युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 110, कुल 278 में से
संदर्भ में पढ़ें७० युक्तिकल्पतरौ—
पताका सार्द्ध-दैर्घ्येण दण्डमानं प्रकीर्त्तितम् ।
वर्णादिकन्तु यत्किञ्चित् तत् सर्व्वं पूर्व्ववन्मतम् ॥ १२ ॥
दैर्घता लघुता चेति सपताक-ध्वजे गुणाः ।
अङ्कुशादिकमन्यच्च ध्वजाग्रे युक्तितोन्यसेत् ॥ १३ ॥
संक्षेपेनेति निर्दिष्टं पताका-विधि-लक्षणम् ।
एवं विमृश्य(ष्य) मतिमान् यः पताकां समाचरेत् ॥ १४ ॥
स प्राप्नोति श्रियं कीर्त्तिं कुलवीर्य्य-बलोन्नतिम् ।
पताकां पृथिवी-पालो योऽज्ञानादन्यथा चरेत् ।
स विषीदति संग्रामे मन्ददन्त (६) इव द्विपाः ॥ १५ ॥
इति श्रीभोजराजीये युक्तिकल्पतरौ सपताक-ध्वजयुक्तिः ॥
अथ निष्पताक-ध्वजः ।
पूर्व्ववद्दण्ड-नियमस्तव दैर्घ्ये विशेषणम् ।
दण्डपत्राणि पद्मञ्च कुम्भश्च विहगोमणिः ॥ १६ ॥
निष्पताको ध्वजो राज्ञां षड्भिरेतैः सुसज्जितैः ।
जयः कपालो विजयः चेत्रस्तत्र शिव-क्रमात् ॥ १७ ॥
राज्ञः पुरुषमानेन दण्डमानं प्रकीर्त्तितम् ।
ऊर्द्धाधः क्रमयोगेन तद्दण्डादिकमुच्यते ॥ १८ ॥
केकी चासो मत्स्यरङ्गः(ङ्गः) द्विविधानां महीभुजाम् ।
ध्वजाग्रेषु विधेयानि पत्राणि श्रियमिच्छताम् ।
पद्मं कुम्भश्च विहगो माला चैव यथाक्रमम् ॥ १६ ॥
(६) मन्द दण्डः इति (क)-(ग) पुस्तक पाठः