिषवणं स्नायीत ॥ २ ॥
अत्र भस्म नामद्रव्यं यदग्नीन्धनसंयोगान्निष्पन्नम् । तत् परकृतं
पार्थिवं शुक्लं दीप्तिमत् । ग्रामादिभ्यो भैक्ष्यवद् भस्मार्जनं कर्तव्यम् ।
स्नानशयनानुस्नानकृत्यबन्धुत्वान्निष्परिग्रहत्वादहिंसकत्वाद् उत्कृष्टमेव
शुचि प्रभूतं ग्राह्यं साधनत्वात् । अलाभे स्वल्पमपि ग्राह्यम् ।
आधारोऽप्यलाबुचर्मवस्त्रादिरत्र प्रसिद्धः । आह—किं तेन भस्मना
कर्तव्यम् ? । तदुच्यते—भस्मनेति तृतीया करणार्थे कर्तुः क्रिया-
: प्रथमोऽध्यायः । ९
मादिशति, यथा वाश्या तक्षणं बुद्ध्या पिधानम् । आह — अथ कस्मिन्
काले सा क्रिया कर्तव्येति ? । त्रिषवणम् इति । द्विगुः समासः ।
त्रीणीति सङ्ख्या । सवनमिति कालनिर्देशः । पूर्वसन्ध्या
मध्याह्नसन्ध्या अपरसन्ध्येति सन्ध्यात्रयम् । त्रिषवणं त्रिसन्ध्यं
त्रिकालमित्यर्थः । आह — त्रिषवणं किमनेन कर्तव्यम् ? । तदुच्यते —
स्नायीत १ । अत्र स्नानं शौचकार्येण शरीरेष्वागन्तुकानां स्नेह-
त्वग्लेपमलगन्धादीनां भस्मनापकर्षणं कर्तव्यम् । स्नानं तु भस्मद्रव्यगात्र-
संयोजनम् । परमार्थतस्तु स्नानादि पुण्यफलसंयोगधर्मात्मवचनाद्
(अ० ५, सू० ३१) आत्मशौचमेवैतत् । केवलं स्नानाद्यकलुषा-
(अ० १, सू० १८)पहतपाप्मादिवचनात् (अ० २, सू० ६)
कार्यकारणव्यपदेशेनात्मशौचं व्याख्यायते । इत इत्येतद् आज्ञायां
नियोगे च । नियोगत्वान्नियतं नियतत्वान्नियम इत्यर्थः । कस्मात् ? ।
प्रतितन्त्रसिद्धत्वाद् अहिंसकत्वाद् निश्रेयसहेतुत्वाच्च । भस्मना स्नेयं ;
'न चाद्भिर्विपरीतत्वादित्यर्थः ॥ २ ॥
किं स्नानमेवैवं भस्मना कर्तव्यम् ? । उच्यते । यस्मादाह —
भस्मनि शयीत ॥ ३ ॥
अत्र भस्म तदेव । निरुक्तमस्य पूर्वोक्तम् । भस्मनि इत्यौप-
श्लेषिकं सन्निधानम् । शय इत्युपशमस्य विश्रामस्याख्या । इत
१. The old religious practice was of besmearing the body with
holy ashes got from the Fire worship-Agnihotra etc., See Vaikhanasa
Srautasutra.
२. See अ० १, सू० २.
2
१० सभाष्ये पाशुपतसूत्रे
इत्येतदाज्ञायां नियोगे च । भस्मन्येव रात्रौ स्वप्तव्यं नान्यत्रेत्यर्थः ।
उक्तं हि—
" यथा मृगा मृत्युभयस्य भीता उद्विग्नवासा न लभन्ति निद्राम् ।
एवं यतिर्ध्यानपरो महात्मा संसारभीतो न लभेत निद्राम् ॥"
किञ्च विशेषार्थित्वात् । विशेषार्थी चायं ब्राह्मणः ।
उक्तं हि—
" न विशेषार्थिनां निद्रा चिरं नेत्रेषु तिष्ठति ।
हयानामिव जात्यानामर्धरात्रार्धशायिनाम् ॥”
