सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

छत्रयुक्तिः । ६७
आयाम-परिणाहाभ्यां नवमुष्टि-मितं हि तत् ।
इदं हि सर्व्वतोभद्रं सर्व्वेषामुपयुज्यते ॥ ४८३ ॥
एकैक मुष्टिवृद्ध्यातु यावद्विंशतिमुष्टिकम् ।
मेषादि-लग्नजातानां नृणां छत्रमिदं क्रमात् ॥ ४८४॥
अथ सदण्डम् ।
आयाम-परिणाहेन हस्तद्वयमिदं हि यत् ।
स चतुर्हस्त-दण्डाढ्यो दण्ड-छत्रोति गद्यते ॥ ४८५ ॥
सर्व्वेषां सुखसम्पत्त्यै सर्व्वतैवोपयुज्यते (१५) ।
एकैक वृद्धया मुष्टिस्तु छत्रे दण्डे वितस्तयः (१६) ॥ ४८६ ॥
ब्रह्म-क्षत्रिय-विट्-शूद्र जातीनां क्रमतो विदुः ॥ ४८७ ॥
क्रम नियमस्तु तथैव ।
शलाका वस्त्र-दण्डादि-वर्णः पूर्व्ववदिष्यते ॥ ४८८ ॥
भोजोऽपि—
लघुता दीर्घता चैव दण्ड-सूत्रो-गुणग्रहः ।
इत्थं विचार्य्य यः कुर्य्यात् मानवश्छत्रमात्मनः ॥ ४८६ ॥
स लक्ष्मीं विजयं कीर्त्तिं प्रतापश्चाभिविन्दति ॥ ४६० ।
यो मोहादथवा दम्भात् कुरुते छत्रमन्यथा ।
स विषीदति भोजस्य वाक्यमेतत् असंशयम् (१७) ॥४६१॥
इति भोजराजीये युक्तिकल्पतरौ छत्रयुक्तिः ।
( १५ ) उपजायते इति (ख) पुस्तक पाठः ।
( १६ ) वितस्तयः इति (ग) पुस्तक पाठः ।
( १७ ) असंशयः इति (ख) पुस्तक पाठः ।

१८ युक्तिकल्पतरौ—
तत्रध्वज-युक्तिः ।
सेना-चिह्नं क्षितीशानां दण्डोध्वज इति स्मृतः ।
सपताको निष्पताकः स ज्ञेयो द्विविधो बुधैः ॥ ४६२ ॥
स पातक-ध्व[ज]स्याग्रे यथा हस्तं परिन्यसेत् ।
जय-हस्तो ध्वजो नाम नैनं सामान्यमर्हति ॥ ४६३ ॥
वंशोऽथवा कुलः शालः पालाशश्चम्पकस्तथा ।
नैपो नेषो(१)थवा दण्डस्तथा वैराज-वारणः ॥ ४६४ ॥
अज्ञानादिक-(२) संज्ञानां वर्ण-रूपः प्रकाशितः ।
सर्वेषां चैव वंशस्तु दण्डः सम्पत्ति-कारकः ॥ ४६५ ॥
अकचटतप यशाः ।
पताका सार्द्ध-दैर्घ्येण दण्डस्तु पृथिवी-भुजाम् ।
प्रता पाय पताकास्तु अष्टावेव प्रकाशिताः ॥ ४६६ ॥
पञ्चहस्तायता(यथा) हस्त-परिणाहा जयाभिधाः ।
जया च विजया भीमा चपला वैजयन्तिका ॥ ४६७ ॥
दीर्घा विलासा लोला च ज्ञेया हस्तैक वृद्धितः ।
परिणाहे पादवृद्धि रथ वर्गस्य निर्णयः ॥ ४६८ ॥
रक्तः श्वेतोऽरुणः पीतो चित्रो नीलोऽथ कर्बुरः ।
कृष्णश्चेति पताकानां वर्णः रूपः प्रकाशितः ।
अवर्णा(ज्ञा)दिकसंज्ञानां अष्टाना्राष्टक-चयम् ॥ ४६९ ॥
कलसो दर्पणश्चन्द्रः पद्मकोषो यथाक्रमम् ।
ब्रह्म-क्षत्रिय-विट्शूद्र-जातीनां संप्रकाशितः ॥ ५०० ॥
( १ ) नैषा निम्बो इति (ख) पुस्तक पाठः ।
( २ ) अवर्णादिक इति (ख) पुस्तक पाठः ।

