युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 117, कुल 278 में से
संदर्भ में पढ़ें[भृङ्गारयुक्तिः । ७७]
भानुदिक् नव सप्ताष्ट-रुद्रलोक-सुरोन्मिताः ।
अष्टावष्टौ समाख्याता आयाम-परिणाहयोः ॥ ७७ ॥
द्वि-चतुर्वाण-वेदाब्धि(६) वाणसप्ताष्ट(ख) वृत्तता (७) ।
यथाक्रमं समुद्दिष्टं आदित्यादि-दशाभुवाम् ॥ ७८ ॥
पद्मरागस्तथा वज्रं वैदूर्य्यं मौक्तिकन्तथा ।
नीलं मरकतञ्चैव मुक्ताच सप्त कीर्त्तिताः ॥ ७९ ॥
भृङ्गारसप्तके न्यास्या(८)नभौमो मणिरर्हति ।
कानकं मृन्मयं वापि सर्व्वेषामुपयुज्यते ॥ ८० ॥
कानकन्तु क्षितीशानां मृन्मयं सार्व्वयोगिकम् ।
शङ्ख पद्मेन्दुकह्लारं प्रत्यस्रं विन्यसेत् क्रमात् ॥८१॥
चतुर्विधानां भूपानां चान्द्रः सर्व्वत्र शस्यते ।
श्वेतं रक्तं तथा पीतं कृष्णं चन्दनमुच्यते ॥ ८२ ॥
एतेषां सलिलैः सेकः चतुर्णां स्यान्महीभुजाम् ।
मल्लो पद्मञ्च नीलञ्च तथा कृष्णापराजिता ।
एषां पुष्पाणि केशेषु चतुर्जाति-महीभुजाम् ॥ ८३ ॥
होरकं पद्मरागञ्च वैदूर्य्यं नीलमेव च ।
चत्वारो मणयो ध्येयाः चतुर्णां सेचनाम्भसि ॥ ८४ ॥
इत्थं निश्चित्य यः कुर्य्यात् नृपतिः सेकमात्मनः ।
स चिरायुर्भवेद्भोगी इतोऽन्यस्त्वन्यथाचरन् ॥ ८५ ॥
इति श्रीभोजराजीये युक्तिकल्पतरौ
भृङ्गारोद्देशः ॥
( ६ ) वालसप्ताष्ट इति (ग) पुस्तक पाठः ।
( ७ ) सप्ताङ्गवृत्तता इति (ख) पुस्तक पाठः ।
( ८ ) -न् भौमो इति (ख) पुस्तक पाठः ।