सामग्री पर जाएँ
सर्वकोश
पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

Pashupata Sutras of Lakulisha with Panchartha Bhashya

भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा

DevanagariSanskritpublished166 पृष्ठ

पृष्ठ 17, कुल 166 में से

संदर्भ में पढ़ें
पृष्ठ 17

प्रथमोऽध्यायः । ११
स्नानस्यान्तरेषु भुक्तोच्छिष्टक्षुतनिष्ठिवितमूत्रपुरीषोत्सर्गादिनिमित्तकम्
अशौचकमभिसमीक्ष्य तदनुस्नानं कर्तव्यम् । किमर्थमिति चेत् ?,
शौचार्थं लिङ्गाभिव्यक्त्यर्थं च । स्नेयमित्यर्थः ॥ ४ ॥
आह—किं भस्मैवैकं लिङ्गाभिव्यक्तिकारणम् ? । भक्ति-
विवृद्धौ वा अप्रतिषिद्धस्य साधनं किमिति ? । तदुच्यते—
निर्माल्यम् ॥ ५ ॥
अत्र भस्मवल्लोकादिप्रसिद्धं निर्माल्यम् । निर् इति निर्मुक्त-
स्याख्या । माल्यम् इति पुष्पसमूहपर्यायः । तत् परकृतं कारण-
मूर्त्यारोपितावतारितं निष्परिग्रहं पद्मोत्पलाद्यम् १ । भक्तिविवृद्धयर्थं
लिङ्गाभिव्यक्त्यर्थं च तद्२ धार्यमित्यर्थः ॥ ५ ॥
आह—भस्मनिर्माल्येन तस्य लिङ्गं व्यक्तं भवतीति क्व
सिद्धम् ? । तदुच्यते—इह । यस्मादाह—
लिङ्गधारी ॥ ६ ॥
अत्र यथान्येषामपि वर्णाश्रमिणामाश्रमप्रतिविभागकराणि लिङ्गानि
भवन्ति । तत्र गृहस्थस्य तावद् वासस्त्रयं३ वैणवी यष्टिः
१. No mention was made of Bilva leaves.
२. The method of taking निर्माल्य is well described in
गणकारिका by its commentator under the 6th Karika, page 12.
३. The number is not mentioned clearly by Manu and other
Smritikaras. Three cloths are specifically mentioned here viz., head-
dress, upper and lower cloths.