युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 125, कुल 278 में से
संदर्भ में पढ़ेंअलङ्कारधृतियुक्तिः । ८५
अथ वज्रलक्षणानि * ।
गरुड़पुराणे,—
वच्मि परोक्षां रत्नानां वलो † नामाऽसुरोऽभवत् ।
इन्द्राद्या निर्जितास्तेन निर्जेतुं तैर्न शक्यते ॥ ४७ ॥
वरव्याजेन पशुतां याचितः ससुरैर्मखे (५) ।
वलो लोकापकाराय देवानां हितकाम्यया ॥ ४८ ॥
तस्य सत्व-विशुद्धस्य सुविशुद्धेन कर्मणा ।
कायस्यावयवाः सर्वे रत्न-वौजत्वमाप्नुयुः ॥ ४६ ॥
देवानामथयक्षाणां सिद्धानां पवनाशिनाम् ।
रत्न-वौजः स्वयं ग्राहः समहानभवत् तदा ॥ ५० ॥
ततः संपततां वेगाद्विमानेन विहायसा ।
यद्वै पपात रत्नानां वोजं क्वचन किञ्चन ॥ ५१ ॥
इत्यादि बाहुल्यन्तथा।
——
अथ गणना ।
विष्णुधर्मोत्तरे,—
वज्रं मरकतञ्चैव पद्मरागश्च मौक्तिकम् ।
इन्द्रनीलं महानीलं वैदूर्य्यं गन्धसंज्ञकम् () ॥ ५२ ॥
( ५ ) ससुवै मुखे इति (क)-(ग) पुस्तक पाठः ।
- तन्त्रसारेऽन्यथास्ति,—
मुक्तामाणिक्य वैदूर्य-गोभेदान् वज्रविद्रुमौ ।
पुष्यरागं मरकतं नीलञ्चे ति यथाक्रमम् ॥ - अग्निपुराण-शुक्रनीति-बृहत्संहिता-गरुड़पुराण-अगस्तिमंत-भावप्रकाशादिषुवज्रमुक्ता-
दीनां वृत्तमस्ति ।
† वलीनामासुरः, तथाच मार्कण्डेयपुराणे—‘‘बलवान् बलसम्भृतः’’ इति ।