तस्मात् परिवृष्टे भूप्रदेशे दिवा परिग्रहं कृत्वा भस्मास्तीर्या-
ध्ययनाध्यापनध्यानाभिनिविष्टेन प्रवचनचिन्तनाभिनिवेशैश्च श्रान्तेन
वाहूपधानेन सद्योजातादिसंस्कृते भस्मनि रात्रौ स्वप्तव्यमित्यर्थः ।
किमर्थमिति चेत् ? । उच्यते—तपोर्थं भूप्रदेशे शौचार्थं विश्रामार्थं
वा । समविषमनिम्नोन्नतायां भूमौ यामं यामद्वयं वा स्वप्तव्य-
मित्यर्थः ॥ ३ ॥
आह—किं स्नानं शयनं च भस्मना प्रयोजनद्वयमेवात्र
कर्तव्यम् उतान्यदपि ? । सवनान्तस्थस्यास्याशौचकं प्राप्तस्य
निर्घातकं किमिति ? । तदुच्यते—
अनुस्नानम् ॥ ४ ॥
मन्त्रादिस्नानवत् । अत्र अनु इति पृष्ठकर्मक्रियायां भवति ।
अनुपानानुगमनवत् । स्नानं तु भस्मद्रव्यसंयोजनमेव । सवनत्रये
१. An apt illustration.
प्रथमोऽध्यायः । ११
स्नानस्यान्तरेषु भुक्तोच्छिष्टक्षुतनिष्ठिवितमूत्रपुरीषोत्सर्गादिनिमित्तकम्
अशौचकमभिसमीक्ष्य तदनुस्नानं कर्तव्यम् । किमर्थमिति चेत् ?,
शौचार्थं लिङ्गाभिव्यक्त्यर्थं च । स्नेयमित्यर्थः ॥ ४ ॥
आह—किं भस्मैवैकं लिङ्गाभिव्यक्तिकारणम् ? । भक्ति-
विवृद्धौ वा अप्रतिषिद्धस्य साधनं किमिति ? । तदुच्यते—
निर्माल्यम् ॥ ५ ॥
अत्र भस्मवल्लोकादिप्रसिद्धं निर्माल्यम् । निर् इति निर्मुक्त-
स्याख्या । माल्यम् इति पुष्पसमूहपर्यायः । तत् परकृतं कारण-
मूर्त्यारोपितावतारितं निष्परिग्रहं पद्मोत्पलाद्यम् १ । भक्तिविवृद्धयर्थं
लिङ्गाभिव्यक्त्यर्थं च तद्२ धार्यमित्यर्थः ॥ ५ ॥
आह—भस्मनिर्माल्येन तस्य लिङ्गं व्यक्तं भवतीति क्व
सिद्धम् ? । तदुच्यते—इह । यस्मादाह—
लिङ्गधारी ॥ ६ ॥
अत्र यथान्येषामपि वर्णाश्रमिणामाश्रमप्रतिविभागकराणि लिङ्गानि
भवन्ति । तत्र गृहस्थस्य तावद् वासस्त्रयं३ वैणवी यष्टिः
१. No mention was made of Bilva leaves.
२. The method of taking निर्माल्य is well described in
गणकारिका by its commentator under the 6th Karika, page 12.
३. The number is not mentioned clearly by Manu and other
Smritikaras. Three cloths are specifically mentioned here viz., head-
dress, upper and lower cloths.
सोदकं च कमण्डलु सोत्तरोष्ठवपनं यज्ञोपवीतादि लिङ्गम् । तथा
ब्रह्मचारिणोऽपि दण्डकमण्डलुमौञ्जीमेखलायज्ञोपवीतकृष्णाजिनादि
लिङ्गम् । तथा वानप्रस्थस्यापि करीरचीरवल्कलकूर्चजटाधारणादि
लिङ्गम् । तथा भिक्षोस्त्रिदण्डमुण्डकमण्डलुकाषायवासोजलपवित्र-
स्थलपवित्रादि लिङ्गम् । एवमिहापि यदेतत् पाशुपतयोगा-
धिकरणं लिङ्गमित्याश्रमप्रतिविभागकरं भस्मस्नानशयनानुस्नान-
निर्माल्यैकवासादिनिष्पन्नं स्वशरीरलीनं पाशुपतमिति लौकिकादि-
ज्ञानजनकं तत् । लीयनाल्लिङ्गनाच्च लिङ्गम् । तद् धारयन्
लिङ्गधारी भवति । दण्डधारिवदित्यर्थः ॥ ६ ॥
आह—अथैते स्नानशयनानुस्नानादयोऽर्थाः क कर्तव्याः ? ।
कुतो वा निर्माल्यस्यार्जनं कर्तव्यम् ? । कुत्रस्थेन वा तद् धार्यम् ?
