पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)
Pashupata Sutras of Lakulisha with Panchartha Bhashya
भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा
पृष्ठ 8, कुल 166 में से
संदर्भ में पढ़ेंआह—वक्ष्यति भगवान् पञ्चार्थम् । अथास्यादिसूत्रं किमिति ? ।
अत्रोच्यते—अथातः पशुपतेः पाशुपतं योगविधिं व्याख्यास्यामः
इति । एतत् प्रथमसूत्रं शास्त्रादावुच्चार्यते । तदनन्तरं पदविग्रहः
क्रियते । (तदुपयोगिनं योगविधिं व्याख्यास्याम इति १) । अष्टपदं
सूत्रम् । तत्र अथ अतः इति द्वे पदे नैपातिके । पशुपतेरित्येतत्
पदं परिग्रहार्थेनोच्चार्यते । पाशुपतमिति तद्धितम् । योगविधिमिति
सामासिकम् । वि आङिति द्वे पदे² । ख्यास्याम इत्याख्या-
तिकम् । आह—किंम्प्रयोजनं पदविग्रहः क्रियते ? । तदुच्यते—
अर्थप्रसिद्ध्यर्थम् । कस्मादर्थप्रसिद्धिः पदानाम् ? । यस्मात्
पृथगर्थानीह पदानि भवन्ति । यस्मादेवंवाह—
“ यथा विवृतगात्रोऽपि शिरसि प्रावृतो नरः ।
नाभिव्यक्तिं व्रजत्येवं सूत्रं विग्रहवर्जितम् ॥ ”
एवमर्थप्रसिद्ध्यर्थं पदविग्रहः क्रियते । आह—उक्तः पद-
विग्रहः प्रयोजनं च । इदं तु वाच्यम्—अथ शास्त्रादिः कः
इति ? । अत्रोच्यते—अथातः पशुपतेरित्येष तावच्छास्त्रादिः । तत्र
शास्त्रं तन्त्रं ग्रन्थो विद्या च । ग्रन्थार्थयोस्तदधिगमोपायत्वात् ।
पारिमाण्यम् अथशब्दादिशिवान्तं (अ० १-५) प्रवचनम् । सङ्ख्या
पञ्चाध्यायाः पञ्च ब्रह्माणि अधिकरणं³ च । अथशब्दातःशब्द-
व्याख्यान(म् ?)वचनस्नानशयनाद्युपदेशाच्च (अ० १, सू० १-३) शिष्या-
चार्ययोः प्रसिद्धिः । कैवल्यगतानामपि दुःखित्त्व⁴दर्शनात् कार्यकारण-
१. An old form adopted when a topic was dealt with by a Guru.
२. The inclusion of "उपसर्गौ" appears necessary. It might be an omission in the original Ms.
३. He has not mentioned any अधिकरण in his भाष्य.
४. He means the quarrels and jealousies among celestial beings mentioned in the Vedic and Puranic literatures.