ध्वजयुक्तिः । ६८
गजादि-युक्ता सा प्रोक्ता जयन्ती सर्व्वमङ्गला ।
गजः सिंहो हयो द्विपो चतुर्णां पृथिवी-भुजाम् ॥ १ ॥
हंसादि-युक्ता विज्ञेया राज्ञा सैवाष्टमङ्गला ।
हंसः केकी शुकः चासो ब्रह्मादीनां यथाक्रमम् ॥ २ ॥
चामरादि-समायुक्ता सा ज्ञेया सर्व्ववुद्धिदा ।
चामरश्वास-पञ्चानि चित्रवस्त्रं तथा सितम् ॥ ३ ॥
चतुर्णां वेदनयन-पञ्चास्व (३) गणिताः क्रमात् ।
तदग्रे यदि विन्यस्तं पताका-द्वितयं भवेत् ॥ ४ ॥
द्वयं (४) हि सर्व्वतोभद्रा पताका चक्रवर्त्तिनः ।
तद्वर्णः पूर्व्ववज् ज्ञेयः प्रमाणं विधि-बोधितम् ॥ ५ ॥
कानकं राजतं ताम्रं नाना धातुमयं क्रमात् ।
कुम्भादिकं प्रशंसन्ति पताकाग्रे मही-भुजाम् ॥ ६ ॥
अत्रापि रत्न-विन्यासो विधेयो रजत-क्रमः ।
चतुर्भिर्मकराद्याद्यैर्मुक्ता चेत् सर्व्व-सिद्धिदा ॥ ७ ॥
तदाश्रेयस्करी नाम सा पताका विजायते ।
मकरोऽथ गजः सिंहः व्याघ्रो वाजी मृगः शुकः ॥ ८ ॥
शुचि (५) ष्वेति समुद्दिष्टमादित्यादि-दशाभुवाम् ।
इति प्रोक्तः पताकानां निर्णयः पृथिवी-भुजाम् ॥ ६ ॥
अन्येषामतिसंक्षेपात् पताका-लक्षणं शृणु ।
गभस्तिरथहस्तश्च तथा हस्तद्वयं क्रमात् ॥ १० ॥
यथोत्तरं द्विगुणितं पत्तौ दशगुणैः क्रमात् ।
एवं सहस्राधिपतेः पताका तौर्य्यहस्तिकी ॥ ११ ॥
( ३ ) पञ्चन्व इति (ख) पुस्तक पाठः ।
( ४ ) द्वदं (द्वमं) इति (ख) पुस्तक पाठः ।
( ५ ) सूची इति (ग) पुस्तक पाठः

७० युक्तिकल्पतरौ—
पताका सार्द्ध-दैर्घ्येण दण्डमानं प्रकीर्त्तितम् ।
वर्णादिकन्तु यत्किञ्चित् तत् सर्व्वं पूर्व्ववन्मतम् ॥ १२ ॥
दैर्घता लघुता चेति सपताक-ध्वजे गुणाः ।
अङ्कुशादिकमन्यच्च ध्वजाग्रे युक्तितोन्यसेत् ॥ १३ ॥
संक्षेपेनेति निर्दिष्टं पताका-विधि-लक्षणम् ।
एवं विमृश्य(ष्य) मतिमान् यः पताकां समाचरेत् ॥ १४ ॥
स प्राप्नोति श्रियं कीर्त्तिं कुलवीर्य्य-बलोन्नतिम् ।
पताकां पृथिवी-पालो योऽज्ञानादन्यथा चरेत् ।
स विषीदति संग्रामे मन्ददन्त (६) इव द्विपाः ॥ १५ ॥
इति श्रीभोजराजीये युक्तिकल्पतरौ सपताक-ध्वजयुक्तिः ॥
अथ निष्पताक-ध्वजः ।
पूर्व्ववद्दण्ड-नियमस्तव दैर्घ्ये विशेषणम् ।
दण्डपत्राणि पद्मञ्च कुम्भश्च विहगोमणिः ॥ १६ ॥
निष्पताको ध्वजो राज्ञां षड्भिरेतैः सुसज्जितैः ।
जयः कपालो विजयः चेत्रस्तत्र शिव-क्रमात् ॥ १७ ॥
राज्ञः पुरुषमानेन दण्डमानं प्रकीर्त्तितम् ।
ऊर्द्धाधः क्रमयोगेन तद्दण्डादिकमुच्यते ॥ १८ ॥
केकी चासो मत्स्यरङ्गः(ङ्गः) द्विविधानां महीभुजाम् ।
ध्वजाग्रेषु विधेयानि पत्राणि श्रियमिच्छताम् ।
पद्मं कुम्भश्च विहगो माला चैव यथाक्रमम् ॥ १६ ॥
(६) मन्द दण्डः इति (क)-(ग) पुस्तक पाठः

उपर्युपरितो देयं (७) निष्पताके महीभुजाम् ।
अष्ट-षोडश-द्वात्रिंशच्चतुःषष्टिदलाम्बुजम् ॥ २० ॥
वृत्ताष्ट-दिग्दलेशाश्व (म्बु:) कुम्भः सम्पत्ति-कारकः ।
हंसश्चाषः शुकःकेकी पक्षिणश्च यथाक्रमम् ॥ २१ ॥
वज्रञ्च पद्मरागञ्च नीलं वैदूर्य्यमेव च ।
ब्रह्म-क्षत्रिय-विट्-शूद्र जातीनां स्याद् यथाक्रमम् ॥ २२ ॥
कनकं रजतं युग्मं द्विविधानां महीभुजाम् ।
निष्पताक-ध्वजाङ्गादि निर्माणे योगमिष्यते ॥ २३ ॥
पताका यदि हस्तैका सर्वाग्रे योग्यवर्णिनी ।
अयं ध्वजो विशालाख्यो विज्ञेयश्चक्रवर्त्तिनः ॥ २४ ॥
तत्रैव चामरे योग्‍ये विज्ञेयाः सर्वसम्पदः ।
इति राज्ञां समुद्दिष्टमन्येषां ध्वज उच्यते ॥ २५ ॥
नोर्द्धं विंशति-हस्तेभ्यो नचार्वाग्दशहस्ततः ।
हस्त-हस्तैकसंङ्ख्या ध्वजो दशविधोमतः । २६ ॥
सहस्राधिप (८) मारभ्य यावत् स्यादयुताधिपः ॥ २७ ॥
न सहस्राधिपान्न्यूनो ध्वज-धारण मर्हति ।
अपि कोटिपते र्ज्ञेयो ध्वजो विंशति-हस्तकः ॥ २८ ॥
अत्रापि वर्ण-वस्त्रादि-निर्णयः पूर्ववन्मतः ।
स्थिरता चित्रता चेति निष्पताक ध्वजे गुणौ ॥ २६ ॥
यदेतदुभयं चिह्न उभयोः संप्रकाशितम् ।
तत्प्रमाण-ध्वजे ज्ञेयमप्रधानेन निर्णयः ॥ ३० ॥
(७) धेयम् इति (क) पुस्तक पाठः ।
(८) सहस्रादिकम् इति (ख) पुस्तक पाठः ।

