सामग्री पर जाएँ
सर्वकोश
पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

Pashupata Sutras of Lakulisha with Panchartha Bhashya

भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा

DevanagariSanskritpublished166 पृष्ठ

पृष्ठ 11, कुल 166 में से

संदर्भ में पढ़ें
पृष्ठ 11

प्रथमोऽध्यायः । ५
पशुपतिः । अत्र पशवो नाम सिद्धेश्वरवर्जं सर्वे चेतनावन्तः । कार्य-
करणाञ्जना निरञ्जनाश्च पशवः । आह—किं तेषां पशुत्वम् ? ।
उच्यते—अनैश्वर्यं बन्धः । कारणशक्तिसन्निरोधलक्षणमस्वातन्त्र्यमनै-
श्वर्यं बन्धोऽनादिः । बन्धगुण इत्युपचर्यते (?) । तत् कथंलक्षणमिति
चेत् ? । तदुच्यते—पश्यनात् पाशनाच्च पशवः । तत्र पाशा नाम
कार्यकारणाख्याः कलाः । ताश्च कला उपरिष्टाद् वक्ष्यामः । ताभिः
पाशिताः बद्धाः सन्निरुद्धाः शब्दादिविषयपरवशाश्च भूत्वावतिष्ठन्ते
इत्यतोऽवगम्यतेऽस्वातन्त्र्यमनैश्वर्यं बन्धः । कार्यकारणरहितस्य पशुत्वं
निवर्तेत इति चेत् ; (न) । तदुच्यते—संहृतानामपि पुनः पुनः संबन्ध-
ग्रहणाच्छास्त्रे । किं चान्यत् । पश्यनाच्च पशवः । यस्माद्विश्रुत्वेऽपि
चित्तसमवेतत्वेऽपि च शरीरमात्रमेव पश्यन्त्युपलभन्ति च न वहिर्द्धानि ।
कार्यकारणरहिताश्च न कार्यकारणं प्रतिपद्यन्ते त्यजन्ति वा । धर्माधर्म-
प्रकाशदेशकालचोदनाद्यपेक्षितत्वाच्च । अतः सुष्टूक्तं पश्यनात् पाशनाच्च
पशवः । यस्मादुक्तं—
“साङ्ख्ययोगेन ये मुक्ताः साङ्ख्ययोगेश्वराश्च ये ।
ब्रह्मादयस्तिर्यगन्ताः सर्वे ते पशवः स्मृताः ॥”
पतिः कस्मात् ? । आप्ति पाति च तान् पशूनित्यतः पतिर्भवति ।
तान् केनाप्नोति ? केन रक्षति ? । ततो विभुशक्त्या । यस्मात् तत्रापि
शक्तिमस्यान्तान्नातिवर्तन्ते । विप्रत्वा(चा)(अ० ५, सू० २७) स्यानन्ता
ज्ञानशक्तिः अपारिमिता । तया अपारिमितया अपारिमितानेव प्रत्यक्षान्
पशूनाप्नोतीति पतिः । तथा पालयतीति प्रभुशक्तिः । कस्मात् ? ।
तच्छन्दात् तेषां प्रवृत्तिनिवृत्तिः स्थितिरिष्टानिष्टस्थानशरीरेन्द्रिय-
विषयादिप्राप्तिर्भवति । तत्परिवृष्टानां तत्प्रचोदितानां चेत्यर्थः । एवं
१. सिद्धेश्वर i. e., जीवन्मुक्त–freed souls like सनन्दन, सनत्कुमार etc. in
other systems.