युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 119, कुल 278 में से
संदर्भ में पढ़ेंप्रसाधनोयुक्तिः । ७२
काष्ठजा धातुजा चैव शृङ्गजा च यथाक्रमम् ।
जाङ्गला नूप-सामान्य-देशजानां महीभुजाम् ॥ ६२ ॥
छत्रदण्ड-वदुन्नेयः काष्ठजाया विनिश्चयः ।
कनकं रजतं ताम्रं पित्तलं सीसकं तथा ॥ ६३ ॥
लोहं सर्व्व(T)ञ्च सर्व्वार्थ-(द्धे)मादित्यादि-दशाभुवाम् ।
राज्ञामेवोपयुज्येत कालकीर्त्ति-प्रसाधनो ॥ ६४ ॥
मृगाणां महिषाणाञ्च शृङ्गजाता प्रसाधनी ।
गज-दन्त-समुद्भूता राज्ञामेवोपयुज्यते ॥ ६५ ॥
अत्रापि रत्न-विन्यासो ज्ञेयश्चामर-दण्डवत् ॥ ६६ ॥
गुरुता लघुता चैव तथा घन-शलाकता ।
मनोहरत्व-मुदितं प्रसाधन्या-गुणग्रहः ॥ ६७ ॥
... ... ... ... ... ... *
—*—
अथ वितान-लक्षणम् ।
वितानोऽष्टविधः प्रोक्तस्तेषां लक्षणमुच्यते ।
आयाम-परिणाहाभ्यां अष्टहस्तमितो हि सः(यः) ॥ ६८ ॥
वितानो मङ्गलो नाम मङ्गलाय महीभुजाम् ।
आयामो दशहस्तेन परिणाहेऽष्टहस्तकः ॥ ६६ ॥
वितानो विजयो नाम भर्तुः सर्व्वार्थ-साधकः ।
आयामे द्वादशभुजः प्रसरे दशहस्तकः ॥
विताने अपि ... ... यथाक्रमम् ।
... ... ... ... ... (†) ॥ १०० ॥
- अत्र सन्दर्भभागं किञ्चित् त्रुटितं पश्यामि । आदर्शेषु तन्नास्ति ।
† अवापि च तथैवादर्शेषु सन्दर्भांशोऽन्तरा नावलोक्यते ।