पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)
Pashupata Sutras of Lakulisha with Panchartha Bhashya
भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा
DevanagariSanskritpublished166 पृष्ठ
पृष्ठ 18, कुल 166 में से
संदर्भ में पढ़ेंपृष्ठ 18
सोदकं च कमण्डलु सोत्तरोष्ठवपनं यज्ञोपवीतादि लिङ्गम् । तथा
ब्रह्मचारिणोऽपि दण्डकमण्डलुमौञ्जीमेखलायज्ञोपवीतकृष्णाजिनादि
लिङ्गम् । तथा वानप्रस्थस्यापि करीरचीरवल्कलकूर्चजटाधारणादि
लिङ्गम् । तथा भिक्षोस्त्रिदण्डमुण्डकमण्डलुकाषायवासोजलपवित्र-
स्थलपवित्रादि लिङ्गम् । एवमिहापि यदेतत् पाशुपतयोगा-
धिकरणं लिङ्गमित्याश्रमप्रतिविभागकरं भस्मस्नानशयनानुस्नान-
निर्माल्यैकवासादिनिष्पन्नं स्वशरीरलीनं पाशुपतमिति लौकिकादि-
ज्ञानजनकं तत् । लीयनाल्लिङ्गनाच्च लिङ्गम् । तद् धारयन्
लिङ्गधारी भवति । दण्डधारिवदित्यर्थः ॥ ६ ॥
आह—अथैते स्नानशयनानुस्नानादयोऽर्थाः क कर्तव्याः ? ।
कुतो वा निर्माल्यस्यार्जनं कर्तव्यम् ? । कुत्रस्थेन वा तद् धार्यम् ?