७२ युक्तिकल्पतरौ—
निष्पताक ध्वजोद्देशः प्रोक्तोऽयं भोज-भूभुजा ।
एतद्दिष्टस्य मतिमान् चिरं सुखमवाप्नुयात् ॥ ३१ ॥
यो दम्भादथवाऽज्ञानादिलङ्घयति मानवः ।
स विसीदति नश्येत तस्य कीर्त्तिःकुलं बलम् (ε) ॥ ३२ ॥
इति ध्वजयुक्तिः ।
अथोपकरण-युक्तिः ।
छत्र ध्वज सिंहासन यानादिभ्यो यदन्यत्स्यात् ।
राज्याङ्गं तदुपकरणं तस्माल्लोके विशेषास्तु ॥ ३३ ॥
तस्य [उपकरणस्य] गणना ।
चामरञ्चाथ भृङ्गारः चसकञ्च प्रसाधनोम् ।
वितानञ्चाथ शय्या च व्यजनं दर्पणाम्बरम् ।
एतन्नवकमुद्दिष्टं राजोपकरणाख्यया ॥ ३४ ॥
तत्र चामरोद्देशः ।
हस्तद्वयोन्नतः शुभ्रः सुवर्णवलि-भूषितः ।
हीरैरालङ्कृतो राज्ञां भव्यमाना सुखप्रदः ॥ ३५ ॥
वालचामर दैर्ध्याद्वा(त्वात्) आयामत्वं प्रकाशितम् ।
भव्यो भद्रो जयः श्रोलः (१०) सुख-सिद्धिश्चलः स्थिरः ।
वितस्त्येकैक सम्बृद्ध्या दिनेशादि-दशाभुवाम् ॥ ३६ ॥
( ε ) कुलं मूलम् इति (ग) पुस्तक पाठः ।
( १० ) शौलः इति (ग) पुस्तक पाठः ।

चामरयुक्तिः । ७३
सौवर्णं राजतं युग्मं त्रैदशानां महीभुजाम् ।
योजयेदिति निश्चित्य वलि-कल्पन कर्म्मणि ॥ ३७ ॥
स्थलजं जाङ्गलो राजा आनूपो जलजं वहेत् ।
हीरञ्च पद्मरागञ्च वैदूर्य्यं नील मेव च ॥ ३८ ॥
मणिवलिषु योक्तव्यो ब्रह्मादीनां यथाक्रमम् ।
शुक्लो रक्तोऽथ पीतश्च नानावर्णी यथाक्रमम् ॥ ३९ ॥
ब्रह्म-क्षत्रिय-विट्-शूद्र-जातीनाञ्च महीभुजाम् ।
चामरं राज-केशस्य न सामान्यस्य भूपतेः ॥ ४० ॥
न भव्यमानं तो न्यूनं चामरं गुणमावहेत् ।
*
अथ चामरपरीक्षा ।
स्थलजं जलजञ्चेति चामरं द्विविधं विदुः ॥ ४१ ॥
मेरौ हिमालये विन्ध्ये कैलासे मलये तथा ।
उदयेऽस्तगिरौ चैव गन्धमादन पर्व्वते ॥ ४२ ॥
एवमेतेषु शैलेषु याश्चमर्यो भवन्ति हि ।
तासां वालस्य जायेत चामरेत्यभिधा भुवि ॥ ४३ ॥
आपीताः कनकाद्रिजा हिमगिरेः शुभ्रायता विन्ध्यजाः,
कैलासादसिताः सिता मलयजाः शुक्लास्तथा पिङ्गलाः ।
आरक्ता उदयोद्भवा अस्तजा आनील-शुक्लत्विषः ;
कृष्णाः केचन गन्धमादन भवाः पाण्डुत्विष-श्चामराः ॥४४॥
अन्येषु प्रायशः कृष्णा श्चामराः सम्भवन्ति हि ।
ब्रह्म-क्षत्रिय-विट्-शूद्र-जातयस्ता-श्चतुर्विधाः ॥ ४५ ॥
चमर्य्यः पर्व्वतोद्भूता यथापूर्वं गुणावहाः ।
दीर्घ-वालाः सुलघवः स्निग्धाङ्गाश्चापि कोमलाः ॥ ४६ ॥
१०

