युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 107, कुल 278 में से
संदर्भ में पढ़ेंछत्रयुक्तिः । ६७
आयाम-परिणाहाभ्यां नवमुष्टि-मितं हि तत् ।
इदं हि सर्व्वतोभद्रं सर्व्वेषामुपयुज्यते ॥ ४८३ ॥
एकैक मुष्टिवृद्ध्यातु यावद्विंशतिमुष्टिकम् ।
मेषादि-लग्नजातानां नृणां छत्रमिदं क्रमात् ॥ ४८४॥
अथ सदण्डम् ।
आयाम-परिणाहेन हस्तद्वयमिदं हि यत् ।
स चतुर्हस्त-दण्डाढ्यो दण्ड-छत्रोति गद्यते ॥ ४८५ ॥
सर्व्वेषां सुखसम्पत्त्यै सर्व्वतैवोपयुज्यते (१५) ।
एकैक वृद्धया मुष्टिस्तु छत्रे दण्डे वितस्तयः (१६) ॥ ४८६ ॥
ब्रह्म-क्षत्रिय-विट्-शूद्र जातीनां क्रमतो विदुः ॥ ४८७ ॥
क्रम नियमस्तु तथैव ।
शलाका वस्त्र-दण्डादि-वर्णः पूर्व्ववदिष्यते ॥ ४८८ ॥
भोजोऽपि—
लघुता दीर्घता चैव दण्ड-सूत्रो-गुणग्रहः ।
इत्थं विचार्य्य यः कुर्य्यात् मानवश्छत्रमात्मनः ॥ ४८६ ॥
स लक्ष्मीं विजयं कीर्त्तिं प्रतापश्चाभिविन्दति ॥ ४६० ।
यो मोहादथवा दम्भात् कुरुते छत्रमन्यथा ।
स विषीदति भोजस्य वाक्यमेतत् असंशयम् (१७) ॥४६१॥
इति भोजराजीये युक्तिकल्पतरौ छत्रयुक्तिः ।
( १५ ) उपजायते इति (ख) पुस्तक पाठः ।
( १६ ) वितस्तयः इति (ग) पुस्तक पाठः ।
( १७ ) असंशयः इति (ख) पुस्तक पाठः ।