सामग्री पर जाएँ
सर्वकोश
पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

Pashupata Sutras of Lakulisha with Panchartha Bhashya

भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा

DevanagariSanskritpublished166 पृष्ठ

पृष्ठ 12, कुल 166 में से

संदर्भ में पढ़ें
पृष्ठ 12

६ | सभाष्ये पाशुपतसूत्रे

पशुपतेरिति कार्यकारणयोः प्रसादस्य चोद्देशः । तस्मात् प्रसादात्
स दुःखान्तः प्राप्यते । न तु ज्ञानवैराग्यधर्मैश्वर्यत्यागमात्रादित्यर्थः ।
आह—कुत्रस्थस्य कदा कीदृशस्य वा स भगवान् प्रसी-
दतीति ? । उच्यते—यदानेन तु तत् प्राप्तं भवति । आह—
किं तद् इति ? । उच्यते—पाशुपतम् । (अत्र पशुपतिनोक्तं परि-
गृहीतं पशुपतिमधिकृत्य चारभ्यत इति पाशुपतम् ।) यथा वैष्णवं
मानसमिति ।
किं तदिति ? । उच्यते—योगम् । अत्रात्मेश्वरसंयोगो
योगः । स पुनः पुरुषस्याध्ययनादिनैमित्तिकत्वादन्यतरकर्मजः
स्थाणुश्येनवत् । चोदनाध्ययनादिवचनाद् मेषवदुभयकर्मजः ।
यस्मात् सति विभुत्वे अनाधिकारकृतत्वाद् वियोगस्य । वियुक्तस्यैव च
संयोग उपदिश्यते । विषयरक्तविरक्तवत् क्रियायोगे । इह तु
समाधिलक्षणे योगे संनियम इति ।
आह—किं परिज्ञानमात्रादेव तद्योगः प्राप्यते ? । उच्यते ।
यस्मादाह—तत्प्राप्तौ विधिं व्याख्यास्यामः । अत्र योगस्य विधिः
योगविधिरिति षष्ठीतत्पुरुषसमासः । अत्र सूक्ष्मस्थूलसवाह्याभ्यन्तर-
सलक्षणविलक्षणक्रियासु विधिसंज्ञा यज्ञविधिवत् । न तु सेना-
वनादिवत् । कस्मात् ? । क्रियाणां क्षणिकानां समुदायासम्भवात् ।
यद्येवं विधिः कस्मात् ? । विधायकत्वाद् विधिः । उपायोपेयभावाच्च ।
विधिमिति कर्म ।
एवं सङ्खान्तः कार्यं कारणं योगो विधिरिति पञ्चैव
पदार्थाः समासतः उद्दिष्टाः । ते व्याख्येयाः । (व्याख्यानमेतेषां विस्तर-
विभागविशेषोपसंहारनिगमनानि ।) तस्माद् अन्यद् व्याख्येयम्
अन्यद् व्याख्यानम् । यस्मादाह—व्याख्यास्यामः । अत्र विः
विस्तरे विभागे विशेषे च भवति । तत्र विस्तर इति प्रत्यक्षानु-