बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
by महर्षि बौधायन
Source: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (origin)
चतुर्थः खण्डः ] प्रथमप्रश्ने द्वितीयोऽध्यायः २९
चतुर्थः खण्डः ] प्रथमप्रश्ने द्वितीयोऽध्यायः २९
शिशुः किलाऽऽङ्गिरसः पितॄनध्यापयामास । तान् 'पुत्रकाः' इत्यामन्त्र-
यामास, तच्च न्याय्यमेवेति देवा ऊचुः। अनेनाऽपि प्रकारेण ज्ञानत एव
ज्यैष्ठ्यं न वयस्त इति दर्शयति ॥ ४८ ॥ ३ ॥
इति प्रथमप्रश्ने द्वितीयाध्याये तृतीयः खण्डः
प्रथमप्रश्ने द्वितीयाध्याये चतुर्थखण्डः
अनर्हाय विद्या न दातव्येत्याह—
'धर्मार्थौ यत्र न स्यातां शुश्रूषा वाऽपि तद्विधा ।
विद्यया सह मर्तव्यं न चैनामूषरे वपेत् ॥ १ ॥
अनु०— यदि धर्म या अर्थ की उपलब्धि न हो, अथवा ( शिष्य में ) उचित
सेवाभाव न हो, तो उस विद्या के साथ ही मर जाना श्रेयस्कर है, किन्तु उसे ऊसर
में बोना नहीं चाहिए। ( अर्थात् अयोग्य, सेवाभाव विहीन शिष्य को नहीं प्रदान
करना चाहिए ॥ १ ॥ )
यथा कृषीवलश्शुभं बीजमूषरे न वपति। तथा शुश्रूषादिवर्जिते विद्या न
दातव्येत्यर्थः ॥ १ ॥
अध्यापयामास पितॄन् शिशुराङ्गिरसः कविः ।
पुत्रका इति होवाच ज्ञानेन परिगृह्य तान् ॥
ते तमर्थमपृच्छन्त देवानागतमन्यवः ।
देवाश्चैतान् समेत्योचुर्न्याय्यं वश्शिशुरुक्तवान् ॥
अज्ञो भवति वै बालः पिता भवति मन्त्रदः ।
अज्ञं हि बालमित्याहुः पितेत्येव तु मन्त्रदम् ॥
इति मनो ( म, २, १५०-१५४ )
ताण्ड्यमहाब्राह्मणे-शिशुर्वा आङ्गिरसो मन्त्रकृतां मन्त्रकृदासीत् स पितॄन् पुत्रका
इत्यमन्त्रयत तं पितरोऽव॒अधर्मं करोषि यो नः पितॄन् सतः पुत्रका इत्यामन्त्रयस इति
सोऽब्रवीदहं वाव पिताऽस्मि यो मन्त्रकृदस्मीति ते देवेष्वपृच्छन्त ते देवा अब्र॒वन्नेष वाव
पिता यो मन्त्रकृत्तदिति तद्वै स उदजयदिति श्रुतम् । ( ता, ब्रा, १३, ३, २४ )
मनुना सूत्रकारेण चाऽनुसंहितं वेदितव्यम् ।
१. Cf with मनु २ ११२
३० बौधायन-धर्मसूत्रम् [ ब्रह्मचारिधर्माः
अयोग्याध्यापने दोषमाह—
अग्निरिव कक्षं दहति ब्रह्मपृष्टमनादृतम् ।
तस्माद्वै शक्यं न ब्रूयात् ब्रह्म मानमकुर्वतामिति ॥ २ ॥
अनु०—जिज्ञासा करके प्राप्त वेद अनादृत होने पर अध्येता को उसी प्रकार भस्म कर देता है जिस प्रकार अग्नि घर को । अतएव वेदविद्या को उपदेश ऐसे शिष्यों को नहीं देना चाहिए जो यथासंभव उस विद्या का मान न करें ॥ २ ॥
'शक्यं मानमिति सम्बन्धः । वैशब्दः पादपूरणः । ब्रह्म विद्या मानं पूजा ॥ २ ॥
ब्रह्मचर्यविधावेवेतिहासमाह—
^२अत्रैवाऽस्मै वचो वेदयन्ते ॥ ३ ॥
अनु०—इसी विषय में ब्रह्मचारी को यह उपदेश दिया गया है ॥ ३ ॥
एवेत्येवमित्येतस्मिन्नर्थे । एवमस्य ब्रह्मचारिण इतिहासरूपं वचो वेदयन्ते वाजसनेयिनः । तच्च वक्ष्यमाणम् ॥ ३ ॥
^३ब्रह्म वै मृत्यवे प्रजाः प्रायच्छत् तस्मै ब्रह्मचारिणमेव न प्राय-
च्छत्सोऽब्रवीदस्तु मह्यमप्येतस्मिन् भाग इति यामेव रात्रिं समिधं
नाऽऽहराता इति ॥ ४ ॥
अनु०--ब्रह्म ने सृष्ट प्राणियों को मृत्यु को दे दिया, किन्तु केवल ब्रह्मचारी को नहीं दिया । मृत्यु ने कहा: 'मुझे भी इस ब्रह्मचारी में अंश मिलना चाहिए' ब्रह्म ने कहा—जिस रात्रि यह समिदाहरण न करे उसी रात्रि तुम्हें इसमें अंश मिलेगा अर्थात् तुम इसे नष्ट कर सकोगे ॥ ४ ॥
टि०—समिदाहरण से यहाँ अग्नीन्धन, वेदाध्ययन, गुरुशुश्रूषा आदि आवश्यक आचार नियमों का भी अर्थ ग्राह्य है । यह शतपथब्राह्मणे ११.२.६ से उद्धृत है ।
ब्रह्मशब्देन जगत्कारणरूपमुच्यते, वेदसम्बन्धात् । तत् मृत्यवे प्रजाः प्रददौ । किमर्थम् ? मारयितुम् । प्रयच्छदपि तस्म ब्रह्मचारिणमेव न प्रायच्छत् आत्मसन्निकर्षात् । अथ मृत्युराह—सोऽब्रवीदस्तु मह्यमप्येतस्मिन् भाग इति । ब्रह्मचारिण्यपि^४ मारणाय मम प्रवेशोऽस्त्वित्यर्थः । ततो ब्रह्माऽब्रवीत्सा रात्रि-
१. न ब्रूयादिति सम्बन्धः, इति ग. पु.
२. एवास्मै, इति क, पु, एते वास्मै, इति ङ पु,
३. गोपथब्राह्मणे ( १. २. ६. ) द्रष्टव्यम् ।
४. मरणणमंप्रवेशोऽस्तु इति, क, पु.