प्रथमोऽध्यायः । १३
“ग्रामे वा यदि वारण्ये पुण्यस्थानं हि शूलिनः ।
आवासो धर्मवृत्तानां सिद्धिक्षेत्रं हि तत् परम्” ॥ ७ ॥
आह—तस्मिन्नायतने प्रतिवसता काः क्रियाः कर्तव्याः ? ।
किं स्नानाद्या उपलेपनाद्या वा ? । आहोस्वद् दृष्टा अस्यान्या
वैशेषिक्यः क्रियाः कर्तव्याः ? । यथाचान्या वैशेषिक्यः क्रियाः
कर्तव्याः प्रयोजनं च वक्ष्यामः—
हसितगीतनृत्तडुंडुंकारैनमस्कार-
जप्योपहारेणोपतिष्ठेत् ॥ ८ ॥
अथ त्रिषु स्नानकालेषु सद्योजातादिसंस्कृतेन भस्मना
जपता स्नात्वा जपतैवायतनमभिगन्तव्यम् । अभिगम्य च यत्
पूर्वं जपति तत् प्रत्याहारार्थं जप्यम् ॐँ ॐँ ॐँ । हसितादीनि
तु कृत्वा यत् पश्चाज्जपति तन्नियमार्थं जप्यम् । तदत्र हसितं
नाम यदेतत् कण्ठोष्ठपुटविस्फूर्जनमहट्टहासैः क्रियते तद्धसितम् ।
गीतमपि गान्धर्वशास्त्रसमयानभिष्वङ्गेन यत्र भगवतो महेश्वरस्य
सभायां ३गौणद्रव्यजकर्मजानि नामानि चिन्त्यन्ते तत् । संस्कृतं
प्राकृतं परकृतमात्मकृतं वा यद् गीयते तद् गेयम् । नृत्तमपि
४नाट्यशास्त्रसमयानभिष्वङ्गेण हस्तपादादीनामुत्क्षेपणमवक्षेपणमाकुञ्चनं
प्रसारणं चलनमनवस्थानम् । नियमकाले नियमार्थं गेयसहकृतं
१. 'हुडुक्कार', २. 'कण्ठोष्ठपुटविस्फूर्जनपुरस्सरमहहहेत्यट्टहासः', ३. 'गुण-
धर्मादिनिमित्तानां चिन्तनम्', ४. 'नाट्यशास्त्रानुसारेण' इति सर्वदर्शनसङ्ग्रहे ।
नृत्तं प्रयोक्तव्यम् । डुंडुंकारो नाम य एष जिह्वाग्रतालुसंयोगा-
न्निष्पद्यते पुण्यो वृषनादसदृशः सः । डुंडुंकरणं डुंडुंकारः ।
कारशब्दो डुंडुंकारस्योपहाराङ्गावधारणार्थः । नम इति । ना-
प्योष्ठीयं कर्तव्यं नोपांशु । मानसं तु नमस्करणं नमस्कारः ।
कारशब्दो वाचिकोपांशुप्रतिषेधार्थं मानसोपहाराङ्गावधारणार्थं चेत्यर्थः ।
जप्यं नाम सद्योजातादिष्वक्षरपङ्क्त्यां मनसा भावस्य सञ्चार-
विचारः । तज्जप्यम् । उपेति विशेषणे क्रियोपसंहारे समस्तत्वे
च । उपहरणाद् उपहारो व्रतं नियम इत्यर्थः । उपह्रियते
निवेद्यते नियोगमात्रकर्तृत्वात् साधकेनेत्युपहारः । (उपतिष्ठेद्) ।
अत्रोपेत्यभ्युपगमे । अभ्युपगतेन विधिस्थेन प्रणतविनतेनेत्यर्थः ।
तिष्ठेदित्यैकाग्र्यं प्रत्याहाराभावस्थितिमेवाधिकुरुते । सर्वकरणानां
वृत्तौ प्रत्याहारं कृत्वा कायिकवाचिकमानसिकामिः क्रियाभि-
रुपहारं कृत्वा भृत्यवदुपहारेण स्थेयम् । अपसव्यं च प्रदक्षिण-
मुपरिष्टाद् वक्ष्यामः ॥ ८ ॥
आह--कस्य निर्माल्यं धार्यम् ? । कस्य वा आयतने
वस्तव्यम् ? । क चोपस्थेयमिति ? । तदुच्यते--
महादेवस्य दक्षिणामूर्तेः ॥ ९ ॥
अत्र महान् इत्यभ्यधिकत्वे । सर्वक्षेत्रज्ञानामभ्यधिक उत्कृष्टो
व्यतिरिक्तश्च भवतीत्यभ्यधिकः । ऋषिर्विप्रः, अधिपतिः (अ० ५,
सू० २७ & ४४) । सदाशिवत्वमभ्यधिकत्वं च प्रवक्ष्यामः । अत्र
देव इति दिवु क्रीडायाम् । क्रीडाधर्मित्वात् । अग्न्युष्णत्ववत् ।
क्रीडावानेव भगवान् विद्याकलापशुसंज्ञकं त्रिविधमपि कार्यमुत्पादयति
अनुगृह्णाति तिरोभावयति च । उक्तं हि--