युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 112, कुल 278 में से
संदर्भ में पढ़ें७२ युक्तिकल्पतरौ—
निष्पताक ध्वजोद्देशः प्रोक्तोऽयं भोज-भूभुजा ।
एतद्दिष्टस्य मतिमान् चिरं सुखमवाप्नुयात् ॥ ३१ ॥
यो दम्भादथवाऽज्ञानादिलङ्घयति मानवः ।
स विसीदति नश्येत तस्य कीर्त्तिःकुलं बलम् (ε) ॥ ३२ ॥
इति ध्वजयुक्तिः ।
अथोपकरण-युक्तिः ।
छत्र ध्वज सिंहासन यानादिभ्यो यदन्यत्स्यात् ।
राज्याङ्गं तदुपकरणं तस्माल्लोके विशेषास्तु ॥ ३३ ॥
तस्य [उपकरणस्य] गणना ।
चामरञ्चाथ भृङ्गारः चसकञ्च प्रसाधनोम् ।
वितानञ्चाथ शय्या च व्यजनं दर्पणाम्बरम् ।
एतन्नवकमुद्दिष्टं राजोपकरणाख्यया ॥ ३४ ॥
तत्र चामरोद्देशः ।
हस्तद्वयोन्नतः शुभ्रः सुवर्णवलि-भूषितः ।
हीरैरालङ्कृतो राज्ञां भव्यमाना सुखप्रदः ॥ ३५ ॥
वालचामर दैर्ध्याद्वा(त्वात्) आयामत्वं प्रकाशितम् ।
भव्यो भद्रो जयः श्रोलः (१०) सुख-सिद्धिश्चलः स्थिरः ।
वितस्त्येकैक सम्बृद्ध्या दिनेशादि-दशाभुवाम् ॥ ३६ ॥
( ε ) कुलं मूलम् इति (ग) पुस्तक पाठः ।
( १० ) शौलः इति (ग) पुस्तक पाठः ।