७४ युक्तिकल्पतरौ—
विरला स्तनु-पर्वाणः चमर्य्यो ब्रह्म-जातयः ।
विना संस्कारमप्यासां चामरम्बिमलम्भवेत् ॥ ४७ ॥
दीर्घ-वालाः सुगुरवः कर्करांशा भृशं घनाः ।
तीक्ष्णाग्रास्तनुपर्वाण क्षमर्य्यः क्षेत्रजातयः ॥ ४८ ॥
विना संस्कारमप्यासां चामरं विमलं भवेत् ।
दीर्घ-वालाः सुगुरवः कर्करांशा भृशं घनाः ॥ ४६ ॥
विज्ञेयाः स्थूलपर्वाण क्षमर्य्यो वैश्यजातयः ।
संस्कारे चाप्यसंस्कारे न स्वभावं त्यजेदिद(य)म् ॥ ५० ॥
खर्बवालाः सुलघवः कोमलाङ्गा भृशं घनाः ।
‘विज्ञेयाः स्थूलपर्वाण क्षमर्य्यो वैश्यजातयः ॥ ५१ ॥
संस्कारेण भवे(परि)च्छन्नं भवेन्मलिनमन्यथा(दा) ।
खर्व-वालाः सुगुरवो विमलाः कर्कशास्तथा’ ॥ ५२ ॥
चमर्य्य-स्तनु-पर्वाणो विज्ञेयाः शूद्र-जातयः ।
संस्कारेणापि मलिनमासां चामरमिष्यते ॥ ५३ ॥
दीर्घता लघुता चैव स्वच्छता घनता तथा ।
गुणाश्चत्वार इत्येते चामराणां प्रकीर्त्तिताः ॥ ५४ ॥
खर्व्वता गुरुता चैव वैवर्ण्यं मलिनाङ्गता ।
दोषाश्चत्वार इत्येते चामराणां प्रकीर्त्तिताः ॥ ५५ ॥
दीर्घे दीर्घायुराप्नोति लघौ भीति-विनाशनम् ।
स्वच्छः (१) स्याद्धन-कीर्त्तिभ्यां घने स्युः स्थिर-सम्पदः ॥५६॥
खर्वे खर्वायुद्दिष्टं गुरुर्गुरु-भयप्रदः ।
विरले रोग-शोकाभ्यां मलिनं मृत्युमादिशेत् ॥ ५७ ॥
इति स्थलजम् ( चामरम् ) ॥
( १ ) स्वच्छे-स्यात् इति (ख) पुस्तक पाठः ।

चामरयुक्तिः । ७५
अथ जलजम् ।
लवणेक्षु सुरा सर्पिस्तोयो दधिपयोन्धिषु ।
यथोत्तरं गुणवहाश्चमर्थ्यः सप्तसप्तसु ॥ ५८ ॥
पुच्छानि तासां कृत्तानि (२) जन्तुभिर्मकरादिभिः ।
कदाचिदुपलभ्येत तत्तीरे पुण्य-शालिभिः ॥ ५९ ॥
लवणाब्धि-समुद्भूतं पोतं गुरु-घनस्तथा ।
वह्नौक्षिप्तस्य(ख) बालश्चेत् किञ्चिचट-चटायते ॥ ६० ॥
इक्षु-सिन्धूद्भवं ताम्रं चामरं विमलं लघु ।
मत्तिका मशकाश्चैव तस्मिन् व्यजति चामरे ॥ ६१ ॥
सुराब्धि-जातं कलुषं कर्बुरं गुरु-कर्कशम् ।
तद्गन्धेनैव मायन्ति (३) अपि वृक्षा मतङ्गजाः ॥ ६२ ॥
सर्पिःसिन्धूद्भवं स्निग्धं श्वेता-पीतं घनं लघु ।
वायुरोगाः प्रशाम

७६ युक्तिकल्पतरौ—
एषां पूर्ववदुन्नेयं जाति-दोष-गुणादिकम् ॥ ६८ ॥
स्थलजे जलजे चैव भाव्यमेतद्विशेषणम् ।
स्थलजं सुखदह्यं हि दाहे मिषमिषायते ॥ ६६ ॥
जलजं बह्निदुर्दह्यं महान्तं धूममुद्गीरेत् (४) ।
चामराणां समुद्दिष्टमित्येवं लक्षणद्वयम् ।
एवं विमृश्य यो धत्तेःस राजा सुखमश्नुते ॥ ७० ॥
जलजं चामरं राजा यो धत्ते जाङ्गलेश्वरः ।
तस्याचिरात् कुलं वीर्यं लक्ष्मोरायुश्च नश्यति ॥ ७१ ॥
अनूपाधीश्वरो राजा यो वहेत् स्थलजं तथा ।
तस्यैतानि विनश्यन्ति लक्ष्मोरायुर्यशोवलम् ॥ ७२ ॥
नालं वर्णद्वये तेषां विधेयं शिल्पिनां क्रमात् ।
संस्कारो वालुकायन्त्रे(यान्तु) मसूर-सलिलादिभिः (५) ॥७३॥
एषां कृत्रिमदण्डत्वं प्रतिभाति यदा क्वचित् ।
तदोष्ण-सलिल-क्वाथात् कृत्रिमत्वं विपद्यते ॥ ७४ ॥
इति श्रीभोजराजीय युक्तिकल्पतरौ उपकरणयुक्तौ चामरोद्देशः ॥
————*————
अथ भृङ्गारोद्देशः ।
राज्ञोऽभिषेक-पात्रं यद् 'भृङ्गार' इति तन्मतम् ।
तदष्टधा तस्य मानमाकृतिश्चापि चाष्टधा ॥ ७५ ॥
सौवर्णं राजतं भौमं ताम्रं स्फाटिकमेव च * ।
चान्दनं लोहजं शार्ङ्गमेतदष्टविधं मतम् ॥ ७६ ॥
(४) मुद्गिरेत् इति (२) पुस्तक पाठः ।
(५) मस्तुसलिलादिभिः इति (२) पुस्तक पाठः ।

  • 'सौवर्णमित्यारभ्य-उन्निता' इत्यन्तं सार्द्धश्लोकी (ख) पुस्तके नास्ति ।

[भृङ्गारयुक्तिः । ७७]

