युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 111, कुल 278 में से
संदर्भ में पढ़ेंउपर्युपरितो देयं (७) निष्पताके महीभुजाम् ।
अष्ट-षोडश-द्वात्रिंशच्चतुःषष्टिदलाम्बुजम् ॥ २० ॥
वृत्ताष्ट-दिग्दलेशाश्व (म्बु:) कुम्भः सम्पत्ति-कारकः ।
हंसश्चाषः शुकःकेकी पक्षिणश्च यथाक्रमम् ॥ २१ ॥
वज्रञ्च पद्मरागञ्च नीलं वैदूर्य्यमेव च ।
ब्रह्म-क्षत्रिय-विट्-शूद्र जातीनां स्याद् यथाक्रमम् ॥ २२ ॥
कनकं रजतं युग्मं द्विविधानां महीभुजाम् ।
निष्पताक-ध्वजाङ्गादि निर्माणे योगमिष्यते ॥ २३ ॥
पताका यदि हस्तैका सर्वाग्रे योग्यवर्णिनी ।
अयं ध्वजो विशालाख्यो विज्ञेयश्चक्रवर्त्तिनः ॥ २४ ॥
तत्रैव चामरे योग्ये विज्ञेयाः सर्वसम्पदः ।
इति राज्ञां समुद्दिष्टमन्येषां ध्वज उच्यते ॥ २५ ॥
नोर्द्धं विंशति-हस्तेभ्यो नचार्वाग्दशहस्ततः ।
हस्त-हस्तैकसंङ्ख्या ध्वजो दशविधोमतः । २६ ॥
सहस्राधिप (८) मारभ्य यावत् स्यादयुताधिपः ॥ २७ ॥
न सहस्राधिपान्न्यूनो ध्वज-धारण मर्हति ।
अपि कोटिपते र्ज्ञेयो ध्वजो विंशति-हस्तकः ॥ २८ ॥
अत्रापि वर्ण-वस्त्रादि-निर्णयः पूर्ववन्मतः ।
स्थिरता चित्रता चेति निष्पताक ध्वजे गुणौ ॥ २६ ॥
यदेतदुभयं चिह्न उभयोः संप्रकाशितम् ।
तत्प्रमाण-ध्वजे ज्ञेयमप्रधानेन निर्णयः ॥ ३० ॥
(७) धेयम् इति (क) पुस्तक पाठः ।
(८) सहस्रादिकम् इति (ख) पुस्तक पाठः ।