सामग्री पर जाएँ
सर्वकोश
पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

Pashupata Sutras of Lakulisha with Panchartha Bhashya

भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा

DevanagariSanskritpublished166 पृष्ठ

पृष्ठ 10, कुल 166 में से

संदर्भ में पढ़ें
पृष्ठ 10

४ सभाष्ये पाशुपतसूत्रे
कस्मात् ? । शिष्टप्रामाण्यात् चिह्न¹दर्शनश्रवणाच्च । अत्याश्रमप्रसिद्धं
लिङ्गमास्थाय प्रवचनमुक्तवान् ; भस्मस्नानशयनानुस्नाननिर्माल्यैक-
वासोग्रहणाद् (अ० १, सू० २—५ & १७⁴) अधिकरणप्रसिद्धयर्थं च
स्वशास्त्रोक्ते आयतने शिष्यसम्बन्धार्थं शुचौ देशे भस्मवेद्यामुषितः ।
अतो रुद्रप्रचोदितः कुशिक²भगवानभ्यागत्याचार्ये परिपूर्णपरितृप्त्या-
द्युत्कर्षलक्षणानि, विपरीतानि चात्मनि दृष्ट्वा, पादावुपसंगृह्य न्यायेन
जातिं गोत्रं श्रुतमतृणत्वं च निवेदयित्वा कृतक्षणमाचार्यं काले
वैद्यवदवस्थितमातुरवदवस्थितः शिष्यः पृष्टवान्—भगवन् ! किमेतेषा-
माध्यात्मिकाधिभौतिकाधिदैविकानां सर्वदुःखानामैकान्तिकोऽत्यन्तको
व्यपोहोऽस्त्युत नेति ? । अथोक्तपरिग्रहाधिकारलिप्सामु परापदेशेनोप-
देशे सच्छिष्यसाधकपाठप्रसिद्धयर्थं कारणपदार्थाधिगमार्थं चात्मनि
परापदेशं कृत्वा भगवाने³वोक्तवान्—अथेति । अत्र पूर्वप्रकृतापेक्षाया-
मथशब्दः । कथम् ? । शिष्येणोदीरितं पूर्वं प्रश्नमपेक्ष्योक्तवानथेति ।
एवमयमथशब्दः पृष्टप्रतिवचनार्थोऽस्ति । स दुःखान्त इत्यर्थः ।
आह—किं परीक्षिताय शिष्याय दुःखान्तः प्रतिज्ञातः
उतापरीक्षितायेति ? । उच्यते—परीक्षिताय । यस्मादाह — अत इति ।
अत्र अतःशब्दः शिष्यगुणवचने । यस्मादयं ब्रह्मावर्तदेशजः
कुलजः षडिन्द्रियो विविदिषादिसम्पन्नः शिष्यः । पूर्वं चात्रार्थतोऽतः-
शब्दो द्रष्टव्यः ।
अथ स दुःखान्तः कुतः प्राप्यते ? केन वाभ्युपायेनेति ? ।
तदुच्यते—पशुपतेः । प्रसादादिति वाक्यशेषः । अत्र पशूनां पतिः
१. None now in Ujjain knows the चिह्न-symbol or mark.
२. कुशिक is the 10th Guru in गुरुपरम्परा.
३. नकुलीश the author of these Sutras is the first Guru.
४. Not traceable.