भानुदिक् नव सप्ताष्ट-रुद्रलोक-सुरोन्मिताः ।
अष्टावष्टौ समाख्याता आयाम-परिणाहयोः ॥ ७७ ॥
द्वि-चतुर्वाण-वेदाब्धि(६) वाणसप्ताष्ट(ख) वृत्तता (७) ।
यथाक्रमं समुद्दिष्टं आदित्यादि-दशाभुवाम् ॥ ७८ ॥
पद्मरागस्तथा वज्रं वैदूर्य्यं मौक्तिकन्तथा ।
नीलं मरकतञ्चैव मुक्ताच सप्त कीर्त्तिताः ॥ ७९ ॥
भृङ्गारसप्तके न्यास्या(८)नभौमो मणिरर्हति ।
कानकं मृन्मयं वापि सर्व्वेषामुपयुज्यते ॥ ८० ॥
कानकन्तु क्षितीशानां मृन्मयं सार्व्वयोगिकम् ।
शङ्ख पद्मेन्दुकह्लारं प्रत्यस्रं विन्यसेत् क्रमात् ॥८१॥
चतुर्विधानां भूपानां चान्द्रः सर्व्वत्र शस्यते ।
श्वेतं रक्तं तथा पीतं कृष्णं चन्दनमुच्यते ॥ ८२ ॥
एतेषां सलिलैः सेकः चतुर्णां स्यान्महीभुजाम् ।
मल्लो पद्मञ्च नीलञ्च तथा कृष्णापराजिता ।
एषां पुष्पाणि केशेषु चतुर्जाति-महीभुजाम् ॥ ८३ ॥
होरकं पद्मरागञ्च वैदूर्य्यं नीलमेव च ।
चत्वारो मणयो ध्येयाः चतुर्णां सेचनाम्भसि ॥ ८४ ॥
इत्थं निश्चित्य यः कुर्य्यात् नृपतिः सेकमात्मनः ।
स चिरायुर्भवेद्भोगी इतोऽन्यस्त्वन्यथाचरन् ॥ ८५ ॥
इति श्रीभोजराजीये युक्तिकल्पतरौ
भृङ्गारोद्देशः ॥


( ६ ) वालसप्ताष्ट इति (ग) पुस्तक पाठः ।
( ७ ) सप्ताङ्गवृत्तता इति (ख) पुस्तक पाठः ।
( ८ ) -न् भौमो इति (ख) पुस्तक पाठः ।

७८ युक्तिकल्पतरौ—
अथ चषकोद्देशः ।
यत्पानपात्रं भूपानां तज्ज्ञेयं चषकं बुधैः ।
कानकं राजतं चैव स्फाटिकं काचमेव च ❊ ॥ ८६ ॥
वृत्तं ख(सु)राष्ट्र-दिक्कोणं चतुर्णां पृथिवीभुजाम् ।
इत्यन्यत् सम्मतं तेषां निर्णयः पाठ-सम्मतः ॥
ख-मुष्टि-सम्मितं रत्नैः चतुर्व्वर्णैः समन्वितम् ॥ ८७ ॥
मौक्तिकं (१) वाथ फालम्बा सर्व्वेषामेव युज्यते ।
काष्ठजं धातुजं शैलं जाङ्गलादि-महीभुजाम् ॥ ८८ ॥
‘न (†) त्वन्यत्सम्मतं तेषां निर्णयः पाठ-सम्मतः ।
स्व मुष्टिसम्मितं रत्नं चतुर्व्वर्णैः समन्वितम्’ ॥ ८९ ॥
यदन्यत्तोय-पानादि-पात्रं पृथ्वोभुजाम्भवेत् ।
एवं तत्रापि नियम इति भोजस्य निश्चयः ॥ ९० ॥
इति श्रीभोजराजीये युक्तिकल्पतरौ चषकोद्देशः ।
अथ प्रसाधनी ।
प्रसाधनी दिङ्नव-नाग-सप्त,
सङ्ख्याभिरुक्ताङ्गुलीभिः क्रमेण ।
चतुर्विधानां पृथिवी-पतीनां ;
सम्पत्ति-सौभाग्य-यशः समृद्धिदा ॥ ९१ ॥


(१) मार्त्तिकं इति इति (क) पुस्तक पाठः ।


❊ काचपात्रवृत्तन्तु भारत-रामायण-स्मृति-पुराण-कादम्वर्य्यादौ दृश्यते ।
† “न त्वन्यदित्यारभ्य-समन्वितम्” इत्यन्त एकः श्लोकः (क) (ग) पुस्तकेऽधिकः पठितः
इति मन्ये ।

प्रसाधनोयुक्तिः । ७२
काष्ठजा धातुजा चैव शृङ्गजा च यथाक्रमम् ।
जाङ्गला नूप-सामान्य-देशजानां महीभुजाम् ॥ ६२ ॥
छत्रदण्ड-वदुन्नेयः काष्ठजाया विनिश्चयः ।
कनकं रजतं ताम्रं पित्तलं सीसकं तथा ॥ ६३ ॥
लोहं सर्व्व(T)ञ्च सर्व्वार्थ-(द्धे)मादित्यादि-दशाभुवाम् ।
राज्ञामेवोपयुज्येत कालकीर्त्ति-प्रसाधनो ॥ ६४ ॥
मृगाणां महिषाणाञ्च शृङ्गजाता प्रसाधनी ।
गज-दन्त-समुद्भूता राज्ञामेवोपयुज्यते ॥ ६५ ॥
अत्रापि रत्न-विन्यासो ज्ञेयश्चामर-दण्डवत् ॥ ६६ ॥
गुरुता लघुता चैव तथा घन-शलाकता ।
मनोहरत्व-मुदितं प्रसाधन्या-गुणग्रहः ॥ ६७ ॥
... ... ... ... ... ... *
—*—
अथ वितान-लक्षणम् ।
वितानोऽष्टविधः प्रोक्तस्तेषां लक्षणमुच्यते ।
आयाम-परिणाहाभ्यां अष्टहस्तमितो हि सः(यः) ॥ ६८ ॥
वितानो मङ्गलो नाम मङ्गलाय महीभुजाम् ।
आयामो दशहस्तेन परिणाहेऽष्टहस्तकः ॥ ६६ ॥
वितानो विजयो नाम भर्तुः सर्व्वार्थ-साधकः ।
आयामे द्वादशभुजः प्रसरे दशहस्तकः ॥
विताने अपि ... ... यथाक्रमम् ।
... ... ... ... ... (†) ॥ १०० ॥


