पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)
Pashupata Sutras of Lakulisha with Panchartha Bhashya
भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा
पृष्ठ 16, कुल 166 में से
संदर्भ में पढ़ें१० सभाष्ये पाशुपतसूत्रे
इत्येतदाज्ञायां नियोगे च । भस्मन्येव रात्रौ स्वप्तव्यं नान्यत्रेत्यर्थः ।
उक्तं हि—
" यथा मृगा मृत्युभयस्य भीता उद्विग्नवासा न लभन्ति निद्राम् ।
एवं यतिर्ध्यानपरो महात्मा संसारभीतो न लभेत निद्राम् ॥"
किञ्च विशेषार्थित्वात् । विशेषार्थी चायं ब्राह्मणः ।
उक्तं हि—
" न विशेषार्थिनां निद्रा चिरं नेत्रेषु तिष्ठति ।
हयानामिव जात्यानामर्धरात्रार्धशायिनाम् ॥”
तस्मात् परिवृष्टे भूप्रदेशे दिवा परिग्रहं कृत्वा भस्मास्तीर्या-
ध्ययनाध्यापनध्यानाभिनिविष्टेन प्रवचनचिन्तनाभिनिवेशैश्च श्रान्तेन
वाहूपधानेन सद्योजातादिसंस्कृते भस्मनि रात्रौ स्वप्तव्यमित्यर्थः ।
किमर्थमिति चेत् ? । उच्यते—तपोर्थं भूप्रदेशे शौचार्थं विश्रामार्थं
वा । समविषमनिम्नोन्नतायां भूमौ यामं यामद्वयं वा स्वप्तव्य-
मित्यर्थः ॥ ३ ॥
आह—किं स्नानं शयनं च भस्मना प्रयोजनद्वयमेवात्र
कर्तव्यम् उतान्यदपि ? । सवनान्तस्थस्यास्याशौचकं प्राप्तस्य
निर्घातकं किमिति ? । तदुच्यते—
अनुस्नानम् ॥ ४ ॥
मन्त्रादिस्नानवत् । अत्र अनु इति पृष्ठकर्मक्रियायां भवति ।
अनुपानानुगमनवत् । स्नानं तु भस्मद्रव्यसंयोजनमेव । सवनत्रये
१. An apt illustration.