सामग्री पर जाएँ
सर्वकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 122, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 122

युक्तिकल्पतरौ—
ये जन्तवो दक्षिण-पूर्व्वसिन्धु,—
कच्छेवने वा प्रसव(र)न्ति सूक्ष्माः ।
शुक्लातिशुक्लं प्रसवन्ति तन्तुं ;
ते ब्राह्मणाः मुख्यतमाः प्रदिष्टाः ॥ २० ॥
ये जन्तवः पश्चिम-सिन्धुकच्छे,
वनेऽथवाऽनूप मही-प्रदेशे ।
आपीत-शुक्लं प्रसबन्ति तन्तुं ;
तेऽमी विशः मुख्यतमाः प्रदिष्टाः ॥ २१ ॥
ये जन्तवः सर्व्वसमुद्रकच्छे,
वनेऽथ साधारण भू-प्रदेशे ।
नानाकृतिन्ते प्रसवन्ति तन्तुं ;
गुरुं गरिष्ठाकृतयो हि शूद्राः ॥ २२ ॥
ब्रह्म-क्षत्रिय-विट्-शूद्र-संज्ञकानि यथाक्रमम् ।
वस्त्राणि तेभ्यो जायन्ते यथापूर्व्वं शिवानि च ॥ २३ ॥
एकजातिभवं वस्त्रमुत्तमं संप्रचक्षते ।
द्विजाति-सम्भवं मध्यं त्रैजातं मध्यमं विदुः ॥ २४ ॥
चतुर्जातं हि कौषेयं कदाचिदपि नाचरेत् ।
चत्वारि तेषां नश्यन्ति आयुः कीर्त्तिः कुलम्बलम् ॥ २५ ॥
नानावर्णाकृतिन्वेषां शिल्पिनः कथयन्ति हि ।
बहुकार्पास-सूत्रोक्तं(त्यं) कार्पासमिति गद्यते ॥ २६ ॥
रूपसौक्ष्म्यादि भेदेन तस्यानेकविधो भवेत् ।
तद्वस्त्रं सर्वयोग्यं हि सर्वेषामिति सम्मतम् ॥ २७ ॥
वृक्षत्वक्-सम्भवं वाच्यं तज्ज्ञेयं द्विविधं पुनः ।
जाङ्ग्लानूपसामान्यो-द्देशो यो हि त्रिधोदितः ॥ २८ ॥
तत्र मुख्यप्र-देशे तु ये मुख्या अपि पादपाः ।