  • अत्र सन्दर्भभागं किञ्चित् त्रुटितं पश्यामि । आदर्शेषु तन्नास्ति ।
    † अवापि च तथैवादर्शेषु सन्दर्भांशोऽन्तरा नावलोक्यते ।

८० युक्तिकल्पतरौ—
सामान्यामात्य-भूपाल-चक्रवर्त्तिषु योजयेत् ।
शुक्रवर्णा च सर्व्वेषां सर्व्वत्रैवोपयुज्यते ॥ १ ॥
विशोर्णता कोमलता उच्चता-समता तथा ।
स्वच्छता चेति कथितं शय्यानां गुणपञ्चकम् ॥ २ ॥
इत्थं विमृश्य स्वपिति शय्यायां यो महीपतिः ।
सचिरं सुखमाप्नोति दुःखन्तु विपरीतकम् (तः) ॥ ३ ॥
वितानतुल्यो व्यजनस्य वर्णः,
प्रमाणमेवापर मत्र गद्यते ।
हीने भवेद्देश(षु) वितस्ति-सम्मितो ; (१)
भवेच्चतुर्णां व्यजनं शुभाय (२) ॥ ४ ॥
पञ्चवस्त्र-शलाकोत्थं विविधानां भवेदिति * ।
दर्पणः स्वर्ण-रजत-त्रपु-लौह-समुद्भवः ॥ ५ ॥
वितस्ति-सम्मितो भव्यो रसाख्यः सुखवर्द्धनः ।
भव्यः सुखो जयः क्षेमश्चतुरङ्गुलि-वर्द्धनात् ॥ ६ ॥
चतुर्विधानां भूपानां चतुरङ्ग-प्रसाधनः ।
आयाम-परिणाहाभ्यां चतुरङ्गुलि-सम्मितः ॥ ७ ॥
सर्व्वेषामुपयुज्येत विजयो नाम-दर्पणः ।
पौरुषं पौरुषार्द्धञ्च तदर्द्धञ्च यथाक्रमम् ॥ ८ ॥
चक्रवर्त्त्यन्यभूदेव-सामान्यानां प्रदर्शिताः ।
ऊर्द्ध-विस्तृत-मानन्तु पौरुषं मानमुच्यते ॥ ६ ॥
( १ ) वितस्तिसंख्य इति (क) पुस्तक पाठः ।
( २ ) भव्योवसाद्यः शुभसुखवर्द्धनः इति (ग) पुस्तक पाठः ।

  • पञ्चवस्त्रेत्यारभ्य-सुखवर्द्धन इत्यन्तः सार्द्धश्लोकः (ग) पुस्तके नास्ति ।

वस्त्रादि-युक्तिः । ८१
अष्टलोह-समुद्भूतः सर्वेषामुपयुज्यते ।
य उक्तो दर्पणः सर्व्व स्त्रैविध्यं नोपयुज्यते (†) ॥ १० ॥
दैवात्काल-विशेषाद्वा दैव-मानुष-राक्षसाः ।
दैवेषु मनोज्ञत्वं सुखादिकमिहेष्यते ॥ ११ ॥
मानुषे सह(साह) सम्मानं सुखादिरुपलभ्यते ।
दैवे सर्व्वार्थ-संसिद्धिर्मानुषे सुखसम्पदः ॥ १२ ॥
राक्षसे विपदः सर्व्वा स्त्रयाणां हि गुणत्रयम् ।
देवाराधनतो दैवं विलासे मानुषं मतम् ॥ १३ ॥
संग्रामे राक्षसं पश्येत् इति भोजस्य सम्मतम् ।
वस्त्रं चतुर्विधं प्रोक्तं श्वेत-रक्तन्तथैव च ॥ १४ ॥
पीतकृष्णमिति ब्रह्म-क्षत्र-विट्-शूद्र जन्मनाम् ।
श्वेतम्बाप्यथवा चित्रं सर्वेषान्तु प्रशस्यते ॥ १५ ॥
‘भोजस्तु’ जाङ्गलादीनां त्रिविध

