युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 113, कुल 278 में से
संदर्भ में पढ़ेंचामरयुक्तिः । ७३
सौवर्णं राजतं युग्मं त्रैदशानां महीभुजाम् ।
योजयेदिति निश्चित्य वलि-कल्पन कर्म्मणि ॥ ३७ ॥
स्थलजं जाङ्गलो राजा आनूपो जलजं वहेत् ।
हीरञ्च पद्मरागञ्च वैदूर्य्यं नील मेव च ॥ ३८ ॥
मणिवलिषु योक्तव्यो ब्रह्मादीनां यथाक्रमम् ।
शुक्लो रक्तोऽथ पीतश्च नानावर्णी यथाक्रमम् ॥ ३९ ॥
ब्रह्म-क्षत्रिय-विट्-शूद्र-जातीनाञ्च महीभुजाम् ।
चामरं राज-केशस्य न सामान्यस्य भूपतेः ॥ ४० ॥
न भव्यमानं तो न्यूनं चामरं गुणमावहेत् ।
*
अथ चामरपरीक्षा ।
स्थलजं जलजञ्चेति चामरं द्विविधं विदुः ॥ ४१ ॥
मेरौ हिमालये विन्ध्ये कैलासे मलये तथा ।
उदयेऽस्तगिरौ चैव गन्धमादन पर्व्वते ॥ ४२ ॥
एवमेतेषु शैलेषु याश्चमर्यो भवन्ति हि ।
तासां वालस्य जायेत चामरेत्यभिधा भुवि ॥ ४३ ॥
आपीताः कनकाद्रिजा हिमगिरेः शुभ्रायता विन्ध्यजाः,
कैलासादसिताः सिता मलयजाः शुक्लास्तथा पिङ्गलाः ।
आरक्ता उदयोद्भवा अस्तजा आनील-शुक्लत्विषः ;
कृष्णाः केचन गन्धमादन भवाः पाण्डुत्विष-श्चामराः ॥४४॥
अन्येषु प्रायशः कृष्णा श्चामराः सम्भवन्ति हि ।
ब्रह्म-क्षत्रिय-विट्-शूद्र-जातयस्ता-श्चतुर्विधाः ॥ ४५ ॥
चमर्य्यः पर्व्वतोद्भूता यथापूर्वं गुणावहाः ।
दीर्घ-वालाः सुलघवः स्निग्धाङ्गाश्चापि कोमलाः ॥ ४६ ॥
१०