सामग्री पर जाएँ
सर्वकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 123, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 123

वस्त्रादियुक्तिः । ८३
तस्य त्वक् सम्भवं वस्त्रं विविधानां महीभुजाम् ॥ २६ ॥
ते ब्रह्म-क्षत्रजात्यादि-भेदाज्ज्ञेयाश्चतुर्विधाः ।
छलनी चतुर्विधा तेषां तनुः स्थूलाः मृदुः खराः ॥ ३० ॥
चतुर्विधानां भूपानां क्रमशः संप्रकाशिताः ।
अत्रापि नानाकलिता ज्ञेया शिल्पि-विनिर्मिताः ॥ ३१ ॥
जन्तुलोमोद्भवं वस्त्रं लोमजं नाम कीर्त्यते ।
मृगादयस्तु ते ब्रह्म-क्षत्र-विट्-शूद्र संज्ञकाः ॥ ३२ ॥
सूक्ष्मरोमा सुखस्पर्शः कोमलाङ्गस्तु यद्भवेत् ।
ब्रह्म-जातिरयं जन्तुरस्य वस्त्रं गुणोत्तरम् ॥ ३३ ॥
स्थूलरोमा मृदुस्पर्शः क्षत्रियः सोऽपि निर्भयः ।
सूक्ष्मरोमा खरस्पर्शः शूद्र-सञ्जः(ङ्गः) सुखच्छिदः ॥ ३४ ॥
यथापूर्वं गुणयुता चिरसंस्थान-संस्थिताः ।
ब्राह्मणो मलयामेरो हिमाद्रावपि जायते ॥ ३५ ॥
क्षत्रियः पश्चिमे देशे वैश्यः पूर्वदिशिस्थितः ।
शूद्रः सर्वत्र जायेत प्रायसो वा युगक्रमात् ॥ ३६ ॥
एकजाति-भवं भद्रं द्वेजातं सुखसम्पदे ।
त्रिचतुर्जाति-सम्भूतं लोमजं न सुखावहम् ॥ ३७ ॥
इत्थं निश्चित्य यो वस्त्रं परिधातुर्महीपतेः ।
तस्यायुश्च कुलं वीर्यं वैपरोत्य मतोऽन्यथा ॥ ३८ ॥
इति श्रीभोजराजीये युक्तिकल्पतरौ-(इत्युपकरणयुक्तिः)
वस्त्रोद्देशः ॥
—*—