युक्तिकल्पतरौ—
ये जन्तवो दक्षिण-पूर्व्वसिन्धु,—
कच्छेवने वा प्रसव(र)न्ति सूक्ष्माः ।
शुक्लातिशुक्लं प्रसवन्ति तन्तुं ;
ते ब्राह्मणाः मुख्यतमाः प्रदिष्टाः ॥ २० ॥
ये जन्तवः पश्चिम-सिन्धुकच्छे,
वनेऽथवाऽनूप मही-प्रदेशे ।
आपीत-शुक्लं प्रसबन्ति तन्तुं ;
तेऽमी विशः मुख्यतमाः प्रदिष्टाः ॥ २१ ॥
ये जन्तवः सर्व्वसमुद्रकच्छे,
वनेऽथ साधारण भू-प्रदेशे ।
नानाकृतिन्ते प्रसवन्ति तन्तुं ;
गुरुं गरिष्ठाकृतयो हि शूद्राः ॥ २२ ॥
ब्रह्म-क्षत्रिय-विट्-शूद्र-संज्ञकानि यथाक्रमम् ।
वस्त्राणि तेभ्यो जायन्ते यथापूर्व्वं शिवानि च ॥ २३ ॥
एकजातिभवं वस्त्रमुत्तमं संप्रचक्षते ।
द्विजाति-सम्भवं मध्यं त्रैजातं मध्यमं विदुः ॥ २४ ॥
चतुर्जातं हि कौषेयं कदाचिदपि नाचरेत् ।
चत्वारि तेषां नश्यन्ति आयुः कीर्त्तिः कुलम्बलम् ॥ २५ ॥
नानावर्णाकृतिन्वेषां शिल्पिनः कथयन्ति हि ।
बहुकार्पास-सूत्रोक्तं(त्यं) कार्पासमिति गद्यते ॥ २६ ॥
रूपसौक्ष्म्यादि भेदेन तस्यानेकविधो भवेत् ।
तद्वस्त्रं सर्वयोग्यं हि सर्वेषामिति सम्मतम् ॥ २७ ॥
वृक्षत्वक्-सम्भवं वाच्यं तज्ज्ञेयं द्विविधं पुनः ।
जाङ्ग्लानूपसामान्यो-द्देशो यो हि त्रिधोदितः ॥ २८ ॥
तत्र मुख्यप्र-देशे तु ये मुख्या अपि पादपाः ।

वस्त्रादियुक्तिः । ८३
तस्य त्वक् सम्भवं वस्त्रं विविधानां महीभुजाम् ॥ २६ ॥
ते ब्रह्म-क्षत्रजात्यादि-भेदाज्ज्ञेयाश्चतुर्विधाः ।
छलनी चतुर्विधा तेषां तनुः स्थूलाः मृदुः खराः ॥ ३० ॥
चतुर्विधानां भूपानां क्रमशः संप्रकाशिताः ।
अत्रापि नानाकलिता ज्ञेया शिल्पि-विनिर्मिताः ॥ ३१ ॥
जन्तुलोमोद्भवं वस्त्रं लोमजं नाम कीर्त्यते ।
मृगादयस्तु ते ब्रह्म-क्षत्र-विट्-शूद्र संज्ञकाः ॥ ३२ ॥
सूक्ष्मरोमा सुखस्पर्शः कोमलाङ्गस्तु यद्भवेत् ।
ब्रह्म-जातिरयं जन्तुरस्य वस्त्रं गुणोत्तरम् ॥ ३३ ॥
स्थूलरोमा मृदुस्पर्शः क्षत्रियः सोऽपि निर्भयः ।
सूक्ष्मरोमा खरस्पर्शः शूद्र-सञ्जः(ङ्गः) सुखच्छिदः ॥ ३४ ॥
यथापूर्वं गुणयुता चिरसंस्थान-संस्थिताः ।
ब्राह्मणो मलयामेरो हिमाद्रावपि जायते ॥ ३५ ॥
क्षत्रियः पश्चिमे देशे वैश्यः पूर्वदिशिस्थितः ।
शूद्रः सर्वत्र जायेत प्रायसो वा युगक्रमात् ॥ ३६ ॥
एकजाति-भवं भद्रं द्वेजातं सुखसम्पदे ।
त्रिचतुर्जाति-सम्भूतं लोमजं न सुखावहम् ॥ ३७ ॥
इत्थं निश्चित्य यो वस्त्रं परिधातुर्महीपतेः ।
तस्यायुश्च कुलं वीर्यं वैपरोत्य मतोऽन्यथा ॥ ३८ ॥
इति श्रीभोजराजीये युक्तिकल्पतरौ-(इत्युपकरणयुक्तिः)
वस्त्रोद्देशः ॥
—*—

८४ युक्तिकल्पतरौ—
अथालङ्कार-युक्तिः ।
तद्धारण-दिनमुच्यते ।
रेवत्यश्विधनिष्ठासु हस्तादिष्वपि पञ्चसु ।
गुरुशुक्रबुधस्याह्नि वस्त्रालङ्कार-धारणम् ॥ ३९ ॥
अनिष्टेष्वपि निर्दिष्टं वस्त्रालङ्कार-धारणम् ।
उद्वाहे राजसम्माने ब्राह्मणानाञ्च सम्मते ॥ ४० ॥
शिरस्थं मुकुटं हारः कुण्डलं चाङ्गदन्तथा ।
कङ्कणं वालकञ्चैव मेखलाष्टाविति क्रमात् ॥ ४१ ॥
प्रधानभूषणान्येषु यथास्वं(१)याति निश्चयः ? ।
पद्मरागश्च वस्त्रञ्च विजयो गोविद(२)स्तथा ॥ ४२ ॥
मुक्ता-वैदूर्य्य नीलञ्च यथा मरकतं क्रमात् ।
आदित्यादि-दशाजानां सर्व्व-सम्पत्ति-दायकाः ॥ ४३ ॥
सुवर्णेनापि घटना सर्वेषामुपयुज्यते ।
प्रधान-भूषणेष्वेव मप्रधानेन निर्णयः ॥ ४४ ॥
प्रधान-भूषणं प्रायः(३)शिरसोह्यभिधीयते ।
तस्य प्रधानभूतत्वा दित्याह 'भृगु नन्दनः' * ॥ ४५ ॥
सुखदा मणयः (४) शुद्धा दुःखदा दोष-शालिनः ।
अतो मणीनां वक्ष्यामि लक्षणानि यथाक्रमम् ॥ ४६ ॥
[ इत्यलङ्कार-धृतिनियमः ॥ ]
( १ ) यथाश्वन् तानि इति (क)—(ग) पुस्तक पाठः ।
( २ ) गोविदास्तथा इति (क) पुस्तक पाठः ।
( ३ ) -प्राय इतःपरं श्लोकार्द्धं (ग) पुस्तके नास्ति ।
( ४ ) मुनयः इति (ग) पुस्तक पाठः ।

