बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
by महर्षि बौधायन
Source: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (origin)
दशमः खण्डः ] तृतीयप्रश्ने दशमोऽध्यायः ३५७
दशमः खण्डः ] तृतीयप्रश्ने दशमोऽध्यायः ३५७
अन्न नहीं खाना चाहिए उनके अन्न का भक्षण करता है और निषिद्ध आचरण करता
है, तो पाप से लिप्त हो जाता है ॥ ३ ॥
प्रदर्शनमेतदन्येषामपि पापानाम् । मिथ्या अयथादृष्टार्थस्य कर्मणः आत्मनो
लाभपूजार्थं चरणमित्यादि । अचरणीयमकर्तव्यं प्रतिषिद्धमित्यर्थः । यदत्र
पुनरुक्तमिव लक्ष्यते तत् दृढार्थम्, स्वाभावो ह्येष आचार्यस्य । अथ वा—
आपद्विषयेऽनुज्ञातस्याऽप्ययाज्ययाजनादेः प्रायश्चित्तापत्त्यर्थम् । तत्राऽपि प्रथम-
कल्पितचतुर्भागः कर्तव्यः, उशनसा वचनात् । आपद्विहितैः कर्मभिरापादयन्ती-
त्यापदस्तेषां प्रायश्चित्तचतुर्भागं कुर्यात्' इति ॥ ३ ॥
पाप्येन कर्मणा लिप्यत इत्युक्तम्—
तत्र प्रायश्चित्तं कुर्यान्न कुर्यादिति ॥ ४ ॥
अनु०—इस विषय में सन्देह है कि प्रायश्चित्त करना चाहिए या नहीं करना
चाहिए ॥ ४ ॥
मीमांसन्ते इति शेषः । तत्र पूर्वपक्षो न कुर्यादिति ॥ ४ ॥
कुतः ?
न हि कर्म क्षीयते इति ॥ ५ ॥
अनु०—कुछ लोगों का मत है कि प्रायश्चित्त नहीं करना चाहिए, क्यों कि कर्म
नष्ट नहीं होते हैं ॥ ५ ॥
इतिशब्दो हेतौ । फलप्रदानमन्तरेण पापस्य कर्मणः क्षयाभावादित्यर्थः ।
आत्मसंस्थत्वात्कर्मणो जलसंस्थस्येव लवणस्य नाशो नाऽस्तीति ॥ ५ ॥
कुर्यात्त्वेव ॥ ६ ॥
अनु०—किन्तु सिद्धान्त यह है कि प्रायश्चित्त अवश्य करना चाहिए ॥ ६ ॥
तुशब्दः पक्षं व्यावर्तयति । कथं कर्मणः क्षय इति चेत्, प्रायश्चित्तेन कर्म
क्षीयत इति वदामः । यथा सर्पदंशनलक्षणस्य कर्मणो मरणपर्यन्तस्य मन्त्रौष-
धादिना विनाशो दृश्यते, तद्वदस्याऽपि प्रायश्चित्तेनेत्यभिप्रायः, आगमंगम्यत्वा-
दुत्पत्तेस्तन्नाशस्य च । किञ्च तत्फळभोग एवाऽयम्, यदिदं तपः । अल्पकाळ-
परिसमाप्तमित्येतावत् । यथा दीर्घकालोपभोग्यस्य व्याधेरल्पदुःखानुभवरूपेण
भैषजादिना क्षयो भवत्येवमस्याऽप्यागमगम्यत्वादेव । तस्मात्कुर्यादेव प्राय-
श्चित्तम् । तत्र शुष्कतर्को न कर्तव्य इत्यभिप्रायः ॥ ६ ॥
३५८ | बौधायन-धर्मसूत्रम् | [ अनादिष्टप्रायश्चित्तम्
अथ तदागमं दर्शयति—
'पुनस्तोमेन यजेत पुनस्सवनमायन्तीति विज्ञायते ॥ ७ ॥
अनु०— वेद में कहा गया है कि पुनस्तोम करे । पुनस्तोम करने वाले पुनः सोम के सवनों में अंशग्राही होकर आते हैं ॥ ७ ॥
अथाऽप्युदाहरन्ति—
^२सर्वं पाप्मानं तरति, तरति ब्रह्महत्यां योऽश्वमेधेन यजत इति ॥ ८ ॥
^३अग्निष्टुता वाऽभिशस्यमानो यजेतेति च ॥ ९ ॥
अनु०— इस सम्बद्ध में निम्नलिखित भी उद्धृत करते हैं—
जो अश्वमेध यज्ञ करता है वह सभी पापों को पार कर जाता है, ब्रह्महत्या के पाप को भी पार कर जाता है ॥ ८ ॥
अनु०— जिसके ऊपर घोर पापकर्म का दोष लगाया गया हो वह अग्निष्टुत् यज्ञ करे ॥ ९ ॥
विषयव्याप्त्यर्थमनेकोदाहरणम् । पुनस्सवनं पुनर्योगः । नष्टाधिकारस्तत्समाधाने सत्येतदुपपद्यते । सर्वग्रहणाद्विहिताकरणप्रतिषिद्धसेवानिमित्तस्याऽपि । तरणं क्षपणम् । विज्ञायते प्रतीयते । उभयाभावेऽपि जन्मान्तरकृतपापप्रदर्शनार्थमभिशस्यमान इत्युक्तम् ॥ ७-९ ॥
अधुना पापनिवर्हणोपायानाह—
तस्य निष्क्रयणानि जपस्तपो होम उपवासो दानम् ॥ १० ॥
अनु०— वेद का जप, तपश्चरण, होम, उपवास और दान उस पाप कर्म के दोष को दूर करने के साधन हैं ॥ १० ॥
निष्क्रयणं शोधनं याप्यस्य कर्मणः । यथा कंसादिगतस्य मलस्य भस्मादि । जपो मानसो वाचिकश्च । स च वक्ष्यमाणस्योपनिषदादेर्मन्त्रगणस्य । तपश्चाऽहिंसादि यद्वक्ष्यते (सू० १४) । होम आत्मीयद्रव्यस्य देवतोद्देशपूर्वकोऽग्नौ प्रक्षेपः । उपवास इन्द्रियसंयमः । दानमात्मीयस्य द्रव्यस्य पात्रेषु प्रतिपादनम् ॥ १० ॥
१. 'पुनस्तोमेनेष्ट्वा' इति क. पुस्तके गौतमीये धर्मसूत्रे च पाठः ।
२. see तै० सं० ३. १२. २ ।
३. अयमपि सोमयागविशेष एकदिनसाध्यः ।