सामग्री पर जाएँ
सर्वकोश
पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

Pashupata Sutras of Lakulisha with Panchartha Bhashya

भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा

DevanagariSanskritpublished166 पृष्ठ

पृष्ठ 14, कुल 166 में से

संदर्भ में पढ़ें
पृष्ठ 14

नाम साध्यसाधनव्यतिरेकः । आङिति व्याख्यामर्यादायां भवति ।
पदात् पदं सूत्रात् सूत्रं प्रकरणात् प्रकरणम् अध्यायादध्यायम्
आ बोधादा परिसमाप्तेरिति, मर्यादावस्थस्यैव च वक्ष्यामः ।
ख्या प्रकथने । प्रतीताप्रतीताभिः संज्ञाभिः वेदादिविहिताभिः
व्यतिरेकेण च व्याख्यास्यामः । स्या इत्येष्ये काले । यावदय-
माचार्यो गृहस्थादिभ्योऽभ्यागतं पूर्वमतःशब्दात् परीक्षितं ब्राह्मणं
व्रतोपवासाद्यं महादेवस्य दक्षिणस्यां मूर्तौ सद्योजातादिसंस्कृतेन
भस्मना संस्करोति उत्पत्तिलिङ्गव्यावृत्तिं कृत्वा मन्त्रश्रावणं च
करोति तावदेष्यः कालः क्रियते । म इति प्रतिज्ञायां भवति ।
उत्थानादिगणे सम्यग्व्यवस्थितस्य व्याख्येयव्याख्यानयोर्भगवान्नेव
क्रमशॊ वक्ता । स्थूलोपायपूर्वकत्वात् सूक्ष्मविधेयाधिगमस्य
पूर्वाश्रमनियमप्रतिषेधार्थमत्याश्रमयमनियमप्रसिद्धयर्थं च (प्राग् ?) विधिः
प्रथमं व्याख्यायते । इत्यत्रायं पदार्थोपन्यासः परिसमाप्त इति ॥ १ ॥
अत्राह—प्रतिपन्नांशो यथाविधि प्रथमं व्याख्यायते । इदमी-
दानीं चिन्त्यम् । अथास्य कश्चादिः ? किं मध्यं ? कोऽन्तः ?
कत्यङ्गो वा विधिरिति ? । तदुच्यते—भस्मनाद्यो (अ० १, सू० २)
निन्दामध्यो (अ० ३, सू० ५) मूढान्तश्च (अ० ४, सू० ८) विधिः । स च
त्र्यङ्गो दानयजनतपोङ्ग इति । तत् कथमवगम्यते ? यस्मादिदमारभ्यते—
भस्मना त्रिषवणं स्नायीत ॥ २ ॥
अत्र भस्म नामद्रव्यं यदग्नीन्धनसंयोगान्निष्पन्नम् । तत् परकृतं
पार्थिवं शुक्लं दीप्तिमत् । ग्रामादिभ्यो भैक्ष्यवद् भस्मार्जनं कर्तव्यम् ।
स्नानशयनानुस्नानकृत्यबन्धुत्वान्निष्परिग्रहत्वादहिंसकत्वाद् उत्कृष्टमेव
शुचि प्रभूतं ग्राह्यं साधनत्वात् । अलाभे स्वल्पमपि ग्राह्यम् ।
आधारोऽप्यलाबुचर्मवस्त्रादिरत्र प्रसिद्धः । आह—किं तेन भस्मना
कर्तव्यम् ? । तदुच्यते—भस्मनेति तृतीया करणार्थे कर्तुः क्रिया-