  • भार्गवः शुक्राचार्य्यः शुक्रनीति-प्रणेतेति यावत् । तस्मिन्नपि शुक्रनीतौ विषयोऽयमस्ति ।

अलङ्कारधृतियुक्तिः । ८५
अथ वज्रलक्षणानि * ।
गरुड़पुराणे,—
वच्मि परोक्षां रत्नानां वलो † नामाऽसुरोऽभवत् ।
इन्द्राद्या निर्जितास्तेन निर्जेतुं तैर्न शक्यते ॥ ४७ ॥
वरव्याजेन पशुतां याचितः ससुरैर्मखे (५) ।
वलो लोकापकाराय देवानां हितकाम्यया ॥ ४८ ॥
तस्य सत्व-विशुद्धस्य सुविशुद्धेन कर्मणा ।
कायस्यावयवाः सर्वे रत्न-वौजत्वमाप्नुयुः ॥ ४६ ॥
देवानामथयक्षाणां सिद्धानां पवनाशिनाम् ।
रत्न-वौजः स्वयं ग्राहः समहानभवत् तदा ॥ ५० ॥
ततः संपततां वेगाद्विमानेन विहायसा ।
यद्वै पपात रत्नानां वोजं क्वचन किञ्चन ॥ ५१ ॥
इत्यादि बाहुल्यन्तथा।
——
अथ गणना ।
विष्णुधर्मोत्तरे,—
वज्रं मरकतञ्चैव पद्मरागश्च मौक्तिकम् ।
इन्द्रनीलं महानीलं वैदूर्य्यं गन्धसंज्ञकम् (
) ॥ ५२ ॥
( ५ ) ससुवै मुखे इति (क)-(ग) पुस्तक पाठः ।

  • तन्त्रसारेऽन्यथास्ति,—
    मुक्तामाणिक्य वैदूर्य-गोभेदान् वज्रविद्रुमौ ।
    पुष्यरागं मरकतं नीलञ्चे ति यथाक्रमम् ॥
  • अग्निपुराण-शुक्रनीति-बृहत्संहिता-गरुड़पुराण-अगस्तिमंत-भावप्रकाशादिषुवज्रमुक्ता-
    दीनां वृत्तमस्ति ।
    † वलीनामासुरः, तथाच मार्कण्डेयपुराणे—‘‘बलवान् बलसम्भृतः’’ इति ।

८६ युक्तिकल्पतरौ—
चन्द्रकान्तं सूर्य्यकान्तं स्फाटिकं पुलकन्तथा ।
कर्केतं पुष्परागञ्च तथा ज्योतीरसं द्विज ! ॥ ५३ ॥
स्फाटिकं राजव(T)र्त्तञ्च तथाराजमयं शुभम् ।
सौगन्धिकं तथा गन्धं (ञ्च) शङ्खं ब्रह्ममयन्तथा ॥ ५४ ॥
गोमेदं रुधिराख्यञ्च तथा भल्लातकं द्विज ।
धूली मरकतञ्चैव तुत्थकं सीसमेव च ॥ ५५ ॥
पौलुं(तं) प्रवालकञ्चैव गिरिवज्रञ्चभास्करम् (६) ।
भुजङ्गममणिञ्चैव तथा वज्रं मणिः शुभः ।
तित्तिरञ्च (७) तथा पौत्तं(तं) भ्रामरञ्च तथोत्पलम् ॥ ५६ ॥
वज्रान्येतानि सर्वाणि धार्य्याण्येव महीभृता * ।
सुवर्ण-प्रतिबद्धानि जयारोग्य-समृद्धये ॥ ५७ ॥
— * —
तत्रादौ पद्मराग-परीक्षा ।
सिंहले तु भवेद्रक्तं पद्मरागमनुत्तमम् ।
पीतं काल(ण)पुरोद्भूतं कुरुविन्दमिति स्मृतम् ॥ ५८ ॥
अशोकपल्लवच्छायममुं(नुं) सौगन्धिकं विदुः ।
तुम्बूरेच्छाययानीलं नीलगन्धि-प्रकीर्त्तितम् ॥ ५९ ॥
उत्तमं सिंहलोद्भूतं निकृष्टं तुम्बुरोद्भवम् ।
मध्यजं(म) मध्यमं ज्ञेयं माणिक्यं क्षेत्रभेदतः ॥ ६० ॥
( ६ ) भार्गव, (भाङ्गुरम्) इति (ख) पुस्तक पाठः ।
( ७ ) तित्तिभञ्चेति (ख) पुस्तक पाठः ।

  • “द्विपेन्द्रजीमूतवराहशङ्खमतस्या हि शुक्त्युद्भव-वेणुजानि मुक्ताफलानि”... इति
    मल्लिनाथः ॥